Jump to content

Bruhadaranyaka/C3/S3

From Grantha
Revision as of 16:49, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्यक्येति होवाच । मद्रेषु चरकाः पर्यव्रजाम ते पतंजलस्य काप्यस्य गृहानैम तस्यासीद् दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति । सोऽब्रवीत् सुधन्वाऽऽङ्गिरस इति । तं यदा लोकानामन्तान् अपृच्छामाथैनमब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन् स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति ॥ १ ॥


पारीक्षिताः प्रद्युम्नाः ।
स होवाचोवाच वै सोऽगच्छन् वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति क्व न्वश्वमेधयाजिनो गच्छन्तीति द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकस्तं समन्तं पृथिवी द्विस्तावत् पर्येति तां समन्तं पृथिवीं द्विस्तावत् समुद्रः पर्येति तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाकाशस्तानिंद्रः सुपर्णो भूत्वा वायवे प्रायच्छत् तान् वायुरात्मनि धित्वा तत्रागमयद् यत्राश्वमेधयाजिनोऽभवन्नित्येवमिव वै स वायुमेव प्रशशंस तस्मात् वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २ ॥


॥ इति भुज्युब्राह्मणम् ॥ ५३ ॥
अश्वमेधयाजिन इंद्राः ।
प्रद्युम्नः कामनामासौ पारीक्षित इतीरितः ।

सर्वेक्षणात् परो विष्णुः परीक्षिदिति कीर्तितः ॥ तत्पुत्रत्वात् कामदेवः पारीक्षित इति स्मृतः । शताश्वमेधयाजित्वादिंद्रा एवाश्वमेधिनः ॥ अतीतानागतानां च कामानां वज्रिणामपि । एकमेव हि मुक्तानां स्थानं वेदोदितं सदा ॥ इंद्रनामा तु गरुडः सामर्थ्यादेव कथ्यते । तस्य रूपद्वयं नित्यं सौपर्णं पौरुषं तथा ॥ तत्र पौरुषरूपी सन् भूत्वा सौपर्णरूपवान् । कामदेवानुपादाय मुक्तौ वायोः प्रयच्छति ॥ वायुस्तान् स्वशरीरस्थान् कृत्वेंद्रा यत्र मुक्तिगाः । प्रद्युम्ननामके विष्णावेवं वायुर्हि मोक्षदः ॥ तस्मात् सर्वोत्तमो वायुर्विविधं तु यदष्टकम् । देवानृषीन् पितॄन् यक्षान् गन्धर्वान् मानुषोरगान् ॥ असुरांश्च वशे नित्यं नयत्यमितपौरुषः । सम्पूर्णाश्च सुपर्णेशशेषेंद्रांस्तत्स्त्रियोऽपि च ॥ अष्टौ नयत्युन्नयति वशीकृत्य स्वयं प्रभुः । अतो व्यष्टिः समष्टिश्च वायुरेवाभिधीयते ॥ एवं व्यष्टिं समष्टिं च यो वायुं वेद तत्त्वतः । तत्परं च हरिं नित्यं मुच्यते संसृतेः पुमान् ॥

इति परमसंहितायाम् ।
चरकस्तीर्थसञ्चारी वित्तार्थी करकः स्मृतः इत्यभिधानम् ।
अहर्मुहूर्तं विज्ञेयमहर्मासोऽपि भण्यते । अहर्दिनं प्रकाशश्च क्वचिज्ज्ञानं बलं तथा ॥ इति च ।
मुहूर्तमष्टभागोनघटिकाद्वयमिष्यते । क्वचिद्विघटिकापि स्यात् क्वचित् स्यात्तावदुत्तरः ॥ इति कालनिर्णये ।
द्वात्रिंशत्तु मुहूर्तानां दिनमेकं विदुर्बुधाः । त्रिंशन्मुहूर्तमथवा मुहूर्तोन्मानभेदतः ॥ इति च ।
सप्तकोटिं च लक्षाणां चतुर्दश च नित्यशः ।

अष्टाविंशत्सहस्रं च सप्तांशशतपञ्चकम् ॥ सौरो रथस्त्वहोरात्रात् परियाति दिवि स्थितः । तत्त्रिभागाधिकं चक्रं मानसोत्तरगं चरेत् ॥ नृणां कार्तयुगानां तु योजना मानतो भवेत् । यावत्सूर्यरथो याति दिवारात्रेण पार्श्वयोः ॥ सूर्यस्य तावदेव स्यात् प्रकाशः सर्वतस्तथा । तमोऽन्धं द्विगुणं तस्माद् काठिन्यात् पृथ्विनामकम् ॥ ततो मंडोदकं चापि द्विगुणं परिकीर्तितम् ।॥ पञ्चाशत्कोटिविस्तारमेवमंडान्तमुच्यते ॥ ततस्त्वंडं च सौवर्णं तद्भिन्नं हरिणा पुरा । सुषिरं सर्वतो दिक्षु क्षुरधारासमं ततः ॥

सुपर्णो वायवे तेन मुक्तान् कामान् प्रयच्छति ॥ इति तत्त्वसंहितायाम् ॥