Jump to content

Bhagavatatatparyanirnaya/C5/S3

From Grantha
Revision as of 16:46, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपिभगवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमि-वाधनः फलीकरणं को वा ईहते ॥ १४ ॥


॥ इति श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे तृतीयोऽध्यायः ॥
श्रीभगवानुवाच–

अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभ- मभियाचितो यदमुष्य आत्मजो मया सदृशो भूयादिति ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम् ॥ १८ ॥ 'नास्ति विष्णोः सम इति जानन्तोऽप्यृषयः सदा ।

तज्ज्ञापनाय लोकानामन्येषां प्रार्थयन् समम्॥ इति ब्रह्माण्डे ॥ १४, १८ ॥