Bhagavatatatparyanirnaya/C3/S2
Appearance
द्वितीयोऽध्यायः
यद्धर्मसूनोर्बत राजसूयेनिरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।
त्रिलोकस्याज्ञानं बत ।
'आनन्दरूपं दृष्ट्वाऽपि लोको भौतिकमेव तु ।
मन्यते विष्णुरूपं च अहो भ्रान्तिर्बहुस्थिता॥ इति स्कान्दे ॥१३॥मन्येऽसुरान् भागवतांस्त्र्यधीशेसंरम्भमार्गाभिनिविष्टचित्तान् ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वीतीयोऽध्यायः ॥
'असुरा अपि ये विष्णुं शङ्खचक्रगदाधरम् ।
भक्तिपूर्वमवेक्षन्ते ज्ञेया भागवता इति ॥ विद्विषन्ति तु ये विष्णुमृषिपुत्रा अपि स्फुटम् । असुरास्तेऽपि विज्ञेया गच्छन्ति च सदा तमः ॥ जीवद्वयसमायोगाद्धिरण्यकमुखाः परे । भक्तिद्वेषयुताश्च स्युर्गतिस्तेषां यथा निजा ॥ कंसपूतनिकाद्याश्च बान्धवादियुता यतः । जीवद्वयसमायोगाद्गतिद्वयजिगीषवः ॥ सर्वथा भक्तितो मुक्तिर्द्वेषात्तम उदीरितम् ।
नियमस्त्वनयोर्नित्यं मोहायान्यवचो भवेत्॥ इति ब्राह्मे ॥ २४ ॥