Jump to content

Bruhadaranyaka/C3/S5: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: New redirect
 
Line 1: Line 1:
== कहोळब्राह्मणम् ==
#REDIRECT [[Bruhadaranyaka#BR_C03_S05]]
{{Adhyaya
| document_id  = BR
| chapter_num  = 3
| title        = कहोळब्राह्मणम्
}}{{VerseBlock
| verse_id      = BR_C03_S05_V01
| document_id  = BR
| chapter_id    = BR_C03
| verse_type    = mantra
| verse_line1  = अथ हैनं कहोलः कौषीतकेयः पप्रच्छ । याज्ञवल्क्येति होवाच । । यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तमेव मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति ।
| verse_line2  = एतं वै तमात्मानं विदित्वा ब्राह्मणः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति ।
| verse_line3  = या ह्येव पुत्रैषणा सा वित्तैषणा । या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । तस्मात् ब्राह्मणः पांडित्यं निर्विद्य बाल्येन तिष्ठासेद् । बाल्यं च पांडित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात् तेनेदृश एवातोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥
| commentary1  = bruhadaranyaka
}}
 
{{Bhashyam
| verse_id = BR_C03_S05_V01
| id      = BR_C03_S05_V01_author-note
| text    =
॥  इति कहोलब्राह्मणम् ॥ ५५ ॥
}}
 
{{Bhashyam
| verse_id = BR_C03_S05_V01
| id      = BR_C03_S05_V01_B1
| text    =
ये दव साक्षादिति पुनः प्रश्नो मुक्तानामपि भगवतो भेदोऽस्तीति ज्ञापयितुम् । यदेव ब्रह्म तदन्ये ब्रह्मादयो मुक्ता अपि यन्नैव भवन्ति कदाचन । तमेव मे व्याचक्ष्व मुक्तजीववैलक्षण्येन सहेति द्वितीय एव शब्दार्थः । स तु भगवान् स्वत एवातीताशनायादिरतीतानागतवर्तमानकालेषु ब्रह्मादयस्तु तं विदित्वा तत्प्रसादादेव पश्चादत्येष्यन्ति एतं वै तमित्येतादृशैर्गुणैः साक्षादपरोक्षत्वजीवभेदादिभिर्युक्तमित्यर्थः
}}
 
{{Bhashyam
| verse_id = BR_C03_S05_V01
| id      = BR_C03_S05_V01_B1
| text    =
भिक्षाचर्यं चरन्ति मुक्ता अपि ब्रह्मादयस्तस्मादेव परमेश्वराद्विप्लुडानन्दमेव भिक्षन्तो वर्तन्ते । ब्रह्माणनान्मुक्ता एव ब्राह्मणशब्देनोच्यन्ते । न हि ज्ञानादनन्तरं सन्यासस्य कर्तव्यता । येषां तद्योग्यता तेषामपि ज्ञानार्थत्वेनैव सन्यासः । मुक्ता अपि यं भिक्षन्ते सोऽतिपरिपूर्णमहानन्दो भगवान् स्वत एव । तदन्ये ब्रह्मादयो मुक्ता अपि तत एव विप्लुडानन्दभिक्षुका इति विशेषः । तथापि तेषामेषणातीतत्वान्न दुःखम् । पुत्रस्य वित्तस्य च लोकार्थत्वात् लोकैषणायामन्तर्भावः । वित्तस्यापि प्रायः पुत्रार्थत्वात् पुत्रैषणायाम् । लोकैषणाया अपि दुःखरूपत्वात् सापि तेषां नास्त्येवेति दर्शयितुमुभे ह्येते एषणे एव भवत इत्याह । उभे अपि दृष्टादृष्टविषये एषणात्वाद् दुःखरूपे एवेत्यर्थः । पुत्रवित्तैषणे उभे अपि दृष्टविषयत्वादेकैवेत्युभे एवेत्युक्तम् ।
}}
 
{{Bhashyam
| verse_id = BR_C03_S05_V01
| id      = BR_C03_S05_V01_B1
| text    =
द्वितीयो ब्राह्मणो ब्रह्माणितुं योग्यः । पांडित्यमागमजज्ञानम् । बाल्यं युक्तिसहितम् । बलयुक्तत्वात् । मौनमुपासनाजम् । अमौनमपरोक्षजज्ञानम् । निर्विद्य नितरां प्राप्य लब्ध्वा । विदलृ लाभ इति धातोः । अथ ब्राह्मणो मुक्तो भवतीत्यर्थः । स मुक्तो येन केनापि वर्तयन्नीदृश एव भिक्षुक एव । न कदाचित् स्वतंत्रो भवति । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति च वक्ष्यति । मुक्तविषयं चैतत् । अत्र पिताऽपिता भवतीत्यादि तत्प्रस्तावे ओं स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ओम् इति भगवद्वचनम् । तत्रैव मुक्तानामानन्दतारतम्यं चोक्तम् । स यो मनुष्याणां राद्धः समृद्धो भवति इत्यादिना । श्रोत्रियत्वावृजिनत्वाकामहतत्वानां मुक्तेष्वेव मुख्यत्वात् । यश्च श्रोत्रिय इति ह्यभ्यासः । न ह्यमुक्ता अवृजिना अकामहता वा । न च श्रुतिफलं सम्यक्प्राप्ताः । श्रुतिफलप्राप्तिर्हि श्रोत्रियत्वम् । सर्वे विमोहितधियस्तव माययेमे ब्रह्मादयस्तनुभृतो बहिरर्थभावाः इति भागवते शरीरसम्बंधिनां मोहादियुतत्वम् । मोहदियुतानां न श्रोत्रियत्वमदुःखत्वमकामहतत्वं वा । वृजिनं व्रजनं दुःखं क्लेशो बाधेति चोच्यते इत्यभिधानम् । न च देवादिपदाकामानामिंद्रादिपदाकामानां कश्चिद्विशेषो दृश्यते । अतो मुक्तविषयमेवैतत् ।
}}
 
{{Bhashyam
| verse_id = BR_C03_S05_V01
| id      = BR_C03_S05_V01_B1
| text    =
परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति
}}
 
{{Bhashyam
| verse_id = BR_C03_S05_V01
| id      = BR_C03_S05_V01_B1
| text    =
ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥
}}
 
{{Bhashyam
| verse_id = BR_C03_S05_V01
| id      = BR_C03_S05_V01_B1
| text    =
मुक्तानां परमागतिः कृष्णो मुक्तैरिज्यते वीतमोहैः इत्यादिवचनैश्च भगवदनुग्राह्यत्वं तदानन्दानवाप्तिश्च मुक्तानां दृश्यते ।
}}
 
{{Bhashyam
| verse_id = BR_C03_S05_V01
| id      = BR_C03_S05_V01_B1
| text    =
बह्वभ्यासात् त आत्मेति मुक्तौ जीवेशयोर्भिदा ।
प्रधानतत्परत्वेन दृश्यतेऽत्यादरात् सदा ॥
महातात्पर्ययोगाच्च स एवार्थोऽवगम्यते ।
तात्पर्यं परमं विष्णोरत्युद्रेके विशेषतः ॥
सर्वश्रुतिस्मृतीनां च दृश्यतेऽन्यत् तदर्थतः ।
स च जीवेशयोर्भेदे सर्वोद्रेको हि युज्यते ॥
बह्वभ्यासस्त आत्मेति श्रुतावादरतस्ततः ।
ममात्मेति वचो यत्र विष्णोऽरपि च दृश्यते ॥
देहस्यापि स्वरूपत्वज्ञापनं तत्प्रयोजनम् ।
न ह्यप्रयोजकं वेदपदं वर्णोऽथवा स्वरः ॥
देहस्वरूपता विष्णोर्न ममेति पदं विना ।
सम्यक् ज्ञापयितुं शक्या ततस्तत्पदमिष्यते ॥
ततस्त आत्मेति वचो भेदाभावे न युज्यते ।
भिक्षया भक्षणं तस्मादानन्दस्य ततोऽवदत् ॥
मुक्तानामेकदेशत्वं ब्रह्मानन्दव्यपेक्षया ।
विप्लुट्त्वं प्रतिबिम्बत्वं श्रुतिषूक्तं हि सर्वशः ॥
तथापि पूर्णानन्दत्वममुक्तानां व्यपेक्षया ।
ब्रह्मादेस्तारतम्यं च मुक्तावेव सदातनम् ॥
दृष्टादृष्टेषणानाशान्निर्दुःखत्वं च सर्वदा ।
परब्रह्मत्ववचनं मुक्तानां यत्र दृश्यते ॥
जीवेषु ब्रह्मशब्दोक्तैः परत्वं तु विमुक्तितः ।
तत्परब्रह्मता तेषां बद्धजीवोच्चता मता ॥
ततो ब्रह्माणने योग्यः पांडित्यं प्राप्नुयात् परम् ।
पांडित्यमागमज्ञत्वं बाल्यं युक्तिसहायता ॥
मौनं तूपासनासिद्धिरमौनं भगवद्दृशिः ।
एतान्याप्य भवेन्मुक्तिर्मुक्तो वै भिक्षुको भवेत् ॥
न ह्यन्यभिक्षितं विष्णुर्दद्यान्नियमतः क्वचित् ।
मुक्तस्य भिक्षितं सर्वं दद्यान्नियमतो हरिः ॥
अयोग्यभिक्षणं तेषां न कदाचित्तु युज्यते ।
येन केनापि नैतेषां भिक्षावृत्तिर्विनश्यति ॥
प्रथमो ब्राह्मणो मुक्तो द्वितीयो योग्य उच्यते ।
अपरोक्षविन्मुक्तयोस्तु तार्तीयेनोभयोर्ग्रहः ॥
अतो मुक्ता अमुक्ताश्च न स्वतंत्राः कदाचन ।
स्वतंत्रस्तु स एवैको भगवान् पुरुषोत्तमः ॥ इत्यादि ब्रह्मतर्के ।
}}
 
{{Bhashyam
| verse_id = BR_C03_S05_V01
| id      = BR_C03_S05_V01_B1
| text    =
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ॥ इत्यादिना च भेदेन महोत्कर्षे परमतात्पर्यं सर्वशाखाणामाह ॥
}}
 
 
[[Category:Bruhadaranyaka]]

Latest revision as of 06:45, 13 April 2026