Jump to content

Bhagavatatatparyanirnaya/C3/S13

From Grantha
Revision as of 06:55, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
ससर्जाग्रेऽथ तामिस्रमन्धतामिस्रमादिकृत् ।महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २ ॥


'तमस्तु शार्वरं प्रोक्तं मोहश्चैव विपर्ययः ।तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते ॥मरणं त्वन्धतामिस्रमविद्या पञ्चपर्विका॥ इति भारते ॥'तमोऽज्ञानं विपर्यासो मोहोऽन्ये तु तदाग्रहाःइति हरिवंशेषु ॥ २ ॥
दृष्ट्वा पापीयसीं सृष्टिं नाऽत्मानं बह्वमन्यत ।भगवद्ध्यानपूतेन मनसाऽन्यांस्ततोऽसृजत् ॥ ३ ॥


सनकं च सनन्दं च सनातनमथाऽत्मभूः ।सनत्कुमारं च मुनिं निष्क्रियानूर्ध्वरेतसः ॥ ४ ॥


कालतो बलतश्चैव ज्ञानानन्दादिकैरपि ।सर्वैर्गुणैर्विष्णुरेव श्रेष्ठस्तदवमा रमा ॥अनन्तांशेन कालात्तु समा तस्याश्चतुर्मुखः ।अवरो बहुलांशेन तत्समो वायुरुच्यते ॥नियमाद्वायुरेवैको ब्रह्मत्वं याति नापरः ।तस्मात्समानता मुक्तौ वायुत्वे किञ्चिदूनता ॥दशवर्षं तु तत्पश्चाज्जननं तत्स्त्रियोरपि ।आनन्दादिस्तद्दशांशः कालः संवत्सरात्परः ॥यावत्पश्चाज्जनिस्तावत्पूर्वं देहक्षयो भवेत् ।ब्रह्मवाय्वोस्तु ये देव्यौ तद्दशांशः सुखादिकः ॥शेषस्य गरुडस्यापि कालो दिव्यसहस्रकः ।शेषरुद्रौ ब्रह्मवायू यथा तद्वत्परस्परम् ॥तद्देव्यस्तद्दशांशाः स्युस्ततस्त्विन्द्रादयो मताः ।एवं मुक्तौ च पूर्वं च नान्यथा क्वचिदिष्यते ॥अन्यथोक्तिर्यत्र च स्यात्तन्मोहार्थं भविष्यति ।पूर्वापरविपर्यासो बहुरूपत्वहेतुतः ॥इति विष्णुकृततत्त्वविवेके ॥'अथात आनन्दस्य मीमांसा। 'देवासुरेभ्यो मघवान्प्रधानःइत्यादि च ।'इन्द्राद्याः सनकाद्याश्च दक्षाद्या येऽपि चापरे ।ऋषयो मनवो देवास्तद्वशा ये च केचन ॥उमाया अवराः सर्वे गुणैः सर्वैर्न संशयः ।तत्समो न भविष्यो वा न भूतोऽद्यतनोऽपि वा ॥ऋते हरिं ब्रह्मवायू शेषवीन्द्रान्सभार्यकान् ।शङ्करं चेति वेत्तव्यमन्यन्मोहार्थमुच्यते॥इति विष्णुकृततत्त्वनिर्णये ॥ ३,४ ॥
स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।प्रजापतिपतिस्तन्वीं तत्याज व्रीडितस्तदा ।


'यां तत्याज विभुर्ब्रह्मा मानुषी वाक् तु सा स्मृता ।सरस्वती निजा भार्या देवीं वाचं तु तां विदुः॥ इति च ॥ ३३ ॥
कदाचिद् ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् ॥ ३४ ॥


मैत्रेय उवाच– ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः । शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥ ३७ ॥


इतिहासपुराणं च पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥


तपः शौचं दया सत्यं धर्मस्येति पदानि च । आश्रमांश्च यथासंख्यमसृजत् सह वृत्तिभिः ॥ ४१ ॥


'अभिमानितः शब्दतश्च ब्रह्मा वेदान्ससर्ज ह ।यज्ञादींश्चक्लृपे वाचा तथा सर्वाभिमानिनः ।'इतिहासपुराणे तु श्रुत्वा हरिमुखात्स्वयम् ।भारतादीन्विना पश्चाद्धरिणाऽन्यैश्च निर्मितान्। इति ॥ ३४-४१ ॥
सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा ।वार्ताऽसञ्चयशालीनं शिलोंञ्छ इति वै गृहे ॥ ४२ ॥


'प्राजापत्यं ब्रह्मचर्यमेकभार्यर्तुगामिता॥ इति व्यासस्मृतौ ॥'वार्ता यायावरं ज्ञेयमेकाहित्वमसञ्चयः॥ इति च ॥ ४२ ॥
वैखानसा वालखिल्योदुम्बराः फेनपा वने ।न्यासे कुटीचकः पूर्वं बहूदो हंसनिष्क्रियौ ॥ ४३ ॥


'वैखानसा मूलभक्षाः फलभक्षा उदुम्बराः ।वालखिल्याः सर्वभक्षाः फेनपा वत्सफेनपाः॥ इति च ॥ ४३ ॥
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ।एवं व्याहृतयश्चासन् प्रणवेनास्पदं गताः ॥ ४४ ॥


'आन्वीक्षिकी तन्त्रविद्या सा च वेदानुसारिणी ।विष्णुप्रक्ता शिवाद्युक्ता ज्ञेया वेदबहिष्कृता ॥दण्डनीती राजधर्मस्त्रयी वेदाः प्रकीर्तिताः ।वार्ता वाणिज्यकादिः स्यादेताभिर्यत्तु जीवनम् ॥तदान्वीक्षिक्यादिनाम ब्रह्मणा निर्मितं पुरा॥ इति च ।प्रणवः पूर्ववक्त्रात् ।'प्रणवः पूर्ववक्त्रेण भूराद्याश्च मुखत्रयात् ।प्रदक्षिणमवर्तन्त वेदाश्चैवाश्रमास्तथा॥ इति ब्राह्मे ॥ ४४ ॥
स्पर्शास्तस्याभवन् जीवात् स्वरो देह उदाहृतः ।ऊष्माण इन्द्रियाण्याहुरन्तस्था बलमात्मनः ॥ ४६ ॥


'स्पर्शास्तस्या भवञ्जीवात्स्वरा देहात्प्रजज्ञिरे ।ऊष्माणं इन्द्रियेभ्यश्च अन्तस्था बलतो विभोः ॥इति च ॥'यस्माद्यज्जायते चाङ्गात्तत्तदङ्गाभिधं भवेत्। इति च ॥ ४६ ॥
स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ।शब्दब्रह्मात्मनस्तात व्यक्ताव्यक्तात्मनः प्रभोः ॥ ४७ ॥


'शब्दब्रह्मात्मको ब्रह्मा सर्वशब्दाभिधो यतः ।ऋते नारायणादीनि नाम्नां स विषयो यतः ॥व्यक्तं ब्रह्माण्डमुद्दिष्टमव्यक्तं महदादि च ।तद्व्यापकत्वाद्ब्रह्मा तु व्यक्ताव्यक्तात्मकः स्मृतः॥ इति च ॥ ४७ ॥
ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ।ज्ञात्वा तद् हृदये भूयश्चिन्तयामास कौरव ॥ ४९ ॥


अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ।न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥ ५० ॥


एवं युक्तिमतस्तस्य दैवं चावेक्षतस्तदा ।कस्य रूपमभूद् द्वेधा यत् कायमभिचक्षते ॥ ५१ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रयोदशोऽध्यायः ॥
'ऋषीणां भूरिवीर्याणाम्इति सिंहावलोकनम् ।यत्र पश्चात्तनः श्रेष्ठस्तत्र सिंहावलोकनम्॥ इति ब्रह्मतर्के ॥केन व्याप्तत्वात्कायः ॥ ४९-५१ ॥