Jump to content

Bhagavatatatparyanirnaya/C2/S3

From Grantha
Revision as of 09:38, 12 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

चतुर्थोऽध्यायः

आत्मजायासुतागारपशुद्रविणबन्धुषु ।राज्ये चाविकले नित्यनिरूढां ममतां जहौ ॥ २ ॥


अन्येषां नित्यं निरूढा । तदा विशेषतो जहौ ॥ २ ॥
संस्थां विज्ञाय सन्यस्य कर्म त्रैवर्गिकञ्च यत् ।वासुदेवे भगवति स्वात्मभावं दृढं गतः ॥ ४ ॥


'आप्तेः सर्वगुणानां य आत्मनामतया हरिम् । उपास्ते नित्यशो विद्वानाप्तकामस्तदा भवेत्। इति वामने ॥ ४ ॥
श्रीशुक उवाच–नमः परस्मै पुरुषाय भूयसे


गृहीतशक्तित्रितयायेति,

'इच्छा ज्ञानं क्रिया चेति नित्याः शक्तय ईशितुः । स्वरूपभूता अपि तु भेदवद्व्यावहारिकाः

इति प्रकाशसंहितावचनान्नित्यगृहीतशक्तित्वमेव ॥ १२ ॥
भूयो नमः सद्वृजिनच्छिदेऽसतांअसम्भवायाऽखिलसत्वमूर्तये ।


अखिलसत्वमूर्तये पूर्णसाधुभावस्वरूपाय । 'निःशेषगुणपूर्णत्वात्सत्व इत्येव तं विदुः। इति महासंहितायाम् ॥ १३ ॥
स एष आत्माऽऽत्मवतामधीश्वर-स्त्रयीमयो धर्ममयस्तपोमयः ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
'वेदानुसारिवशगः स्वेच्छया तु हरिर्यतः । अतः स्वतन्त्रमप्याहुः प्राज्ञा वेदमयेति ह। इत्यध्यात्मे ॥ १९ ॥