Jump to content

Bhagavatatatparyanirnaya/C9/S14

From Grantha
Revision as of 19:02, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

चतुर्दशोऽध्यायः

वरेण छन्दयामास प्रीतः सत्यवतीसुतः ।वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे चतुर्दशोऽध्यायः ॥
ततश्चावभृथस्नानविधूताशेषकिल्बिषः ।

सरस्वत्यां ब्रह्मनद्यां रेजे व्यभ्र इवांशुमान् ॥ २३ ॥ 'जामदग्न्यो वरं वव्रेऽनन्तशक्तिरपि स्वयम् । पितुर्मान्यत्वसिध्यर्थं लोके लोकेश्वरः प्रभुः ॥ अपापमपि देवेशं पितरः संन्यवर्तयन् । अजानन्तोऽस्य माहात्म्यं मोहितास्तस्य मायया ॥ मोहयन्मायया लोकं चक्रे चापचितिं वधे ।

पुण्यपापादिनिर्मातुः कुतः पापादिसङ्गतिः॥ इति च ॥ ७,२३ ॥