Jump to content

ब्रह्मसूत्रभाष्यम्/C04/S02/A011: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
 
(No difference)

Latest revision as of 10:11, 2 March 2026

अध्यक्षाधिकरणम्

ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ ॥ 04-507 ॥


स प्राणः परमात्मनि विलीयते ।


‘सर्वे प्राणमुपगच्छन्ति प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः परमानुप्राणिति तस्मादाहुः प्राणस्य प्राण इति’ ‘प्राणः परस्यां देवतायाम्’ ।


‘मुक्ताः सन्तोऽग्निमाविश्य देवाः सर्वेऽपि भुञ्जते ।


‘अग्निरिन्द्रं तथेन्द्रश्च वायुमाविस्य सोऽपि तु । आविश्य परमात्मानं भङ्क्ते भोगांस्तु बाह्यकान् ॥


न ह्यानन्दो निजस्तेषां परैर्लभ्यः कथञ्चन । किमु विष्णोः परानन्दो न ते विष्णुविति श्रुतेः ॥


प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् । सर्वेशितुश्च सर्वादेस्तस्यान्यत्र लयः कथम्’ इत्यादि श्रुतिस्मृतिभ्यः ॥ 04 ॥