Jump to content

ब्रह्मसूत्रभाष्यम्/C04/S04: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
(No difference)

Revision as of 10:11, 2 March 2026

चतुर्थः पादः

प्रास्ताविकम्

भोगमाहास्मिन् पादे-


सम्पद्याधिकरणम्

ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ॥ 01-542 ॥


‘स य एवंविदेवं मन्वान एवं पश्यन्नात्मनमभिसम्पद्यैतेनात्मना यथाकामं सर्वान् कामाननुभवति’ इति सौपर्णश्रुतिः ।


‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति च ।


‘एवं सेतुं तीर्त्वाऽन्धः सन्ननन्धो भवति’ इति च ।


तत्र तरणं नाम तत्प्राप्तयेऽन्यतरणमेव ।


‘इमां घोरामशिवां नदीं तीर्त्वैतं सेतुमाप्यैतेनैव सेतुना मोदते प्रमोदत आनन्दी भवति’ इति मौद्गल्यश्रुतेः ॥ 01 ॥


मुक्ताधिकरणम्

ॐ मुक्तः प्रतिज्ञानात् ॐ ॥ 02-543 ॥


मुक्त एव चात्रोच्यते ।


‘अहरहरेनमनुप्रविशत्युपसङ्क्रमते च न तत्र मोदते न प्रमोदते न कामाननुभवति बद्धो ह्येष तदा भवत्यथ यदैनं मुक्तोऽनुप्रविशति मोदते च प्रमोदते च कामांश्चैवानुभवति । कामांश्चैवानुभवति’ इति बृहच्छ्रुतौ प्रतिज्ञानात् ॥ 02 ॥


आत्माधिकरणम्

ॐ आत्मा प्रकरणात् ॐ ॥ 03-544 ॥


परञ्ज्योतिशब्देन परमात्मैवोच्यते । तत्प्रकरणत्वात् ।


‘परञ्ज्योतिः परं ब्रह्म परमात्मादिका गिरः । सर्वत्र हरिमेवैकं ब्रूयुर्नान्यं कथञ्चन’ इति च ब्रह्माण्डे ॥ 03 ॥


अविभागाधिकरणम्

ॐ अविभागेन दृष्टत्वात् ॐ ॥ 04-545 ॥


ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर्भुज्यन्ते ।


‘यानेवाहं श्रुणोमि यान् पश्यामि यान् जिघ्रामि तानेवैत इदं शरीरं विमुच्यानुभवन्ति’ इति दृष्टत्वाच्चतुर्वेदशिखायाम् ।


भविष्यत्पुराणे च –


‘मुक्ताः प्राप्य परं विष्णुं तद्भोगान् लेशतः क्वचित् । बहिष्ठान् भुञ्जते नित्यं नानन्दादीन् कथञ्चन’ इति ॥ 04 ॥


चितिमात्राधिकरणम् (ब्रह्माधिकरणम्)

ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ ॥ 05-546 ॥


सर्वदेहपरित्यागेन मुक्ताः सन्तो ब्राह्मेणैव देहेन भोगान् भुञ्जत इति जैमिनिर्मन्यते ।


‘स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा श्रुणोति ब्रह्मणैवेदं सर्वमनुभवति’


इति माध्यन्दिनायनश्रुतावुपन्यासात् ।




ॐ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॐ ॥ 06-547 ॥


चितिमात्रो देहो मुक्तानां पृथग्विद्यते तेन भुञ्जते ।

सर्वं वा एतदचित् परित्यज्य चिन्मात्र एवैष भवति चिन्मात्र एवावतिष्ठते तामेतां मुक्तिरित्याचक्षते’

इत्युद्दालकश्रुतेश्चिदात्मकत्वादित्यौडुलोमिर्मन्यते ॥ 06 ॥


ॐ एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॐ ॥07-548॥


‘स वा एष एतस्मान्मर्त्याद्विमुक्तश्चिन्मात्रीभवत्यथ तेनैव रूपेणाभिपश्यत्यभिश्रुणोत्यभिमनुतेऽभिविजानाति तामाहुर्मुक्तिः’ इति सौपर्णश्रुतौ चिन्मात्रेणाप्युपन्यासाज्जैमिन्युक्तस्य च भावादुभयत्राप्यविरोधं बादरायणो मन्यते । नारायणाध्यात्मे च-


‘मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः । चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ॥


तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्तनम् ।

कुर्वन्ति भुञ्जते भोगांस्तदन्तर्बहिरेव वा ॥

यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः’ इति ॥ 07 ॥


सङ्कल्पाधिकरणम्

ॐ सङ्कल्पादेव च तच्च्रुतेः ॐ ॥ 08-549 ॥


न तेषां भोगादिषु प्रयत्नापेक्षा । ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ इत्यादिश्रुतेः ॥ 08 ॥


अनन्याधिपतित्वाधिकरणम्

ॐ अत एव चानन्याधिपतिः ॐ ॥ 09-550 ॥


सत्यसङ्कल्पत्वादेव ।


‘परमोऽधिपतिस्तेषां विष्णुरेव न संशयः । ब्रह्मादिमानुषान्तानां सर्वेषामविशेषतः ॥



उभयविधभोगाधिकरणम्

ॐ अभावं बादरिराह ह्येवम् ॐ ॥ 10-551 ॥


चिन्मात्रं विनाऽन्यो देहस्तेषां न विद्यत इति बादरिः ।


अशरीरो वाव तदा भवत्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यत’ इत्येवं कौण्ठरव्यश्रुतावाह हि ॥ 10 ॥


ॐ भावं जैमिनिर्विकल्पाम्नानात् ॐ ॥ 11-552 ॥


‘स वा एष एवंवित् परमभिपश्यत्यभिशृणोति ज्योतिषैव रूपेण चिता वाऽचिता वा नित्येन वाऽनित्येन वाऽथानन्दी ह्येवैष भवति नानानन्दं कञ्चिदुपस्पृषति’ इत्यौद्दालकश्रुतौ विकल्पाम्नानादन्यदेहस्यापि भावं जैमिनिर्मन्यते ॥ 11 ॥


ॐ द्वादशाहवदुभयविधं बादरायणोऽतः ॐ ॥ 12-553 ॥


यथा द्वादशाहः क्रत्वात्मकः सत्रात्मकश्च भवति । एवं मुक्तभोगो बाह्यशरीरकृतश्चिन्मात्रकृतश्च भवति इति बादरायणो मन्यते ॥ 12 ॥


उपपत्तिश्च-


ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ ॥ 13-554 ॥


सन्ध्यं स्वप्नः ।‘सन्ध्यं तृतीयं स्वप्नस्थानम्’ इति श्रुतेः ॥ 13 ॥


ॐ भावे जाग्रद्वत् ॐ ॥ 14-555 ॥


ब्रह्मवैवर्ते च –


‘स्वप्नस्थानं यथा भोगो विना देहेन युज्यते । एवं मुक्तावपि भवेद्विना देहेन भोजनम् ॥


स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् । स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदाचन’ इति ॥ 14 ॥


ॐ प्रदीपवदावेशस्तथा हि दर्शयति ॐ ॥ 15-556 ॥


शरीरमनुप्रविश्यापि तत्प्रकाशयन्तः पुण्यानेव भोगाननुभवन्ति न तु दुःखादीन् । यथा प्रदीपो दीपिकादिषु प्रविष्टस्तत्स्थं तैलाद्येव भुङ्ते न तु तत्कार्ष्ण्यादि । ‘तीर्णो हि तदा सर्वाञ्छोकान् हृदयस्य भवति’ इति हि दर्शयति ॥ 15 ॥


न च स्वर्गे लोके न भयं किञ्चनास्ति इत्यादिना स्वर्गादिस्थस्यैतदिति वाच्यम् । यतः –


ॐ स्वाप्यायसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॐ ॥ 16-557 ॥


सुप्तौ मोक्षे वा तदुच्यते । ‘अत्र पिताऽपिता भवत्यनन्वागतं पुण्येनानन्वागतं पापेन’ इत्याद्याविष्कृतत्वात् ॥


ब्रह्मवैवर्ते च-


‘ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते सुसुखान्येव न दुःखादीन् कदाचन ॥


तीर्णा हि सर्वशोकांस्ते पुण्यपापादिवर्जिताः । सर्वदोषनिवृत्तास्ते गुणमात्रस्वरूपिणः’ इति ॥ 16 ॥


सर्वकामाधिकरणम् (जगद्व्यापाराधिकरणम्)

ॐ जगद्व्यापारवर्जम् ॐ ॥ 17-558 ॥


‘सर्वान् कामानाप्त्वाऽमृतःसमभवत्’ इत्युच्यते । तत्र सृष्ट्यादिभ्योऽन्यान् व्यापारानाप्नोति ॥ 17 ॥


कुतः ? –


ॐ प्रकरणादसन्निहितत्वाच्च ॐ ॥ 18-559 ॥


जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च । वाराहे च-


‘स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामः स्यादन्यान् कामांस्तु भुञ्जते ॥


तद्योग्यता नैव तेषां कदाचित् क्वापि विद्यते । न चायोग्यं विमुक्तोऽपि प्राप्नुयान्नच कामयेत्’ इति ॥ 18 ॥


ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॐ ॥ 19-560 ॥


‘ता यो वेद, स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावहन्ति’ इति प्रत्यक्षोपदेशाज्जगदैश्वर्यमप्यस्तीति चेन्न ।


आधिकारिकमण्डलाधिपतिर्ब्रह्मा हि तत्रोच्यते ।


गारुडे च-


‘आत्मेत्येव परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ॥


अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन । केचित् स्वर्गे महर्लोके जने तपसि चापरे ॥


केचित् सत्ये महाज्ञान गच्छन्ति क्षीरसागरम् । तत्रापि क्रमयोगेन ज्ञानाधिक्यात् समीपगाः ॥


सालोक्यं च सरूपत्वं सामीप्यं योग एव च । इमामारभ्य सर्वत्र यावत्सुक्षीरसागरे ॥


पुरुषोऽनन्तशयनः श्रीमन्नारायणाभिधः । मानुषा वर्णभेदेन तथैवाश्रमभेदतः ॥


क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः । आजानजाः कर्मजाश्च तात्त्विकाश्च प्रजापतिः ॥


रुद्रो ब्रह्मेति क्रमशस्तेषु चैवोत्तरोत्तराः । नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेषु च ॥


सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् । पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुखः ॥


स्वजगद्व्यापृतिस्तेषां पूर्ववत् समुदीरिता । सयुजः परमात्मानं प्रविश्य च बहिर्गताः


चिद्रूपान् प्राकृतांश्चापि विना भोगांस्तु कांश्चन । भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदाहृताः’ इति ॥ 19 ॥


ॐ विकारावर्ति च तथाहि दर्शयति ॐ ॥ 20-561 ॥


विकारावर्तिव्यापारो मुक्तानां न विद्यते । ‘इमं मानवमावर्तं नावर्तन्ते’ इति हि श्रुतिः ।


वाराहे च –


स्वाधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् । बलिं हरन्ति मुक्ताय विरिञ्चाय तु पूर्ववत् ॥


सब्रह्मकास्तु ते देवा विष्णवे च विशेषतः ।

न विकाराधिकारस्तु मुक्तानामन्य एव तु ।

विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुना’ इति ॥ 20 ॥


स्थित्य(एकरूपा)धिकरणम्

ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ॥ 21-562 ॥


‘एतत् साम गायन्नास्ते’ इत्युच्यते ।तत्रानन्दादीनां वृद्धिर्ह्रासश्च न विद्यते। एकप्रकारेणैव सर्वदा स्थितिः ।


‘स एष एतस्मिन् ब्रह्मणि सम्पन्नो न जायते न म्रियते न हीयते न वर्धते स्थित एव सर्वदा भवति दर्शन्नेव ब्रह्म दर्शन्नेवात्मानं तस्यैवं दर्शयतो नापत्तिर्न विपत्तिः’ इत्याह जाबालश्रुतौ ।



विद्वत्प्रत्यक्षात् कारणभावल्लिङ्गाच्च । ब्रह्मवैवर्ते च –


‘न ह्रासो न च वृद्धिर्वा मुक्तानां विद्यते क्वचित् । विद्वत्प्रत्यक्षसिद्धत्वात् कारणाभावतोऽनुमा ॥


हरेरुपासना चात्र सदैव सुखरूपिणी । न तु साधनभूता सा सिद्धिरेवात्र सा यतः’ इति ॥ 21 ॥


ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ ॥ 22-563 ॥


न च भोगविशेषादिविरोधः ।‘एतमानन्दमयमात्मानमनुविश्य न जायते न म्रियते न ह्रसते न वर्धते यथाकामं चरति यथाकामं पिबति यथाकामं रमते यथाकाममुपरमते’ इति भोगमात्रसाम्यलिङ्गात् ।



‘प्रवाहतस्तुवृद्धिर्वा ह्रासो वा नैव कुत्रचित् । नाप्रियं किञ्चिदपि तु मुक्तानां विद्यते क्वचित् ॥



अनावृत्यधिकरणम्

ॐ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॐ ॥ 23-564 ॥


‘न च पुनरावर्तते न च पुनरावर्तते’ ,‘सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत्’ इत्यादिश्रुतिभ्यः ॥ 23 ॥


ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे । नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ॥


यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं

बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।

वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्-

मध्वो यत् तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥


नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥