Jump to content

Bhagavatatatparyanirnaya/C3/S11

From Grantha
Revision as of 19:00, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

एकादशोऽध्यायः

मैत्रेय उवाच–विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।


आत्मनि परमेश्वरे मन आवेश्य ॥ ४ ॥
एतावान् जीवलोकस्य संस्थाभेदः समासतः ।धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठिनः ॥ ९ ॥


अनिमित्तस्य ब्रह्मार्पणबुद्ध्या कृतस्य । 'अः इति ब्रह्मइति श्रुतेः ॥ ९ ॥
विदुर उवाच–यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः ।


'लक्षणं लक्ष्यमात्मा च स्वरूपमिति कथ्यते। इत्यभिधानम् ॥१०॥
मैत्रेय उवाच–गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।


गुणव्यतिकरमाकरोति तद्द्रष्टा । अप्रतिष्ठितोऽन्यत्र ।

'स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिमि्न। इति श्रुतिः ।

तदुपादानम् । गुणव्यतिकरोपादानकर्तारम् । सृष्ट्याद्यर्थत्वेन तस्य पुरुषस्य । ब्रह्मविष्णुमहेश्वर इति त्रीणि रूपाण्यात्मना सृष्टानि ॥ ११ ॥
विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥


ब्रह्म निर्मातृकम् । मायया सामर्थ्येन । तत्र यत्संहर्त्रीश्वराख्यं रूपं तत्कालाख्यम् । कल च्छेदन इति धातोः । 'अथ त्रयी वाव प्रकृतिः सत्वं रजस्तम इति तां नारायणः पर्यपश्य-दनन्यप्रतिष्ठः तं वा एतमाहुः पुरुष इति पूर्णो ह्येष भवति स त्रेधा बभूवैषां गुणानामुपादानाय विष्णुर्वाव सत्वस्य रजसो ब्रह्मेशानो नाम तमसः स आविवेश । ब्रह्मा ब्रह्माणं नाम चतुर्मुखं ईश ईशानं नाम पञ्चमुखं यो वा ईश ईशानमाविवेश तं वा एनं काल इत्याचक्षते काल इत्याचक्षतेइति सौकरायणश्रुतिः ॥ १२ ॥
यथेदानीं तथा चाऽग्रे पश्चादप्येतदीदृशम् ।सर्गो नवविधस्तस्य प्राकृतो वैकृतश्च यः ॥ १३ ॥


सृष्टिश्च प्रलयश्चैव संसारो मुक्तिरेव च ।

देवऋषिप्रभृतयो लोका भूरादयस्तथा ॥ अनाद्यनन्तकालीनाः सर्वदैकप्रकारतः । जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन ॥ ये त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते । देवैर्ब्रह्मादिभिः शप्ता ऋषिभिर्मानुषादिभिः ॥ सेतिहासैस्तथा वेदैः सर्वे यान्त्यधरं तमः । सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः ॥ अन्यसाम्यविदो विष्णोर्विष्णुद्वेष्टार एव च । सर्वे यान्ति तमो घोरं न चैषामुत्थितिः क्वचित्

इति स्कान्दे ॥ १३ ॥
कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः ।आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ।


'तामसस्य पदार्थस्य सत्वं हि लयकारणम् ।

सात्विकस्य तमश्चैव तयोरपि रजः क्वचित् ॥ गुणतोऽयं लयः प्रोक्तो द्रव्यतस्तु विरोधिना । कालतः कालसङ्ख्याजो लयः सर्वस्य वस्तुनः॥ इति ब्रह्मतर्के । 'तमसो रजस्तु द्विगुणं रजसः सत्वमेव च । परिमाणत एवं स्युस्त्रयः प्रकृतिजा गुणाः ॥ तत्र सत्वं केवलं स्याद्रजस्यपि शताधिकम् । सत्वं रजःशतांशं तु तमस्तत्र प्रकीर्तितम् ॥ तमस्यपि तथा सत्वं तमसस्तु दशोत्तरम् । तद्दशांशेन तु रजो मूलजं यद्रजस्तु तत् ॥ विलये दशांशतः सत्व एकांशेन तमस्यपि । मिश्रितं भवति ह्येतां साम्यावस्थां विदुर्बुधाः ॥ यदा तु तद्रजः सर्वं तमसा सह सङ्गतम् । तदा त्वाहुर्महत्तत्त्वं तच्चतुर्भागसम्भवम् ॥ तत्र त्रिभागो रजस एकोंऽशस्तमसस्तथा । तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् ॥ तदेव केवलं सत्वमितरापेक्षया भवेत् । श्रीर्मूलसत्वं विज्ञेया भूर्मूलं रज उच्यते ॥ मूलं तमस्तथा दुर्गा महालक्ष्मीस्त्रिमूलिका । गुणेभ्यो गुणमूलाच्च योऽतीतः स जनार्दनः ॥ यद्रजो मूलरजसि मूले तमसि यद्रजः । तमश्च मूले तमसि महत्तत्त्वं तदात्मकम् ॥ दशांशास्तत्र सत्वं स्युरेकांशो रज एव तु । तद्दशांशं तमो ज्ञेयम् अहङ्कारस्तदात्मकः ॥ स रुद्रस्तामसो ज्ञेयो विरिञ्चापेक्षयैव तु । इतरापेक्षया सत्वं सत्वाद्यास्तद्वदस्य च । तत्तमोंऽशात्सात्विकांशो मन आद्याः प्रकीर्तिताः । रजसोंशस्त्विन्द्रियाणि तमसोंऽशश्च खादयः

इत्यादि तत्त्वविवेके ॥ १४ ॥
भूतसर्गस्तृतीयस्तु तन्मात्रद्रव्यशक्तिमान् ।चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।


भूतानि द्रव्यशक्तीनि भूतेषु द्रवणं यतः ।

तथा तन्मात्रशक्तीनि शब्दाद्यात्मकता यतः ॥ क्रियाशक्तीनि वागाद्यानीन्द्रियाणीतराणि तु । ज्ञानशक्तीनि मनसा देवाश्च ज्ञानशक्तयः ॥ एतेषां मूलभूतत्वादहङ्कारस्त्रिशक्तिमान् । मानुषापेक्षया देवाः सात्विकाः परिकीर्तिताः ॥ तत्रापि सात्विकाः प्रोक्तास्तात्विका यास्तु देवताः । तत्रापि सात्विको रुद्रस्तत्रापि तु चतुर्मुखः ॥ अविकारौ ब्रह्मरुद्रौ देहभेदादिसम्भवे । विकारवन्त इन्द्राद्यास्तस्माद्वैकारिका मताः ॥ त एवेन्द्रियरूपेण यतस्त्वतिविकारिणः । ज्ञानमात्रगुणोद्रिक्तास्तस्मात्तैजसनामकाः ॥ अविकारित्वयोग्यत्वं निवृत्तं हीन्द्रियेषु तु । वैकारिकत्वनामापि ततस्तेषां न विद्यते ॥ यथा विप्रकुले मूर्खो मूर्ख इत्यभिधीयते । विद्यायोग्यत्वतः शूद्रो न मूर्खो मूर्ख एव सन् ॥ तामसानि हि भूतानि किञ्चिद्व्यवहितत्वतः ।

ज्ञानस्य सुष्ठुज्ञत्वेऽपि पूर्णज्ञानो हरिः स्वयम्॥ इति च ॥ १५ ॥
षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ।षडिमे प्राकृताः सर्गा वैकृतानपि मे शृृणु ॥ १७ ॥


अबुद्धिपूर्वमिव तु ब्रह्मणो हरिबुद्धितः ।

अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ तामसानां तु भूतानां सहस्रं सत्वभागिनाम् । शतांशरजसामेकतमसां सर्ववेदिनाम् ॥ केवलस्तमसो योंऽशः साऽविद्या पञ्चपर्विका । जाताऽतिकृष्णा तद्देहात् दैत्यरक्षःपिशाचकाः ॥ यद्रजो भौतिकं तेन मानुषाणां सदा जनिः । तमोगूढेन रजसा त्वितरस्थास्नुचारिणाम् ॥ भौतिकेन तु सत्वेन गूढं ब्रह्मण आण्डजम् । रूपं तत्रापि तु तमः शतांशेन प्रकीर्तितम् ॥ तज्जो रुद्रस्ततस्त्वेवमिन्द्रादीनां पुनर्जनिः । गूहितं भूतरजसा तत्सत्वं मानुषा यदा ॥ देवा एवं गुणास्त्वेते सर्वं व्याप्य व्यवस्थिताः । गुणातीतं च यद्रूपं ब्रह्मादीनां सुखात्मकम् ॥ चिद्रूपं तच्च सत्वस्यैवोत्कर्षो यत्र विद्यते । तच्चोत्कृष्टं तमो यत्र हीनं तत्र स्वभावतः ॥ उपगूहने तु नैवास्ति विशेषो नित्यचिन्मये । प्रकृतेर्गुणरूपाया मूलिकायाश्च न क्वचित् । विशेषः परमे तत्त्वे वासुदेवे कुतः पुनः॥ इति च ॥ अव्यक्ताद्याः पृथिव्यन्ताः सर्वाः प्रकृतयः स्मृताः । तदुपादानकः सर्गः प्राकृतः परिपठ्यते ॥ अण्डं तु विकृतं ज्ञेयं तज्जो वैकृत उच्यते । पञ्चपर्वा त्वविद्या तु भूतेभ्यो हरिणा पुरा ॥ उद्धृत्य ब्रह्मणि क्षिप्ता सा पुनस्तेन निःसृता ।

तत्स्रष्टृत्वज्ञापनाय तस्मात्सा प्राकृता मता॥ इति च ॥ १७ ॥
रजोभाजो भगवतो लीलेयं हरिमेधसः ।सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥


एते गुणा हरेः सम्यक्स्वातन्त्र्यविषयाः सदा ।

स्वतन्त्राः प्रकृतेश्चापि ब्रह्मणोऽन्येषु तु क्रमात् ।

देवेष्वेव तदन्येषु परतन्त्रा हि ते मताः॥ इति च ॥ १८ ॥
वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशोषिणः ॥ १९ ॥


स्थास्नुभिर्नियमान्मुख्या स्थितेर्गतिरवाप्यते ।

प्रायः परोपकर्तृत्वात्ते मुख्यस्त्रोतसः स्मृताः ॥ नाधो नोर्ध्वं तिरश्चां तु पुनस्तत्रैव यज्जनिः ॥ यज्ञोपयोगं च सतामुपकारं विनाऽपि च ॥ तिर्यक्स्रोतस इत्येव प्रोच्यन्ते ज्ञानिभिस्ततः । प्रायोऽधोगमनं यस्मात्प्रयत्नेन विना भवेत् ॥ अर्वाक् स्रोतस इत्येव मानुषाः परिकीर्तिताः । नियमादूर्ध्वगन्तारो देवा मोक्षैकभागिनः । ऊर्ध्वस्रोतस इत्येव तस्मात्ते परिकीर्तिताः॥ इति ब्राह्मे । तिरश्चां स्थावराणां च बुद्धिपूर्वप्रवर्तिनाम् । असुराणां रक्षसां च पिशाचानां तथैव च । अर्वाक्स्रोतस्त्वमुद्दिष्टं नियमादसुरादिनाम्॥ इति च । मुख्यस्रोतस इत्यस्यार्थ उत्स्रोतस इति । 'ऊर्ध्व इत्येव यैस्तूच्चतम एवाभिधीयते । ऊर्ध्वस्रोतस एतस्माद्देवा एव न तत्परे । उच्छब्द उच्चमात्रेऽपि तस्मात्स्थास्नुषु भण्यते॥ इति च । 'तिरश्चीनाः स्थावराश्च अन्तःस्पर्शा इतीरिताः । यत्प्रत्यक्षानुमानाभ्यां हृद्गज्ञानं न शास्त्रतः॥ इति पाद्मे ।

यदप्रयत्नाद्धृदयङ्गमं तदेव जानन्ति नो शास्त्रयुक्तिभ्यामित्यर्थः ॥ १९ ॥
तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ।अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥


गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥


खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।एते चैकशफाः क्षत्तः शृृणु पञ्चनखान् पशून् ॥ २२ ॥


श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्यकौ ।सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥


कङ्कगृध्रबश्येना भासवल्लूरबर्हिणः ।हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४ ॥


अष्टाविंशद्विशेषेण यज्ञेषूपकृतं यतः ।

तिरश्चां तावदेतस्मात् गण्यते शास्त्रवेदिभिः ॥ गौरजो महिषः कृष्णः सूकरो गवयो रुरुः । अव्युष्ट्रौ च खराश्वौ च तथैवाश्वतरोऽपरः ॥ गौरश्च शरभश्चैव चमरी श्वसृगालकौ । वृको व्याघ्रश्च मार्जारो हरिश्च शशशल्यकौ ॥ कपिर्गजश्च गोधाद्या जलजाः पक्षिणस्तथा॥ इति ब्रह्माण्डे । कूर्मो जलजत्वेनाष्टाविंशत्स्वन्तर्भूतोऽपि पञ्चनखत्वप्रदर्शनार्थं पृथगुक्तः । 'तत्तदाकारसंयुक्तान्सृज्यान्स्रष्टारमेव च । यः सदा संस्मरेद्योगी न स भूतोऽभिजायते इति स्कान्दवचनात्प्रसिद्धानामपि द्विशफादीनां स्मरणविधानार्थमुक्तिः । 'उच्यते सुप्रसिद्धं च स्मरणार्थं च कुत्रचित् । अप्रसिद्धज्ञापनार्थं द्विधा शास्त्रवचः स्मृतम्॥ इति षाड्गुण्ये । 'वल्लूरो नृत्तपक्षी च स ललूकश्च कथ्यते। इत्यभिधाने । 'अष्टाविंशत्प्रधानास्तु तिरश्चां यास्तु जातयः । यो यस्य सदृशस्त्वन्यः स तत्रान्तर्गतो भवेत् ॥ जलजान्तर्गताः सर्पाः कीटाद्या याश्च जातयः । तेषां जलप्रधानत्वाच्छरीरस्य तु सर्वशः

इति सत्यसंहितायाम् ॥ २०-२४ ॥
अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ।रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥


'रजोनिष्ठास्तमोनिष्ठा द्वेधाऽर्वाक्स्रोतसः स्मृताः ।

असुराद्यास्तमोनिष्ठा मानुषास्तु रजोऽधिकाः॥ इति व्योमसंहितायाम् । दुःखे च सुखमानिनोऽसुराः । 'सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसि। इति वचनात् ॥

'सुखे सुखैकभावास्तु देवा नैवं तु दानवाः। इति षाड्गुण्ये ॥२५॥
वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ।वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥


'कुमारन्तीति कौमारो देवानामण्डजोद्भवः ।

वैकारिकाणां जननात्प्राकृतो वैकृतश्च सः । वैकारिकेष्वेवान्येषामीषद्भोगित्वहेतुतः । उभयात्मकत्वं तेनैव प्रोच्यन्तेऽष्टगणा अपि॥ इति ।

देवसर्गश्चेति चकारार्थ उभयात्मक इति वैकारिकस्तु देवसर्गः प्राकृतत्वे-नोक्तः ॥ २६ ॥
देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥


भूतप््रोतपिशाचाश्च विद्याध्राः किन्नरादयः ।दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥


'प्रोक्ता अष्टविधा देवा विबुधाः सर्व एव तु ।

पितॄणां शतमेवात्र असुरास्त्रिंशदेव च ॥ गन्धर्वाप्सरसां चैव द्विशतं परिकीर्तितम् । सप्ततिर्यक्षरक्षस्सु त्रिंशच्चारणजातिषु ॥ शतं सिद्धास्तथाऽन्यासु सप्ततिः सर्वजातिषु । ऊर्ध्वस्रोतस एते वै अन्येऽर्वाक्स्रोतसः स्मृताः ॥ वैकारिकेषु देवेषु एते वै मुग्धभोगिनः । अभोगिनस्तदन्ये तु देवा एते ततः स्मृताः ॥ सर्वज्ञास्ते सहाराध्या भक्तास्तेष्वन्तरेव च । नृत्तगानादिकर्तारो वाहनादिकृतस्तथा ॥ सिद्धसिद्धेतिवक्तारश्चाराश्चैषां क्वचित्क्वचित् । सेवाकरा इति ह्येतैर्भेदैरष्टविधा मताः ॥ अन्ये च ये तु सर्वज्ञा विबुधास्ते प्रकीर्तिताः । तथाऽन्ये कर्मभिस्तैस्तैरष्टभेदान्तरं गताः॥ इति तत्त्वविवेके । 'यदि देवादयो दोषाज्जायेरन्मानुषादिषु ।

तथाऽपि देवा विज्ञेया असुराद्यास्तथा ध्रुवम्। इति च ॥२७,२८॥
अतः परं प्रवक्ष्यामि वंशान् मन्वतराणि च ।एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकादशोऽध्यायः ॥
'गुणाप्लुतो हरिर्नित्यं गुणानां मध्यगो यतः ।

अनहंवेदनात्तस्य गुणासंस्पर्श एव च॥ इति च । 'सृष्ट्वा देवादिदेहान्स आत्मानं बहुधाऽकरोत् । तन्नियन्तृतयाऽऽत्मानं प्रकृतिं देहभेदतः॥ इति नारदीये । 'कर्ता च करणं चैव कर्म चैव स्वयं हरिः ।

आत्मनो बहुधाभावे प्रकृतेस्तु स्वतन्त्रता॥ इत्याग्नेये ॥ २९ ॥