Bhagavatatatparyanirnaya/C3/S11
एकादशोऽध्यायः
'स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिमि्न। इति श्रुतिः ।
तदुपादानम् । गुणव्यतिकरोपादानकर्तारम् । सृष्ट्याद्यर्थत्वेन तस्य पुरुषस्य । ब्रह्मविष्णुमहेश्वर इति त्रीणि रूपाण्यात्मना सृष्टानि ॥ ११ ॥
देवऋषिप्रभृतयो लोका भूरादयस्तथा ॥ अनाद्यनन्तकालीनाः सर्वदैकप्रकारतः । जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन ॥ ये त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते । देवैर्ब्रह्मादिभिः शप्ता ऋषिभिर्मानुषादिभिः ॥ सेतिहासैस्तथा वेदैः सर्वे यान्त्यधरं तमः । सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः ॥ अन्यसाम्यविदो विष्णोर्विष्णुद्वेष्टार एव च । सर्वे यान्ति तमो घोरं न चैषामुत्थितिः क्वचित्॥
इति स्कान्दे ॥ १३ ॥
सात्विकस्य तमश्चैव तयोरपि रजः क्वचित् ॥ गुणतोऽयं लयः प्रोक्तो द्रव्यतस्तु विरोधिना । कालतः कालसङ्ख्याजो लयः सर्वस्य वस्तुनः॥ इति ब्रह्मतर्के । 'तमसो रजस्तु द्विगुणं रजसः सत्वमेव च । परिमाणत एवं स्युस्त्रयः प्रकृतिजा गुणाः ॥ तत्र सत्वं केवलं स्याद्रजस्यपि शताधिकम् । सत्वं रजःशतांशं तु तमस्तत्र प्रकीर्तितम् ॥ तमस्यपि तथा सत्वं तमसस्तु दशोत्तरम् । तद्दशांशेन तु रजो मूलजं यद्रजस्तु तत् ॥ विलये दशांशतः सत्व एकांशेन तमस्यपि । मिश्रितं भवति ह्येतां साम्यावस्थां विदुर्बुधाः ॥ यदा तु तद्रजः सर्वं तमसा सह सङ्गतम् । तदा त्वाहुर्महत्तत्त्वं तच्चतुर्भागसम्भवम् ॥ तत्र त्रिभागो रजस एकोंऽशस्तमसस्तथा । तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् ॥ तदेव केवलं सत्वमितरापेक्षया भवेत् । श्रीर्मूलसत्वं विज्ञेया भूर्मूलं रज उच्यते ॥ मूलं तमस्तथा दुर्गा महालक्ष्मीस्त्रिमूलिका । गुणेभ्यो गुणमूलाच्च योऽतीतः स जनार्दनः ॥ यद्रजो मूलरजसि मूले तमसि यद्रजः । तमश्च मूले तमसि महत्तत्त्वं तदात्मकम् ॥ दशांशास्तत्र सत्वं स्युरेकांशो रज एव तु । तद्दशांशं तमो ज्ञेयम् अहङ्कारस्तदात्मकः ॥ स रुद्रस्तामसो ज्ञेयो विरिञ्चापेक्षयैव तु । इतरापेक्षया सत्वं सत्वाद्यास्तद्वदस्य च । तत्तमोंऽशात्सात्विकांशो मन आद्याः प्रकीर्तिताः । रजसोंशस्त्विन्द्रियाणि तमसोंऽशश्च खादयः॥
इत्यादि तत्त्वविवेके ॥ १४ ॥
तथा तन्मात्रशक्तीनि शब्दाद्यात्मकता यतः ॥ क्रियाशक्तीनि वागाद्यानीन्द्रियाणीतराणि तु । ज्ञानशक्तीनि मनसा देवाश्च ज्ञानशक्तयः ॥ एतेषां मूलभूतत्वादहङ्कारस्त्रिशक्तिमान् । मानुषापेक्षया देवाः सात्विकाः परिकीर्तिताः ॥ तत्रापि सात्विकाः प्रोक्तास्तात्विका यास्तु देवताः । तत्रापि सात्विको रुद्रस्तत्रापि तु चतुर्मुखः ॥ अविकारौ ब्रह्मरुद्रौ देहभेदादिसम्भवे । विकारवन्त इन्द्राद्यास्तस्माद्वैकारिका मताः ॥ त एवेन्द्रियरूपेण यतस्त्वतिविकारिणः । ज्ञानमात्रगुणोद्रिक्तास्तस्मात्तैजसनामकाः ॥ अविकारित्वयोग्यत्वं निवृत्तं हीन्द्रियेषु तु । वैकारिकत्वनामापि ततस्तेषां न विद्यते ॥ यथा विप्रकुले मूर्खो मूर्ख इत्यभिधीयते । विद्यायोग्यत्वतः शूद्रो न मूर्खो मूर्ख एव सन् ॥ तामसानि हि भूतानि किञ्चिद्व्यवहितत्वतः ।
ज्ञानस्य सुष्ठुज्ञत्वेऽपि पूर्णज्ञानो हरिः स्वयम्॥ इति च ॥ १५ ॥
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ तामसानां तु भूतानां सहस्रं सत्वभागिनाम् । शतांशरजसामेकतमसां सर्ववेदिनाम् ॥ केवलस्तमसो योंऽशः साऽविद्या पञ्चपर्विका । जाताऽतिकृष्णा तद्देहात् दैत्यरक्षःपिशाचकाः ॥ यद्रजो भौतिकं तेन मानुषाणां सदा जनिः । तमोगूढेन रजसा त्वितरस्थास्नुचारिणाम् ॥ भौतिकेन तु सत्वेन गूढं ब्रह्मण आण्डजम् । रूपं तत्रापि तु तमः शतांशेन प्रकीर्तितम् ॥ तज्जो रुद्रस्ततस्त्वेवमिन्द्रादीनां पुनर्जनिः । गूहितं भूतरजसा तत्सत्वं मानुषा यदा ॥ देवा एवं गुणास्त्वेते सर्वं व्याप्य व्यवस्थिताः । गुणातीतं च यद्रूपं ब्रह्मादीनां सुखात्मकम् ॥ चिद्रूपं तच्च सत्वस्यैवोत्कर्षो यत्र विद्यते । तच्चोत्कृष्टं तमो यत्र हीनं तत्र स्वभावतः ॥ उपगूहने तु नैवास्ति विशेषो नित्यचिन्मये । प्रकृतेर्गुणरूपाया मूलिकायाश्च न क्वचित् । विशेषः परमे तत्त्वे वासुदेवे कुतः पुनः॥ इति च ॥ अव्यक्ताद्याः पृथिव्यन्ताः सर्वाः प्रकृतयः स्मृताः । तदुपादानकः सर्गः प्राकृतः परिपठ्यते ॥ अण्डं तु विकृतं ज्ञेयं तज्जो वैकृत उच्यते । पञ्चपर्वा त्वविद्या तु भूतेभ्यो हरिणा पुरा ॥ उद्धृत्य ब्रह्मणि क्षिप्ता सा पुनस्तेन निःसृता ।
तत्स्रष्टृत्वज्ञापनाय तस्मात्सा प्राकृता मता॥ इति च ॥ १७ ॥
स्वतन्त्राः प्रकृतेश्चापि ब्रह्मणोऽन्येषु तु क्रमात् ।
देवेष्वेव तदन्येषु परतन्त्रा हि ते मताः॥ इति च ॥ १८ ॥
प्रायः परोपकर्तृत्वात्ते मुख्यस्त्रोतसः स्मृताः ॥ नाधो नोर्ध्वं तिरश्चां तु पुनस्तत्रैव यज्जनिः ॥ यज्ञोपयोगं च सतामुपकारं विनाऽपि च ॥ तिर्यक्स्रोतस इत्येव प्रोच्यन्ते ज्ञानिभिस्ततः । प्रायोऽधोगमनं यस्मात्प्रयत्नेन विना भवेत् ॥ अर्वाक् स्रोतस इत्येव मानुषाः परिकीर्तिताः । नियमादूर्ध्वगन्तारो देवा मोक्षैकभागिनः । ऊर्ध्वस्रोतस इत्येव तस्मात्ते परिकीर्तिताः॥ इति ब्राह्मे । तिरश्चां स्थावराणां च बुद्धिपूर्वप्रवर्तिनाम् । असुराणां रक्षसां च पिशाचानां तथैव च । अर्वाक्स्रोतस्त्वमुद्दिष्टं नियमादसुरादिनाम्॥ इति च । मुख्यस्रोतस इत्यस्यार्थ उत्स्रोतस इति । 'ऊर्ध्व इत्येव यैस्तूच्चतम एवाभिधीयते । ऊर्ध्वस्रोतस एतस्माद्देवा एव न तत्परे । उच्छब्द उच्चमात्रेऽपि तस्मात्स्थास्नुषु भण्यते॥ इति च । 'तिरश्चीनाः स्थावराश्च अन्तःस्पर्शा इतीरिताः । यत्प्रत्यक्षानुमानाभ्यां हृद्गज्ञानं न शास्त्रतः॥ इति पाद्मे ।
यदप्रयत्नाद्धृदयङ्गमं तदेव जानन्ति नो शास्त्रयुक्तिभ्यामित्यर्थः ॥ १९ ॥
तिरश्चां तावदेतस्मात् गण्यते शास्त्रवेदिभिः ॥ गौरजो महिषः कृष्णः सूकरो गवयो रुरुः । अव्युष्ट्रौ च खराश्वौ च तथैवाश्वतरोऽपरः ॥ गौरश्च शरभश्चैव चमरी श्वसृगालकौ । वृको व्याघ्रश्च मार्जारो हरिश्च शशशल्यकौ ॥ कपिर्गजश्च गोधाद्या जलजाः पक्षिणस्तथा॥ इति ब्रह्माण्डे । कूर्मो जलजत्वेनाष्टाविंशत्स्वन्तर्भूतोऽपि पञ्चनखत्वप्रदर्शनार्थं पृथगुक्तः । 'तत्तदाकारसंयुक्तान्सृज्यान्स्रष्टारमेव च । यः सदा संस्मरेद्योगी न स भूतोऽभिजायते॥ इति स्कान्दवचनात्प्रसिद्धानामपि द्विशफादीनां स्मरणविधानार्थमुक्तिः । 'उच्यते सुप्रसिद्धं च स्मरणार्थं च कुत्रचित् । अप्रसिद्धज्ञापनार्थं द्विधा शास्त्रवचः स्मृतम्॥ इति षाड्गुण्ये । 'वल्लूरो नृत्तपक्षी च स ललूकश्च कथ्यते। इत्यभिधाने । 'अष्टाविंशत्प्रधानास्तु तिरश्चां यास्तु जातयः । यो यस्य सदृशस्त्वन्यः स तत्रान्तर्गतो भवेत् ॥ जलजान्तर्गताः सर्पाः कीटाद्या याश्च जातयः । तेषां जलप्रधानत्वाच्छरीरस्य तु सर्वशः॥
इति सत्यसंहितायाम् ॥ २०-२४ ॥
असुराद्यास्तमोनिष्ठा मानुषास्तु रजोऽधिकाः॥ इति व्योमसंहितायाम् । दुःखे च सुखमानिनोऽसुराः । 'सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसि। इति वचनात् ॥
'सुखे सुखैकभावास्तु देवा नैवं तु दानवाः। इति षाड्गुण्ये ॥२५॥
वैकारिकाणां जननात्प्राकृतो वैकृतश्च सः । वैकारिकेष्वेवान्येषामीषद्भोगित्वहेतुतः । उभयात्मकत्वं तेनैव प्रोच्यन्तेऽष्टगणा अपि॥ इति ।
देवसर्गश्चेति चकारार्थ उभयात्मक इति वैकारिकस्तु देवसर्गः प्राकृतत्वे-नोक्तः ॥ २६ ॥
पितॄणां शतमेवात्र असुरास्त्रिंशदेव च ॥ गन्धर्वाप्सरसां चैव द्विशतं परिकीर्तितम् । सप्ततिर्यक्षरक्षस्सु त्रिंशच्चारणजातिषु ॥ शतं सिद्धास्तथाऽन्यासु सप्ततिः सर्वजातिषु । ऊर्ध्वस्रोतस एते वै अन्येऽर्वाक्स्रोतसः स्मृताः ॥ वैकारिकेषु देवेषु एते वै मुग्धभोगिनः । अभोगिनस्तदन्ये तु देवा एते ततः स्मृताः ॥ सर्वज्ञास्ते सहाराध्या भक्तास्तेष्वन्तरेव च । नृत्तगानादिकर्तारो वाहनादिकृतस्तथा ॥ सिद्धसिद्धेतिवक्तारश्चाराश्चैषां क्वचित्क्वचित् । सेवाकरा इति ह्येतैर्भेदैरष्टविधा मताः ॥ अन्ये च ये तु सर्वज्ञा विबुधास्ते प्रकीर्तिताः । तथाऽन्ये कर्मभिस्तैस्तैरष्टभेदान्तरं गताः॥ इति तत्त्वविवेके । 'यदि देवादयो दोषाज्जायेरन्मानुषादिषु ।
तथाऽपि देवा विज्ञेया असुराद्यास्तथा ध्रुवम्। इति च ॥२७,२८॥
अनहंवेदनात्तस्य गुणासंस्पर्श एव च॥ इति च । 'सृष्ट्वा देवादिदेहान्स आत्मानं बहुधाऽकरोत् । तन्नियन्तृतयाऽऽत्मानं प्रकृतिं देहभेदतः॥ इति नारदीये । 'कर्ता च करणं चैव कर्म चैव स्वयं हरिः ।
आत्मनो बहुधाभावे प्रकृतेस्तु स्वतन्त्रता॥ इत्याग्नेये ॥ २९ ॥