न जातो न म्रियेताऽत्मा स हि देहाद्युपाधिभिः ।निमित्तैरात्ततद्धर्मा यथा स्वप्ने तदीक्षिता ॥ ४ ॥
स परमो न जायते न म्रियत इति हि प्रसिद्धम् । देहाद्युपाधि-भिरात्तधर्मो जीवोऽपि स्वप्नवद्भ्रान्त्या जायते म्रियते च । भ्रान्तित्वाद्देहात्मत्वस्य । किमु सर्वज्ञत्वस्वतन्त्रत्वादिवैलक्षण्ययुक्त ईश्वरः ।
'परस्य जन्ममृत्याद्याः स्युः स्वतन्त्रस्य किं पुनः ।
जीवस्यापि यतो भ्रान्त्या जन्ममृत्यादिसङ्गतिः
॥ इति महाकौर्मे ॥ ४ ॥
स एव प्रकृतिं सूक्ष्मां देवीं गुणमयीं विभुः ।यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ५ ॥
उपगतां समीपस्थाम् ॥ ५ ॥
गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ६ ॥
मुमुहे मोहयामास । 'तदेतन्मे विजानीहि
। 'कृत्वा विवाहम्इत्यादिवत् ।
'यत्र कारयिताऽतीव स्वतन्त्रस्तत्र कर्तृता ।
प्रच्यते तु यथा ब्रह्म त्वज्ञं संसारभागिति॥ इति च ।
'लये वाप्यथवा सृष्टौ त्वन्तरालेऽपि न क्वचित् ।
प्रकृत्या रहितं ब्रह्म कदाचिदपि तिष्ठति
॥ इति कापिलेये ॥ ६ ॥
एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ७ ॥
एवं पराभिध्यानेन परमात्मेच्छया । प्रकृतेः कर्तृत्वं जीव आत्मनि मन्यते ॥ ७ ॥
तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् ।भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ८ ॥
'विष्णोः सुराणां गुरूणां नित्या जीवस्य तन्त्रता ।
यत्तु तस्यान्यतन्त्रत्वं तज्ज्ञानाद्विनिवर्तते॥ इति च ।
अकर्तुरीशस्य सकाशात् ।
'अक्लिष्टत्वादकर्तासावकार्यत्वादथापि वा। इति च ।
'एष कर्ता न क्रियते कारणं च जगत्प्रभुः
। इति भारते ॥ ८ ॥
कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः ।भोक्तृत्वे सुखदुःखानां पुरुषः प्रकृतेः परः ॥ ९ ॥
'ब्रह्मादिभिः सर्गकरी श्रीर्विष्णुबलसंश्रयात् ।
सुखदुःखप्रदो विष्णुः स्वयमेव सनातनः ॥
कर्तृत्वं सुखदुःखानामन्येषां च तदाज्ञया ।
भोक्तृत्वं सुखदुःखानां करोत्येको हरिः स्वयम् ।
भोक्तृत्वमात्रहेतुत्वं जीवे नान्यत्र कुत्रचित्॥ इति भविष्यत्पर्वणि ॥
'प्रकृतिं पुरुषं चैव विध्द्यनादी
इति च ॥ ९ ॥
भगवानुवाच–यत् तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
'व्यक्ताव्यक्तात्मकं यत्तद्विद्यात्सदसदात्मकम् ।
असर्गा केवलाव्यक्ता सिसृक्षुरुभयात्मिका ॥
व्यक्तैव कार्यरूपा तु प्रकृतिस्त्रिविधा मता ।
कार्यतः सा प्रधानत्वात्प्रधानमिति कीर्त्यते ।
अविशेषा ह्यकार्यत्वात्सा च श्रीर्विष्णुसंश्रया॥ इति हरिवंशेषु ॥
'विशेषः कार्यमुद्दिष्टं विशेषाद्दृश्यते यतः
इति पाद्मे ॥ ११ ॥
मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मनः ।चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १५ ॥
'बुद्धिरध्यवसानाय संशयं कुरुते मनः ।
अभिमानो ह्यहङ्कारश्चित्तं स्मरणकारणम्॥ इति स्कान्दे ॥ १५ ॥
एतावानेव संख्यातो ब्रह्मणः सगुणस्य हि ।सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १६ ॥
'हरिस्तु निर्गुणं ब्रह्म श्रीर्ब्रह्म सगुणं स्मृता ।
तदङ्गजानि तत्त्वनि तमात्तद्रूपमुच्यते॥ इति हरिवंशेषु ॥ १६ ॥
प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् ।अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १७ ॥
'पुरुषो हृदिस्थः परमः कालः सर्वगतो हरिः ।
अथवा रुद्रदेहस्थो हरिः काल इतीरितः॥ इति ब्राह्मे ॥
पौरुषं प्रभावम् । पुरुषस्य प्रकर्षेण भावं व्याप्तं रूपम् । एके सम्यग्ज्ञानिनः । अप्राकृताः ॥ १७ ॥
दैवात् क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् ।आधत्त वीर्यं साऽसूत महत्तत्त्वं हिरण्मयम् ॥ २० ॥
'प्रकृतेः क्षोभकं रूपं दैवं नारायणात्मकम् ।
प्रकृतौ महतः स्रष्टा परमः पुरुषो मतः ॥
तदेव वासुदेवाख्यं महत्तत्त्वनियामकम् ।
सङ्कर्षणाख्यस्तु हरिः सूक्ष्माहङ्कारयामकः ॥
स्थूलाहङ्कारनियमी विष्णुः प्रद्युमन्नामकः ।
अनिरुद्धो मनस्तत्त्वनियन्ता भगवान् हरिः ॥
महत्तत्त्वादिजीवास्तु ब्रह्मशेषाङ्गजास्तथा ।
सूक्ष्मस्थूलविभेदेन कामजश्चानिरुद्धकः
॥ इति कापिलेये ॥ २० ॥
विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः ।स्वतेजसाऽपिबत् तीव्रमात्मप्रस्वापनं तमः ॥ २१ ॥
'ओ रमयते यस्मात्केशवो जगदङ्कुरः ।
महान्तं योऽसृजज्जीवमोहकं च तमोऽग्रसत्॥ इति च ॥ २१ ॥
यत् तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम् ।यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २२ ॥
यद्वासुदेवाख्यं भगवद्रूपं ततो महदात्मकं चित्तं जायते ।
'सत्वशब्देन चोच्यन्ते पूर्णानन्दादयो गुणाः॥ इति च ।
'महत्तत्त्वगतो योऽसौ वासुदेवाभिधो हरिः ।
स चित्तजनकः प्रोक्तः प्राणिनां च पृथक्पृथक्
॥ इति च ॥ २२ ॥
स्वच्छत्वमविकारित्वं शान्तत्त्वमिति चेतसः ।वृत्तिभिर्लक्षणं प्रोक्तं यथाऽपां प्रकृतिः परा ॥ २३ ॥
चित्तस्य स्वच्छत्वादयः पृथग्गुणा उच्यन्ते स्वच्छत्वमित्यादि ।
'स्तिमितोदकचित्तादेरविकारोऽल्पवत्क्रिया। इति तत्त्वविवेके ।
'वृत्तिः स्वभावो वृत्तं च स्थितिरित्यभिधीयते। इति शब्दनिर्णये ।
वृत्तिभिर्लक्षणं प्रोक्तम्' इति स्वाभाविकं लक्षणमित्यर्थः ॥ २३ ॥
महत्तत्त्वाद् विकुर्वाणाद् भगवद्वीर्यसम्भवात् ।क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥ २४ ॥
'ज्ञानप्रधानस्तु महानहङ्कारः क्रियाधिकः ।
इतरापेक्षया सोऽपि ज्ञानाधिक इतीरितः॥ इति च ॥ २४ ॥
वैकारिकोऽधिदैवं तु बुद्धिः प्राणश्च तैजसः ।तामसस्त्वर्थमात्रं च गुणव्यतिकरस्त्रिवृत् ॥ २६ ॥
'देवताधिकृतं यत्तदधिदैवमिति स्मृतम्
। इति च ।
वैकारिकोऽधिदैवमित्यादि पञ्चम्यर्थे ।
'सप्तसु प्रथमा
तत्र स्वातन्त्र्यं यद्विवक्षितम् । इति शब्दनिर्णये ॥२६॥
सहस्रशिरसं साक्षाद् यमनन्तं प्रचक्षते ।संकर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २७ ॥
कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।शान्तघोरविमूढत्वमिति वा स्यादहंकृतेः ॥ २८ ॥
'मनोरूपेण कर्तृत्वं देहरूपेण कार्यता ।
इन्द्रियात्मतया चैव करणत्वमहङ्कृतेः ॥
यतो मनस्यहंभावस्तस्मात्कर्तृ मनः स्मृतम् ।
स्वभावकर्तुर्जीवस्य त्वासन्नोपाधि तद्यतः ॥
कर्मज्ञाने करणता यतः करणमिन्द्रियम् ।
कार्यं देहः समुद्दिष्ट उत्पाद्यत्वात्पुनःपुनः॥ इति तत्त्वविवेके ॥
'शान्तरूपो देवपिता घोरः करणसृङ्मतः ।
तावज्ज्ञानस्याप्रकाशान्मूढो भूतपिता स्मृतः ।
त्रिरूपोऽयमहङ्कारः शेष इत्येव तं विदुः
॥ इति तत्त्वनिर्णये ॥ २७-२८ ॥
तैजसात् तु विकुर्वाणाद् बुद्धितत्त्वमभूत् सति ।द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहात् ॥ ३१ ॥
संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च ।स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥ ३२ ॥
द्रव्यस्फुरणे यद्विशेषज्ञानम् ॥
'सामान्यं मनसा जातं विशेषाद्बुद्धिजं भवेत्॥
'अचलः संशयो बुद्धेश्चलो मानस उच्यते ।
चञ्चला तु स्मृतिर्बुद्धेश्चित्तजैव स्थिरा स्मृतिः॥ इति च ॥
'येन यज्ज्ञायते वस्तु तत्तल्लक्षणमुच्यते । तत्स्वरूपं पृथक्चेति द्विविधं कवयो विदुः
॥ इति कापिलेये ॥ ३१,३२ ॥
तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः ।प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३३ ॥
'प्रधानवायुः सूत्रात्मा महता सह जायते ।
तैजसश्च खजः स्पर्श इत्याद्यास्तत्सुताः स्मृताः ।
तदाविष्टा अन्यजीवास्तदाधाराश्च तद्बलाः
। इति च ॥ ३३ ॥
तामसाच्च विकुर्वाणाद् भगवद्वीर्यचोदितात् ।शब्दमात्रमभूत् तस्मान्नभः श्रोत्रं तु शब्दगम् ॥ ३४ ॥
अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च ।तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३५ ॥
अर्थाश्रयत्वम् अर्थविषयत्वम् ।
'शब्देनैव यतो ज्ञेयो हरिर्लिङ्गं तु तस्य तत् ।
स्पर्शाद्यभावात्तन्मात्रा नभसश्चेति कीर्त्यते ॥
स्पर्शादयश्च तन्मात्रा इतरे पूर्वसंस्थितेः ।
तिष्ठन्त्येको गुणो भूते प्रत्येकं पञ्चसु स्थितः ॥
शब्दो वर्णात्मको नित्यो ध्वनिराकाशसम्भवः ।
आकाश एव सूक्ष्मस्तु ध्वनिरित्येव शब्द्यते ॥
स एव व्यज्यमानस्तु भवेत्कर्णैकगोचरः
॥ इति च ॥ ३४,३५ ॥
नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः ।स्पर्शोऽभवत् ततो वायुस्त्वक् स्पर्शस्य च सङ्ग्रहः ॥ ३७ ॥
नभसः शब्दतन्मात्राच्छब्दतन्मात्रगुणात् ।
'स्पर्शादयोऽपि वाय्वादेः सूक्ष्मावस्था प्रकीर्तिताइति च ।
'सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः ।
भूतेभ्यश्चोपचीयन्ते पुनर्ब्रह्मशरीरतः
॥ इति च ॥ ३७ ॥
चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ।सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् ॥ ३९ ॥
'प्राप्नोति वायुः सर्वं तु स्वत एव हरेस्तथा ।
अतः प्राप्तिरिति प्राहुर्वायुं भूतपतिं प्रभुम् ।
प्रधानवायुरन्येषु नित्याविष्टो यतस्ततः ।
तद्गुणास्तेषु चोच्यन्ते नीचता नास्य तत्कृता॥ इति ब्रह्मवैवर्ते ।
'स्वरूपमपि कर्मेति विषयत्वादुदीर्यते
इति शब्दनिर्णये ॥ ३९ ॥
द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ४१ ॥
व्यक्तिसंस्थात्वं व्यक्तत्वेन स्थितिः । गुणता प्रकाशत्वम् ।
'आलोको गुण इत्येव प्रकाशश्चेति कथ्यते। इत्यभिधानम् ।
'तेजस्त्वमथ चोग्रत्वं क्रौर्यमित्यपि चोच्यते
। इत्यभिधानम् ॥ ४१ ॥
क्लेदनं पिण्डनं तृप्तिः प्राणनाप्ययनोन्दनम् ।तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥ ४५ ॥
'उन्दनं बिन्दुभावः स्यात्स्यन्दनं स्रवणं स्मृतम्। इत्यभिधानम् ।
पृथिव्यग्न्यपेक्षया भूयस्त्वं देहे ॥ ४५ ॥
भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् ।सर्वसत्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ॥ ४८ ॥
भावनमुत्पादकत्वम् ।
'ब्रह्मस्थानं तु पृथिवी शरीरे ब्रह्मदर्शनात्। इति कापिलेये ।
सद्विशेषणं विशेषेण व्यक्तत्वम् ।
'असदव्यक्तनाम स्याद्व्यक्तं सदिति चोच्यते। इति ब्राह्मे ।
सर्वसत्वगुणोद्भेदः शरीरे हि सर्वप्राणिनां गुणा व्यज्यन्ते संसारावस्थायाम् ।
'शरीरं पार्थिवं ज्ञेयमिन्द्रियाण्यौदकानि तु ।
तैजसः कोष्ठगो वह्निश्छिद्रमाकाशसम्भवम् ।
प्राणा वायुमयाः सर्वे प्रत्येकं प्रञ्चधा पुनः
॥ इति कापिलेये ॥४८॥
ततस्तेनानुविद्धेभ्यस्तत्त्वेभ्योऽण्डमचेतनम् ।उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५४ ॥
'अचेतनाद्यतस्त्वण्डाद् ब्रह्मा समजनि स्फुटम् ।
अतो ब्रह्माण्डमित्याहुर्विराड् ब्रह्मा प्रकाशनात्॥ इति च ॥ ५४ ॥
हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् ।पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ६१ ॥
'यज्ञनामा तु देवोऽन्यो विज्ञेयः पाददेवता ।
तदाविष्टो हरिर्नित्यं तमाहुः पाददैवतम् ।
तस्येन्द्रियाभिमानित्वं कुतः पूर्णामलात्मनः
॥ इति च ॥ ६१ ॥
अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ।मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरांपतिः ।
'चैत्योऽपि भगवान्विष्णुरन्तर्यामी चतुर्मुखात् ।
स्वेच्छया व्यक्तिमगमत्ततोऽसौ ब्रह्मजः स्मृतः॥ इति च ॥ ६४ ॥
विष्णुर्गत्यैव चरणौ नोदतिष्ठत् ततो विराट् ।नाडीर्नद्यो लोहितेन नोदतिष्ठत् ततो विराट् ॥ ७० ॥
'यज्ञान्तस्थः स्वयं पादौ विशन्नोत्थापयद्धरिः ।
शक्तोऽपि ब्रह्मवाय्वोस्तु बलज्ञप्त्यै जनार्दनः ।
तत्स्थ उत्थापयामास ब्रह्मदेहं विशन्प्रभुः
॥ इति च ॥ ७० ॥
बुद्ध्या ब्रह्माऽपि हृदयं नोदतिष्ठत् ततो विराट् ।रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् ततो विराट् ॥ ७२ ॥
ब्रह्मा बृहस्पतिः ।
'यस्मिन्ब्रह्मा राजनि पूर्व एति। इति श्रुतिः ।
'बृहस्पतिः पुरोधाश्च ब्रह्मा च ब्रह्मणस्पतिः
। इत्यभिधानम् ॥ ७२ ॥
चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद् यदा ।विराट् तदैव पुरुषः सलिलादुदतिष्ठत ॥ ७३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे सप्तविंशोऽध्यायः ॥
'अंशेन सुप्तो ब्रह्माऽपि अंशेन निरगात्तथा ।
स्वदेहाद्वायुसहितो विष्णुना च जगत्प्रभुः ॥
तमुत्थापयितुं देवास्तानृते त्रीन्महाबलान् ।
नाशक्नुवुन् एकसंस्थास्ततस्ते त्वविशंस्त्रयः ॥
उदतिष्ठद्ब्रह्मदेहस्तदा तेषां प्राभावतः ।
विशेषेण हरेरेव प्राभावेन श्रियः पतेः ॥
चित्ताभिमानी ब्रह्मैव क्षेत्रज्ञस्तद्गतो हरिः ।
प्रणो वायुरिति प्रक्तस्तयोरीशो हरिः स्वयम्
॥ इति च ॥ ७३ ॥