नरसिंहनखस्तोत्रम्/व्याख्या/बालबोधिनी: Difference between revisions
Nakha>ImportBot Initial import |
Nakha>ImportBot Initial import |
(No difference)
| |
Revision as of 12:00, 4 March 2026
बालबोधिनी — नरसिंहनखस्तोत्रव्याख्या
श्रीविश्वपतितीर्थविरचिता | ← मूलपाठः | मन्दबोधिनी →
श्लोक १ — NNS_C01_V01
परमकारुणिकः श्रीमदानन्दतीर्थमुनिः सर्वारिष्टाटवीदावानलं भक्तेष्टचिन्तामणिं नखरस्तवं भक्तानुजिघृक्षया विधित्सुः श्रीनृसिंहनखराणां संसारकारणीभूतदुर्ज्ञान दुष्कर्माभिमानिसर्वदैत्यहन्तृत्वेन तन्मूलकसकलानिष्टनिवर्तकत्वमत एव ब्रह्मेशाद्यखिललेखाद्युत्तमाधिकार्युपास्यत्वं च प्रतिपादयन् स्वोपलक्षितसकलसत्पुरुषसंरक्षणं प्रार्थयते — पन्त्विति ।
पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटाकुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः — पुरु भूयिष्ठं हूयते यज्ञेष्विति पुरुहूतः पुरन्दरस्तस्य। वैरमेषामस्तीति वैरिणो दैत्याः। बलमेषामस्तीति बलवन्तः। बलवन्तश्च ते मातङ्गाश्च बलवन्मातङ्गा महागजा इत्यर्थः। तेषां माद्यन्ती मदं प्राप्ता घटा। ये कुम्भाः कुम्भस्थलानि ते उच्चाद्रय इव उन्नतपर्वता इव, तेषां विपाटनं विदारणं तस्मिन्नधिकमत्यन्तं पटवः। एकमेकं प्रत्येकं वीप्सायामव्ययीभावः। वज्रवदाचरन्तीति वज्रायिताः।
भूरिभागैः — भूरि बहु भागो भाग्यं येषां ते भूरिभागा ब्रह्मादयस्तैः। दारितारातिदूरप्रध्वस्तध्वान्तशान्तप्रविततमनसा — दारिता विदारिता अरातयः कामादिषड्वर्गा येन। दूरप्रध्वस्तं निरस्तम् — अनादितोऽविद्यामानमित्यर्थः। ब्रह्मादियोगिनां भगवद्विषयकान्तःकरणवृत्तिरूपज्ञानप्रवाहस्यापीदं प्रथमताभावेनानादित्वाद् भगवद्विषयकज्ञानाभावलक्षणज्ञानस्य दूरप्रध्वस्तत्वमिति भावः। तादृशं ध्वान्तं अज्ञानलक्षणान्धकारः। शान्तं रागादिदोषाकलुषितं भगवन्निष्ठं वा प्रविततं प्रकर्षेण विस्तृतम्।
भाविता ध्याताः। श्रीमत्कण्ठीरवास्यप्रततसुनखराः — श्रिया महालक्ष्म्या नित्ययुक्तः श्रीमान्। कण्ठीरवस्य सिंहस्यास्यमिव मुखमिव आस्यं यस्य। प्रतताः व्याप्ताः प्रख्याताः इति वा ये सुनखराः शोभननखराः। अस्मान् पान्तु रक्षन्तु। ।। १ ।।
श्लोक २ — NNS_C01_V02
सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैवचान्यत्र सत्यम् इति श्रुतेः सकलसच्छास्त्रमुख्यतात्पर्यार्थभूतं श्रीनृहरेः समाभ्यधिकराहित्यलक्षणं सर्वोत्तमत्वं मुमुक्षुणा सर्वावस्थास्ववश्यं प्रतिपत्तव्यमित्यतः सप्रमाणं तत्प्रतिपादयंस्तौति — लक्ष्मीकान्तेति।
हे लक्ष्मीकान्त लक्ष्म्या वल्लभ श्रीनृसिंह। ईशितुः सर्वस्वामिनः ते तव सदृशं वस्तु समन्ततोऽपि सर्वत्र जगतीत्यर्थः। कलयन् मनसा प्रमाणैर्वा विचारयन्नहं न पश्याम्येव।
उत्तमवस्तु — योऽत्यन्तासत्त्वेन प्रसिद्धः अष्टानां पूरणोऽष्टमः रस इव। श्रीनृसिंहादुत्तमपदार्थ इत्यर्थः। अतिशयेन दूरं दूरतरं तस्मात् अपास्तं निरस्तम्। मधुरलवणतिक्ताम्लकटुकषायभेदेन षड्रसाः। न तु सप्तम एव रसः — षड्रसातिरिक्तस्य शशविषाणायितत्वात्। अष्टमस्तु सुतरामेवाप्रसिद्धो यथा, तथा श्रीनृसिंहसदृश देवो नास्ति।
यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्नि — यस्य नृसिंहस्य रोषोत्करदक्षनेत्रस्य कुटिलः प्रान्तः, तस्मादुत्थितः अग्नेः स्फुरन्तः खद्योतोपमाः विस्फुलिङ्गाः तैः भसिताः ब्रह्मेशशक्रोत्कराः।
ब्रह्मादिदेवानामुत्पत्तिस्थितिसंहृत्यादेः श्रीनृसिंहकटाक्षावलोकनमात्राधीनत्वेन स एव सर्वदा श्रेयोऽर्थिभिर्ध्येय इत्यशेषमतिमङ्गलम्।
इति श्रीनखस्तुतिव्याख्या श्रीविश्वपतितीर्थविरचिता बालबोधिनी सम्पूर्णा ।।