ब्रह्मसूत्रभाष्यम्/C04/S01
प्रथमः पादः
प्रास्ताविकम्
आवृत्यधिकरणम्
ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ 01-485 ॥
ॐ लिङ्गाच्च ॐ ॥ 02-486 ॥
इत् बृहत्तन्त्रे ॥ 02 ॥‘नित्यशः श्रवणं चैव मननं ध्यानमेव च ।
कर्तव्यमेव पुरुषैर्ब्रह्मदर्शनमिच्छुभिः’
आत्मोपगमाधिकरणम्
ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ॥ 03-487 ॥
इति भविष्यत्पर्वणि ॥‘आत्मेत्युपासनम् कार्यं सर्वथैव मुमुक्षुभिः ।
नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत्’
इति ब्राह्मे ॥ 03 ॥
नप्रतीकाधिकरणम्
ॐ न प्रतीके न हि सः ॐ ॥ 04-488 ॥
ब्रह्मदृष्ट्यधिकरणम्
ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ॥ 05-489 ॥
महत्त्ववाची शब्दोऽयं महत्त्वज्ञानमेव हि ।
सर्वतः प्रीतिजनकमतस्तत् सर्वता भवेत् ॥
इति ब्रह्मतर्के ॥ 05 ॥आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता ।
कार्यैव सर्वथा विष्णोर्ब्रह्मत्वं न परित्यजेत्’
आदित्यादिमत्यधिकरणम्
ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥ 06-490 ॥
तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः ॥
तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः’ इति ॥ 06 ॥
आसनाधिकरणम्
ॐ आसीनः सम्भवात् ॐ ॥ 07-491 ॥
ॐ ध्यानाच्च ॐ ॥ 08-492 ॥
इति च नारायणतन्त्रे।स्थितस्य गच्छतो वाऽपि विक्षेपस्यैव सम्भवात् ।
स्मरणात् परमं ज्ञेयं ध्यानं नास्त्यत्र संशयः’
ॐ अचलत्वं चापेक्ष्य ॐ ॥ 09-493 ॥
इति च ब्रह्माण्डे ॥ 09 ॥‘अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम्।
चलने तु शरीरस्य चञ्चलं तु मनो भवेत्’
ॐ स्मरन्ति च ॐ ॥ 10-494 ॥
ॐ यत्रैकाग्रता तत्रा विशेषात् ॐ ॥ 11-495 ॥
प्रायणाधिकरणम्
ॐ आ प्रायणात् तत्रापि हि दृष्टम् ॐ ॥ 12-496 ॥
इति ब्रह्माण्डे ॥ 12 ॥
तदधिगमाधिकरणम्
ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ ॥13-497 ॥
इति तद्व्यपदेशात् ॥ 13 ॥
ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ॥ 14-498 ॥
इति चाग्नेये ॥ 14 ॥‘यथाऽश्लेषो विनाशश्च मुक्तस्य तु विकर्मणः ।
एवं सुकर्मणश्चापि पततस्तमसि ध्रुवम्’
ॐ अनारब्दकार्ये एव तु पूर्वे तदवधेः ॐ ॥ 15-499 ॥
इति च नारायणतन्त्रे ॥ 15 ॥
ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ॥ 16-500 ॥
ॐ अतोऽन्यदपीत्येकेषामुभयोः ॐ ॥ 17-501 ॥
ॐ यदेव विद्ययेति हि ॐ ॥ 18-502 ॥
इति श्रुतेः । ‘न हास्य कर्म क्षीयते’ इति च ।
इति च भारते ॥ 18 ॥‘अल्पमात्रकृतो धर्मो भवेद् ज्ञानवतो महान् ।
महानपि कृतो धर्मो ह्यज्ञानं निष्फलो भवेत्’
ॐ भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते ॐ ॥ 19-503 ॥
इति च नारायणतन्त्रे ॥ 19 ॥ब्रह्मणां शतकालात् तु पूर्वमारब्दसङ्क्षयः ।
नियमेन भवेन्नात्र कार्या काचिद्विचारणा’