Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S04/A087: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
 
(No difference)

Latest revision as of 10:11, 2 March 2026

उभयलिङ्गाधिकरणम्

ॐ सर्वथाऽपितु त एवोभयलिङ्गात् ॐ ॥ 34-467 ॥


सर्वप्रकारेणोत्साहेऽपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये ।

‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’

इति श्रुत्याऽऽचार्योपदेशसाम्येऽपि विरोचनो विपरीतज्ञानमापेन्द्रः सम्यज्ज्ञानमित्युभयविधलिङ्गात् ॥ 34 ॥


ॐ अनभिभवं च दर्शयति ॐ ॥ 35-468 ॥


‘दैवीमेव सम्पत्तिं देवा अभिगच्छन्त्यासुरीमेव चासुरा नैतयोरभिभवः कदाचित् स्वभाव एव ह्यवतिष्ठन्ते’ इति स्वभावानभिभवं च दर्शयति ॥ 35 ॥


ॐ अन्तरा चापि तु तद्दृष्टेः ॐ ॥ 36-469 ॥


सम्यज्ज्ञानविपरीतज्ञानयोरन्तरा स्थितानामपि देवासुरभावयोर्दार्ढ्यदृष्टेः॥ 36 ॥


ॐ अपि स्मर्यते ॐ ॥ 37-470 ॥



ॐ विशेषानुग्रहं च ॐ ॥ 38-471 ॥


शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः । एधमानद्विडुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्’


इति विशेषानुग्रहं च दर्शयति देवेषु परमेश्वरस्य।



ॐ अतस्त्वितरज्ज्यायोलिङ्गाच्च ॐ ॥ 39-472 ॥


देवभागादसुरभाग एव बहुलः । ‘तस्मान्न जनतामियात्’ इति लिङ्गात् ।


चशब्दात् ‘ततः कनीयासा एव देवा ज्यायासा असुराः’ इति श्रुतेश्च ।


‘असुरा बहुला यस्मात् तस्मान्न जनतामियात्’ इति च ब्राह्मे ॥ 39 ॥


ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॐ ॥ 40-473 ॥


असुरजातेरेवासुरत्वं देवजातेरेव देवत्वं जैमिनेरपि सिद्धमेव।


‘नासुरा दैवीं न देवा आसुरीं न मनुष्या दैवीमासुरीं च गतिमीयुरात्मीयामेव जातिमनुभवन्ति’ इति नियमश्रुतेः ।


‘नासुराणां दैवं रूपं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रूपः स तद्रूपो निसर्गो ह्येष भवति’ इत्यतद्रूपत्वश्रुतेः ।


‘तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि सप्तो भूर्भूरित्येव प्रशस्वित्यभूतिरित्यसुरासेते ह परूभभूवुः’ इति देवासुराणां भावाभावश्रुतेश्च ।


देवानां भूतिरित्येव मनो विष्णौ स्वभावतः । असुराणामभूतित्वेनैतन्नेयमतोऽन्यथा ॥