Jump to content

Bhagavatatatparyanirnaya/C5/S20

From Grantha
Revision as of 05:34, 8 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

विंशोऽध्यायः

प्रत्नस्य विष्णो रूपं यत्सत्यर्तस्य ब्रह्मणः । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५ ॥


'सूर्यसोमाग्निवारीरविधातृषु यथाक्रमम् ।प्लक्षादिद्वीपसंस्थास्तु स्थितं हरिमुपासते॥ इति च ॥ ५ ॥
एवं परस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंश-ल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परित उपक्लृप्तः यस्मिन् शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महान्सुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४ ॥


Template:AuthorNote

'अनाम्लं तु दधि क्षीरं क्षीरं सान्द्रं तथा दधि॥इति शब्दनिर्णये ॥ २४ ॥