Jump to content

Bhagavatatatparyanirnaya/C3/S31

From Grantha
Revision as of 09:00, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
एवं स्वभरणाकल्पं तत्कलत्रादयस्तदा ।नाद्रियन्ते यथापूर्वं कीनाश इव गोजरम् ॥ १३ ॥


कीनाशः कर्षको मतः ॥ १३ ॥
वायुनोत्क्रमतोत्तारकफसंरुद्धनासिकः ।कासश्वासकृतायासः कण्ठो घुरुघुरायते ॥ १६ ॥


उत्तारमुद्गतिं विन्द्यात् ॥ १६ ॥
योजनानां सहस्राणि नवतिर्नव चाध्वनः ।त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाम् ॥ २४ ॥


'त्रिभिर्मुहूर्तैर्द्वाभ्यां वा दिनैर्दशभिरेव वा । पक्षान्मासेन वा याति यमलोकमितो गतः॥ इति नारदीये ॥२४॥
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।या यातना वै नारक्यस्ता इहाप्युपलक्षिताः ॥ २९ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकत्रिंशोऽध्यायः ॥
अत्रैवेत्येवशब्दः सामीप्यार्थे ।

'सामीप्ये च प्रधाने च एवशब्दोऽवधारणे। इति शब्दनिर्णये ।

अत्राप्यस्तीत्यर्थः ॥ २९ ॥