ब्रह्मसूत्रभाष्यम्/C04/S02/A018
Appearance
प्रतिस्मरणाधिकरणम् (योग्यधिकरणम्)
ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ ॥ 22-525 ॥
न केवलं कालादिकृते ब्रह्मचन्द्रगती स्मर्येते । किन्तु ज्ञानयोगिनः कर्मयोगिनश्च ।
‘अग्निर्ज्येतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्मब्रह्मविदो जनाः ॥
धूमो रात्रिस्तथा कृष्णः षण्मासादक्षिणायनम् ।
तत्र चान्द्रमासं ज्योतिर्योगी प्राप्य निवर्तते’
इत्यत्र योगीति विशेषणात् स्मरणनिमित्ते चैते गती ।
इति हि आध्यात्मे ॥ 22 ॥‘गत्यनुस्मरणाद्ब्रह्म चन्द्रं वा गच्छति ध्रुवम् ।
अननुस्मरतः काले स्मरणं प्राप्य वैगतिः’