Bhagavatatatparyanirnaya/C9/S6
Appearance
षष्ठोऽध्यायः
एवंविधानेकगुणः स राजापरात्मनि ब्रह्मणि वासुदेवे ।
'ब्रह्मादिभक्तिकोट्यंशादंशो नैवाम्बरीषके ।नैवान्यस्य च कस्यापि तथापि हरिरीश्वरः ॥तात्कालिकोपचेयत्वात्तेषां यशस आदिराट् ।ब्रह्मादयश्च तत्कीर्तिं व्यञ्जयामासुरुत्तमाम् ॥मोहनाय च दैत्यानां ब्रह्मादेर्निन्दनाय च ।अन्यार्थं च स्वयं विष्णुर्ब्रह्माद्याश्च निराशिषः ॥मानुषेषूत्तमत्वाच्च तेषां भक्त्यादिभिर्गुणैः ।ब्रह्मादेर्विष्ण्वधीनत्वज्ञापनाय च केवलम् ॥दुर्वासाश्च स्वयं रुद्रस्तथाप्यन्याय्यमुक्तवान् ।तस्याप्यनुग्रहार्थाय दर्पनाशार्थमेव च॥ इति गारुडे ॥ ८४ ॥