Jump to content

Bhagavatatatparyanirnaya/C3/S18

From Grantha
Revision as of 05:33, 8 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

अष्टादशोऽध्यायः

ववौ वायुः सुदुस्पर्शः फट्काराराववान् मुहुः ।उन्मूलयन् नगपतीन् वात्यानीको रजोध्वजः ॥ ५ ॥


'फट्कारश्चैव फूत्कारस्तथा किलकिलादयः ।अनुकारशब्दा विज्ञेया ये चान्ये तादृशा मताः ॥"इत्यभिधानम् ॥ ५ ॥
अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् ।सृगाला अपि टङ्कारैः प्रणेदुरशिवाः शिवाः ॥ ९ ॥


टङ्कारोऽप्यनुकारशब्दः ।'नाशस्तत्र सृगालानां शिवानां चान्यथास्वरेइत्याग्नेये ॥ ९ ॥
खरोष्ट्राः कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् ।खात्काररभसा मत्ताः पर्यधावन् वरूथशः ॥ ११ ॥


खात्कारोऽप्यनुकारशब्दः ॥ ११ ॥
तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम् ।वैजयन्त्या स्रजा जुष्टमसंन्यस्तमहागदम् ॥ २१ ॥


मनोवीर्यमदोत्सिक्तमधृष्यमकुतोभयम् ।भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः ॥ २२ ॥


Template:AuthorNote

'न देवानां प्रजापानां विजेता वरतो विना ।बलेन विद्यया वापि न समस्तत्पतीन्विना ॥वरोऽपि तादृशो यावच्छरीरं नान्यदेहगः॥ इति तत्त्वनिर्णये ॥ २१-२२ ॥