Jump to content

Mayavadakhandanam: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: Removed redirect
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 2: Line 2:
__NOTOC__
__NOTOC__

== अध्यायाः ==
== मायावादखण्डनम् ==
* [[Mayavadakhandanam/C1|मायावादखण्डनम्]]
{{Adhyaya
| document_id  = MVK
| chapter_num  = 1
| title        = मायावादखण्डनम्
}}
{{VerseBlock
| verse_id      = MVK_C01_V01
| document_id  = MVK
| chapter_id    = MVK_C01
| verse_type    = shloka
| verse_line1  = नरसिंहोखिलाज्ञानमतध्वान्तदिवाकरः ।
| verse_line2  = जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः ॥
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B01
| text    =
‘विमतम् अनारम्भणीयम् अन्यथाप्रतिपादकत्वात्, यदित्थं तत्तथा, यथा सम्प्रतिपन्नम्’ । न हि ब्रह्मात्मैक्यस्य याथार्थ्यं तत्पक्षे । अद्वैतहानेः स्वरूपातिरेके । अनतिरेके स्वप्रकाशत्वादात्मनः सिद्धसाधनता । निर्विशेषत्वादात्मनो नानधिगतो विशेषः । सिद्धत्वाद् स्वरूपस्य विशेषाभावाच्च नाज्ञानं कस्यचिदावरकम् । ‘अनधिगतार्थगन्तृ प्रमाणम्’ इति च तन्मतम् । अज्ञानासम्भवादेव तन्मतम् अखिलमपाकृतम् । मिथ्यात्वे चैक्यस्यातत्त्वावेदकत्वमागमस्य स्यात् । सत्यता च भेदस्य । एवमेव प्रयोजनमपि निरस्तम् । स्वरूपत्वात् मोक्षस्य पूर्वमेव सिद्धत्वात् । अज्ञानासम्भवेन चतुर्थप्रकाराभावात् पञ्चमप्रकारताऽपि निरस्ता । विषयप्रयोजनाभावादेव अधिकारी च । तदभावादेव सम्बन्धोऽपि ।
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B02
| text    =
‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥(भ.गी.१५.१६)
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B03
| text    =
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥(भ.गी.१५.१७)
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B04
| text    =
यस्माद् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥(भ.गी.१५.१८)
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B05
| text    =
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥(भ.गी.१५.१९)
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B06
| text    =
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ । एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥(भ.गी.१५.२०)
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B07
| text    =
‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥’(कठ.१.३.१०)
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B08
| text    =
‘महतः परमव्यक्तम् अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥’(कठ.१.३.१०)
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B09
| text    =
‘भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति’(ब्र.सू.३.३.५९) । इति विष्णोः पुरुषोत्तमत्वमेव सर्वशास्त्रार्थत्वेन भगवता श्रुत्या चाभिहितम् ।
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B10
| text    =
इति सर्वज्ञमुनिना मायावादतमोऽखलिम् । निरस्तं तत्त्ववादेन सतां संशयनुत्तये ॥
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_B11
| text    =
नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥(म.भा.१.१.३४)
}}
 
{{Bhashyam
| verse_id = MVK_C01
| id      = MVK_C01_author-note
| text    =
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं मायावादखण्डनम् ॥
}}

[[Category:Sanskrit Documents]]
[[Category:Mayavadakhandanam]]
[[Category:Mayavadakhandanam]]

Revision as of 19:34, 10 April 2026

मायावादखण्डनम्

मायावादखण्डनम्

नरसिंहोखिलाज्ञानमतध्वान्तदिवाकरः ।जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः ॥