Jump to content

Bhagavatatatparyanirnaya/C7/S12

From Grantha
Revision as of 16:47, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।सेवेज्याऽवनतिः सख्यं दास्यमात्मसमर्पणम् ॥ ११ ॥


'अनाद्यनन्तकालेषु मुक्तौ संसार एव च ।

मयिस्थश्चोदयत्येको विष्णुर्मां सर्वदैव तु ॥ इति सम्प्रीतिकं ज्ञानं विद्यादात्मसमर्पणम् ।

बहिस्थेश्वरदासत्वं दास्यमित्युच्यते बुधैः॥ इति तन्त्रमालायाम् ॥ ११ ॥
या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा ।हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ ३० ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे द्वादशोऽध्यायः ॥
'हरिरस्मिंस्थित इति स्त्रीणां भर्तरि भावना ॥

शिष्याणां च गुरौ नित्यं शूद्राणां ब्राह्मणादिषु ।

भृत्यानां स्वामिनि तथा हरिभाव उदीरितः॥ इति च ॥