Jump to content

Anuvyakyanam/C4/S2: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: New redirect
 
Line 1: Line 1:
== द्वितीयः पादः ==
#REDIRECT [[Anuvyakyanam#AV_C04_S02]]
{{Adhyaya
| document_id  = AV
| chapter_num  = 4
| title        = द्वितीयः पादः
}}देवानां च मनुष्याणामेतावत्सममेव हि ॥1॥
 
उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ।कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ॥2॥
 
फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः ।स्रष्टृष्वेव च(तु) सृज्यानां प्रवेशो ब्रह्मणो लये ॥3॥
 
देवानां मार्ग उद्दिष्टो नार्चिरादिर्न चोत्क्रमः ।स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ॥4॥
 
यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् ।लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ॥5॥
 
कथं मार्गो भवेत् तेषां विशतामुत्तरं(विशतामुत्तमं) स्वतः ।जातानां मानुषे लोके देवानां तु(च) कदाचन ॥6॥
 
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ।अन्येषामपि साक्षाततु मुक्तिः प्राप्यापि तं हरिम् ॥सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥7॥
 
‘क्ष्माम्भोऽनलानलिवियन्मनइन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः(भाग.३.३२.९) ॥8॥
 
एवं परेत्य भगवन्तमनुप्रविष्टाः ये योगिनो जितमरुन्मनसो विरागाः ।तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः(भाग.३.३२.१०) ॥9॥
 
‘भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः’ ॥10॥
 
‘प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।आनन्दव्यक्तिमायान्ति पूर्णा लिङ्गस्य भङ्गतः’ ॥11 ॥
 
इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् ।भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥12॥
 
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।उच्यते देहगानां च वृत्तीनामेवमेव तु ॥13॥
 
तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् ।नाना वदन्ति पुंसां हि मतयो गुणभेदतः ॥14॥
 
पृथक् पृथक् प्रजायन्ते तमसैवान्यथामतिः ।रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथामतिः ॥15॥
 
गुणातीता विमुक्तानां मतिः शुद्धिचितिर्यतः ।सम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ॥16॥
 
बहुला चातिविशदा स्पष्टा चैव श्रियो मतिः ।महाशुद्धचितित्वेन ततोऽप्यतिमहाचितिः ॥17॥
 
अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।नित्यमेकप्रकारा च नारायणमतिः परा ॥18॥
 
सूर्यप्रभावदखिलं भासयन्ती निरन्तरा ।निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥19॥
 
विशेषांस्तद्गतांस्त्यक्त्वा प्रायस्तल्लक्षणा श्रियः ।तथैव स्पष्टताभावात् तत्तन्त्रत्वात् तु(च) केवलम् ॥20॥
 
न तादृशी ब्रह्मणस्तु एवं श्रियो यथा ।मुक्तानां तु तदन्येषां समुद्रतरलोपमा ॥21॥
 
अग्निज्वालावदेव स्यात् सृतिगानां दृशो भवः ।एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः ॥22 ॥
 
खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥23॥
 
आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ।ज्ञानात् कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥24॥
 
पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः ।नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥25॥
 
इति तत्केन मानेन मोक्षरूपं प्रदर्श्यते(प्रदृश्यते) ।गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ॥26॥
 
इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ।अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ॥27॥
 
दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ।प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ॥28॥
 
उपाधिः प्रतिरूपं हि साधनं तन्न चापरम् ।अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ॥29॥
 
गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ।आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ॥30॥
 
नापसिद्धन्तता दोषः प्रसङ्गे यदि सा भवेत् ।तदैवातिप्रसङ्गः स्यान्न प्रसङ्गः क्वचिद्भवेत् ॥31॥
 
लोकाकाशगतित्वं चेदुपाधिः साधनानुगः ।सोऽपीत्युक्ते वदेत् किं स तस्माद्वेदोदितो भवेत् ॥32॥
 
मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ।चकार सौगतमतं मोहायैव चकार यत् ॥33॥
 
असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥34॥
 
चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् ।अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥35॥
 
इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः ।ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ॥36॥
 
न किञ्चिन्मुक्त्यवस्थायामात्मात्मीयमथापि वा ।एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥37॥
 
तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः ।दृश्यते संसृतेर्ध्वंसे निर्विशेषैव शून्यता ॥38॥
 
न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ॥39॥
 
निर्विशेषं स्वयम्भातं विर्लेपमजरामरम् ।शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥40॥
 
अशेषदोषरहितं मनोवाचामगोचरम् ।मोक्ष इत्युच्यतेऽसद्भिर्नानासंवृतिवर्जितम् ॥41॥
 
संसृत्यवस्था विज्ञेया(विज्ञेयं) संवृत्यैव विशिष्यते(विशेष्यते) ।स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥42॥
 
केचित् तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा ।अवच्छिन्नं महाशून्यं नाना पुद्गलशब्दितम् ॥43॥
 
यस्य शून्यैकरसता ज्ञानात्मा त्वपगच्छति ।स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥44॥
 
संवृत्त्या यस्त्ववच्छिन्नो(संवृत्याऽन्यस्त्ववच्छिन्नः) दुःखान्यनुभवत्यलम् ।इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥45॥
 
बहुजीवमताश्चेति माया तेषां तु संवृतिः ।निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा(ब्रह्मैव तो भिदा) ॥46॥
 
सच्चित्यसुखादिकं चैव किं कुतोऽखण्डवादिनः ।व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥47॥
 
अनृतादेरपोहं तु स्वयमेव हि मन्यते ।निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥48॥
 
प्रामाण्यादि च वेदस्य फलतः सममेव हि ।अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते ॥49॥
 
अतत्त्वावेदकं यदप्रामाण्यं सतां मतम् ।दीर्घभ्रान्तिकरी चेत् स्यादतत्त्वावेदकप्रमा ॥50॥
 
रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥51॥
 
तलनैल्यादिविज्ञानमाकाशे मानतां व्रजेत् ।छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः ॥52॥
 
निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ।सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥53॥
 
न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ।न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥54॥
 
मायिना शून्यपक्षेऽपि ज्ञानं जाड्यविरोधि च ।धर्माः केऽपि(धर्मास्तेऽपि) न सन्त्येव को विशेषस्ततस्तयोः ॥55॥
 
एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम् ।स्वपक्षसाधनेनैव ‘नाभाव’ इति चोक्तितः ॥56॥
 
आत्माभावे पुमर्थः क इष्टस्यात्माऽऽवधिर्यतः ।यदि नात्मावधिर्मोक्षो मोक्षः स्याद्धटशून्यता ॥57॥
 
कल्पितत्वाद्विशेषाणां मायिनोऽपि समं हि तत् ।दृश्यमाने विशेषेऽपि यदि चेदविशेषता ॥58॥
 
घटाभावोऽविशेषः स्यात् पाश्चात्यश्चेदनागतः ।न मोक्षो विमतो यस्माददेहो घटशून्यता ॥59॥
 
यथेत्युक्तो वदेत् किं स योनुमामात्रमानकः ।न च मायी वदेत् तत्र पूर्वोक्तेनैव वर्त्मना ॥60॥
 
अमानत्वात् श्रुतेस्तस्य न चादेहत्ववादिनी ।श्रुतिः काचिददेहत्वमप्राकृतशरीरताम् ॥61॥
 
मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः ।निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ॥62॥
 
अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः ।दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ॥63॥
 
भेदे सद्द्वैततैव स्यादित्याद्यमितदोषतः ।हेयं मायामतेनैव सह शून्यमतं बुधैः ॥64॥
 
एवं विज्ञानवादोऽपि ज्ञानमात्रविशेषतः ।तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ॥65॥
 
अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ।कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ॥66॥
 
एतयाऽनुमया रोधान्न तादृङ्मोक्षरूपता ।यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् ॥67॥
 
किं वक्ष्यति यदावस्थां वदेत् सा पक्षतां व्रजेत् ।अवस्थात्वादिति ह्येव हेतुः साऽपि कदेति च ॥68॥
 
पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ।न काल इति सामान्यनिषेधे कालगप्रमा ॥69॥
 
निरुणद्धि समश्चायं त्रयाणामुक्तवादिनाम् ।एकजीवत्वपक्षे तु कालाभावादियं प्रमा ॥70॥
 
कुपिता कालमाधाय द्वैतमेवोपपादयेत् ।विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ॥71॥
 
इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् ।कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ॥72॥
 
निराकृतानि तेषां च समत्वात् पक्षदोषयोः ।ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ॥73॥
 
बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः ।मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः ॥74॥
 
प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ।अनुमानानि सर्वाणि प्रतिसाधनयोगतः ॥75॥
 
निषिद्धान्युक्तभङ्ग्यैव श्रुतयश्चास्मदुक्तिगाः ।साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च(तु) निःसुखम् ॥76॥
 
इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ।तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ॥77॥
 
महानन्दं च भोगं च नियमेन वदन्ति हि ।प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ॥78॥
 
अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् ।नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ॥79॥
 
प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ।हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः ॥80॥
 
न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ।अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ॥81॥
 
असुरा नैवमेवं च नैवं चाखलिमानुषाः ।इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥82॥
 
सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ।धर्मानुच्छित्तिमेवास्य यतो वक्त्युत्तरश्रुतिः ॥83॥
 
आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ॥84॥
 
इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ।ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ॥85॥
 
इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् ।धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ॥86॥
 
मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः ।आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ॥87॥
 
घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ।येनेदमखिलं वेद विज्ञातारं स्वमेव च ॥88॥
 
केन तं च विजानीयादित्यनिष्टं हि सर्वथा ।नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ॥89॥
 
तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ।प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि ॥90॥
 
न स्वविज्ञानितायां च विरोधः कश्चनेष्यते ।कर्तृकर्मविरोधश्च नित्यानुभवरोधतः ॥91॥
 
कथमेव पदं गच्छेद्विरोधोऽदृष्टबाधनम् ।‘सोऽश्नुते सर्वकामांश्च’ ‘कामान्नी कामरूप्यथ’ ॥92॥
 
इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि ।अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ॥93॥
 
आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ।‘अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः’ ॥94॥
 
शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् ।सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम् ॥95॥
 
यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् ।तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् ॥96॥
 
प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः ।यतते सुखहानौ हि को मोक्षाय यतेत् पुमान् ॥97॥
 
अल्पाच्च सुखनाशाद्धि बिभेत्यतितरां जनः ।महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥98॥
 
न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् ।नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ॥99॥
 
युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुर्वते ।‘यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ॥100 ॥
 
अपि नैवाजहुर्युद्धरसात् ते नारदादयः’ ।इति स्कान्दवचनस्तस्मात् सुखाभावाय को यतेत् ॥101॥
 
विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्झितः ।प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥102॥
 
सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥103॥
 
‘सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम्’ ।‘निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ॥104॥
 
परमानन्दमाप्नोति यत्र कामोऽवसीयते’(भाग.११.१५.१७) ।‘न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ॥105॥
 
न वेदसदृशं वाक्यं न वर्णोङ्कारसंमितः’ ।‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ॥106॥
 
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ ।इति श्रुतिपुराणानि तत्र तत्र वदन्ति हि ॥107॥
 
अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि ।शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ॥108॥
 
श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥109॥
 
‘न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥110॥
 
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥111॥
 
प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥112॥
 
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रवलिभिर्यथा नभः ।श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः’(भाग.२.९.१०-१३) ॥113॥
 
‘ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ।ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः’(ऋ.सं.१०.७१.११) ॥114॥
 
कामान्नरूपी चरतीतिपूर्व श्रुत्या पुराणोक्तिभिरप्यदोषः ।देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥115॥
 
शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् ।यथेति पूर्वा अनुमाश्च जीव स्वरूपमङ्गादिकमावयन्ति(आपयन्ति) ॥116॥
 
न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित् ।स ब्रह्मणा सहितोऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥117॥
 
यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरूपत्वमवाप्य कामान् ।भुङ्क्ते स देवः(दैवं) पुरुषोत्तमोऽजः आत्मेति चोक्तो गुणपूर्तिहेतोः ॥118॥
 
सेतुः स देवोऽखिलमुक्तिभाजामुतामृतस्येष्ट इहेशिता यत् ।इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान् मुक्तिगतोऽपि भोगान् ॥119॥
 
कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् ।इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥120॥
 
कथं च यः पूर्वमसौ न पश्चाद्भवेत् स एवेत्यपि युक्तिमेति ।यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित् ॥121॥
 
न चैव मुक्तौ न(तु) हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति ।यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥122॥
 
इत्थं मतानि भ्रमजानि यस्मात् मोक्षं समुद्देश्यमपि भ्रमेण ।विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥123॥
 
औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः ।स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥124॥
 
व्यवस्थितिस्त्वविशेषस्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः ॥125॥
 
सुशक्यता शश्वदतिप्रसिद्धिर्विवेक(प्रसिद्धिविवेक)विन्यासविचारसञ्ज्ञाः ।नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥126॥
 
महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् ।विशेषकार्यं कृतिसंस्थितिश्च(कृतसंस्थितिश्च) सुयुक्तयो निर्णयगाः स्वपक्षे ॥127॥
 
व्यामिश्रता कार्यकरत्वमर्थक्लृप्तिः सुदार्ढ्यं परतन्त्रता च ।समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥128॥
 
विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमाविशेषः ।कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥129॥
 
=== नैकस्मिन्नधिकरणम् ===
 
{{VerseBlock
| verse_id      = AV_C04_S02_V01
| document_id  = AV
| chapter_id    = AV_C04
| verse_type    = sutra
| verse_line1  = प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोऽपि युक्त्या ।यस्मात् श्रुतौ पवते चेति भूरिप्रोक्तो यतो भूतमानी च सोऽपि ॥130॥
}}
 
=== पराधिकरणम् ===
 
{{VerseBlock
| verse_id      = AV_C04_S02_V02
| document_id  = AV
| chapter_id    = AV_C04
| verse_type    = sutra
| verse_line1  = तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ॥131॥
}}
 
{{Bhashyam
| verse_id = AV_C04_S02_V02
| id      = AV_C04_S02_V02_author-note
| text    =
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य द्वितीयः पादः ॥
}}
 
 
[[Category:Anuvyakyanam]]

Latest revision as of 06:40, 13 April 2026