Bhagavatatatparyanirnaya/C2/S3
Appearance
चतुर्थोऽध्यायः
आत्मजायासुतागारपशुद्रविणबन्धुषु ।राज्ये चाविकले नित्यनिरूढां ममतां जहौ ॥ २ ॥
अन्येषां नित्यं निरूढा । तदा विशेषतो जहौ ॥ २ ॥
संस्थां विज्ञाय सन्यस्य कर्म त्रैवर्गिकञ्च यत् ।वासुदेवे भगवति स्वात्मभावं दृढं गतः ॥ ४ ॥
'आप्तेः सर्वगुणानां य आत्मनामतया हरिम् ।
उपास्ते नित्यशो विद्वानाप्तकामस्तदा भवेत्। इति वामने ॥ ४ ॥
श्रीशुक उवाच–नमः परस्मै पुरुषाय भूयसे
गृहीतशक्तित्रितयायेति,
'इच्छा ज्ञानं क्रिया चेति नित्याः शक्तय ईशितुः । स्वरूपभूता अपि तु भेदवद्व्यावहारिकाः॥
इति प्रकाशसंहितावचनान्नित्यगृहीतशक्तित्वमेव ॥ १२ ॥भूयो नमः सद्वृजिनच्छिदेऽसतांअसम्भवायाऽखिलसत्वमूर्तये ।
अखिलसत्वमूर्तये पूर्णसाधुभावस्वरूपाय ।
'निःशेषगुणपूर्णत्वात्सत्व इत्येव तं विदुः। इति महासंहितायाम् ॥ १३ ॥
स एष आत्माऽऽत्मवतामधीश्वर-स्त्रयीमयो धर्ममयस्तपोमयः ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
'वेदानुसारिवशगः स्वेच्छया तु हरिर्यतः ।
अतः स्वतन्त्रमप्याहुः प्राज्ञा वेदमयेति ह। इत्यध्यात्मे ॥ १९ ॥