Jump to content

Mahabharatatatparyanirnaya/C24/S1: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== सर्वशास्त्रतात्पर्यनिर्णयः ==
<div class="gr-page-nav">[[Mahabharatatatparyanirnaya|श्रीमहाभारततात्पर्यनिर्णयः]] · [[Mahabharatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = MBTN
| document_id  = MBTN

Revision as of 19:07, 10 April 2026

सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ ततः सम्मन्त्र्यानुमते(अनुमतेः) कृष्णस्य स्वपुरोहितम् ।द्रुपदः प्रेषयामास धृतराष्ट्राय शान्तये ॥ १॥


स गत्वा धृतराष्ट्रं तं भीष्मद्रोणादिभिर्युतम् ।उवाच न विरोधस्त उत्पाद्यो धर्मसूनुना ।यस्य भीमार्जुनौ यौधौ नेता यस्य जनार्दनः ॥ २॥


श्रुतास्ते भीमनिहता जरासन्धादयोऽखिलाः ।यथा च रुद्रवचनादवध्या राक्षसाधिपाः ॥ ३॥


तीर्थविघ्नकराः सर्वतीर्थान्याच्छाद्य संस्थिताः ।तिस्रः कोट्यो महावीर्या भीमेनैव निषूदिताः (निसूदिताः) ॥ ४॥


भ्रातॄणां ब्राह्मणानां च लोकानां च हितैषिणा ।ततो हि सर्वतीर्थानि गम्यान्यासन् नृणां क्षितौ ॥ ५॥


यथा जटासुरः पापः शर्वाणीवरसंश्रयात् ।अवध्यो विप्ररूपेण वञ्चयन्नेव पाण्डवान् ॥ ६॥


ज्ञात्वाऽपि भीमसेनेन विप्ररूपस्य नो वधः ।योग्य इत्यहतो भीमे मृगयार्थं गते क्‍वचित् ॥ ७॥


यमौ युधिष्ठिरं कृष्णां चाऽदायैव पराद्रवत् ।दृष्टो भीमेन तांस्त्यक्त्वा संसक्तस्तेन सङ्गरे ॥ ८॥


निपात्य भूमौ पादेन सञ्चूर्णितशिरास्तमः ।जगाम किमु ते पुत्राः शक्या हन्तुमिति स्म ह ॥ ९॥


निवातकवचाश्चैव हताः पार्थेन ते श्रुताः ।जानासि च हरेर्वीर्यं यस्येदमखिलं वशे ।सब्रह्मरुद्रशक्राद्यं चेतनाचेतनात्मकम् ॥ १०॥


तस्मादेतैः पालितस्य धर्मजस्य स्वकं वसु ।दीयतामिति तेनोक्तो धृतराष्ट्रो नचाकरोत् ॥ ११॥


ततः सहैव यदुभिः कृष्णं द्वारवतीं गतम् ।युद्धसाहाय्यमिच्छन्तौ धार्तराष्ट्रधनञ्जयौ ॥ १२॥


युगपद् ययतुस्तत्र वेगेनाजयदर्जुनम् ।दुर्योधनः शिरस्थान आसीनोऽभूद्धरेस्तदा ॥ १३॥


दर्पान्नाहं राजराज उपास्ये पादयोरिति ।तयोरागमनं पूर्वं ज्ञात्वैव हि हरिः प्रभुः ॥ १४॥


असुप्तः सुप्तवच्छिश्ये तत्रातिष्ठद् धनञ्जयः ।प्रणम्य पादयोः प्रह्वो भक्त्युद्रेकात् कृताञ्जलिः ॥ १५॥


तमैक्षत् प्रथमं देवो जानन्नपि सुयोधनम् ।स्वागतं फल्गुनेत्युक्ते पूर्वमागामहं त्विति ।आह दुर्योधनस्तं च स्वागतेनाभ्यपूजयत् ॥ १६॥


तयोरागमने हेतुं श्रुत्वा प्राह जनार्दनः ।एकः पूर्वागतोऽत्रान्यः पूर्वदृष्टो मया यतः ॥ १७॥


समं करिष्ये युवयोरेकत्राहं निरायुधः ।अन्यत्र दशलक्षं मे पुत्राः शूराः पदातयः ॥ १८॥


इत्युक्ते फल्गुनः कृष्णं वव्रे तद्भक्तिमान् यतः ।अन्यस्तत्राभक्तिमत्त्वाद् वव्रे गोपान् प्रयुद्ध्यतः ॥ १९॥


पार्थानामेव साहाय्यं करिष्यन्नपि केशवः ।तस्याभक्तिं दर्शयितुं चक्रे समवदीश्वरः ॥ २०॥


ततः पार्थेन सहितः पाण्डवान् केशवो ययौ ।दुर्योधनो ययौ रामं स भयात् केशवस्य च ।न साहाय्यं करोमीति प्राह तत्स्नेहवानपि ॥ २१॥


उपप्लाव्ये सभायां हि तत्पक्षीयं वचो ब्रुवन् ।निराकृतः सात्यकिना समक्षं केशवस्य च ॥ २२॥


ततो दुर्योधनं नायात् स च हार्दिक्यसंयुतः ।जगाम हस्तिनपुरमक्षोहिण्यो दशाभवन् ।एका च धार्तराष्ट्रस्य नानादेश्यैर्नृपैर्युताः ॥ २३॥


सप्त पाण्डुसुतानां च मत्स्यद्रुपदकेकयैः ।धृष्टकेतुजरासन्धसुतकाशीनृपैर्युताः ॥ २४॥


पुरुजित् कुन्तिभोजश्च चेकितानश्च सात्यकिः ।पाण्डवान् सेनया युक्ताः समीयुर्देवपक्षिणः ॥ २५॥


विन्दानुविन्दावावन्त्यौ जयत्सेनोऽन्यकैकयाः(अन्यकेकयाः) ।क्षेमधूर्तिर्दण्डधारः कलिङ्गोऽम्बष्ठ एव च ॥ २६॥


श्रुतायुरच्युतायुश्च बृहद्बलसुदक्षिणौ ।श्रुतायुधः सैन्धवश्च राक्षसोऽलम्बुसस्तथा ॥ २७॥


अलायुधोऽलम्बलश्च दैत्या दुर्योधनं ययुः ।गत्वा दुर्योधनाहूतो भगदत्तोऽपि तं ययौ ॥ २८॥


सपुत्रपौत्रो बाह्लीको भीष्मद्रोणकृपा अपि ।प्रीत्यर्थं धृतराष्ट्रस्य बभूवुस्तत्सुतानुगाः ॥ २९॥


पाण्ड्यश्च वीरसेनाख्यः पाण्डवानेव संश्रितः ।शल्यं च पाण्डवानेव यान्तं ज्ञात्वा सुयोधनः ।सुसभाः कारयामास सर्वभोगसमन्विताः ॥ ३०॥


ता युधिष्ठिरक्लृप्ताः स मत्वा शल्योऽब्रवीदिदम् ।य एताः(य एतत्) कारयामास तदभीष्टं करोम्यहम् ॥ ३१॥


लीनः श्रुत्वा धार्तराष्ट्रः सत्यं कुर्वित्यभाषत ।देहि मे युद्धसाहाय्यमिति सोऽपि यशोऽर्थयन् ।रक्षार्थमात्मवाक्यस्य तथेत्येवाभ्यभाषत ॥ ३२॥


स पाण्डवांस्ततो गत्वा तैरनुज्ञात एव च ।तेजोवधार्थं कर्णस्य धनञ्जयकृतेऽर्थितः ।तथेत्युक्त्वा ययौ धर्मनन्दनं कौरवान् प्रति ॥ ३३॥


सञ्जयं प्रेषयामास धृतराष्ट्रोऽथ शान्तये ।पाण्डवान् प्रत्यधर्मं च युद्धं स प्रत्यपादयत् ॥ ३४॥


हठवादेऽवदद् भीमो यं धर्मं द्रौपदी तथा ।तमेवोक्त्वा धर्मजस्तु चकार च निरुत्तरम् ।कृष्णोऽपि तस्य धर्मस्य प्रामाण्यं प्रत्यपादयत् ॥ ३५॥


ततो निरुत्तरः कृष्णं पाण्डवांश्च प्रणम्य सः ।धृतराष्ट्रं ययौ तं च विनिन्द्य प्रययौ गृहम् ॥ ३६॥


निन्दितः सञ्जयेनासावाहूय विदुरं निशि ।पप्रच्छ सोऽवदद् धर्मं पार्थानां राज्यदापनम् ॥ ३७॥


ऐहिकस्य सुखस्यापि कारणं तदनिन्दितम् ।अन्यथा सर्वपुत्राणां नाशं धर्मातिलङ्घनम् ॥ ३८॥


तत्र भावमकृत्वा स ज्ञानादिच्छन्नघक्षयम् ।विष्णोः स्वरूपं पप्रच्छ सोऽस्मरच्च सनातनम् ॥ ३९॥


स आगत्यावदत् तत्त्वं विष्णोर्मायाविनः शुभा ।न गतिश्चेत्यथ प्रातः सञ्जयः पाण्डवोदितम् ।अवदद् धृतराष्ट्राय सभायां कुरुसन्निधौ ॥ ४०॥


तच्छ्रुत्वा स तु भीतोऽपि पुत्रस्नेहानुगो नृपः ।राज्यं नादात् पाण्डवानां ततो धर्मसुतो नृपः ॥ ४१॥


यदुक्तवान् सञ्जयाय यदि दित्सतिः नः पिता ।राज्यं तदा त्वमागच्छ विदुरो वा न चेन्नच ।तावथानागतौ ज्ञात्वा मन्त्रयामास शौरिणा ॥ ४२॥


सोऽप्याहाहं गमिष्यामि सभायामृषिसन्निधौ ।वक्ष्ये पथ्यानि युक्तानि यदि नासौ ग्रहीष्यति ।वध्यः सर्वस्य लोकस्य स भवेत् सर्वधर्महा ॥ ४३॥


इत्युक्ते वैरमात्मोत्थं लोकमध्ये प्रहापयन् ।लोकसङ्ग्रहणार्थाय भीमसेनोऽब्रवीद् वचः ॥ ४४॥


नास्मन्निमित्तनाशः स्यात् कुलस्यापि वयं कुलम् ।रक्षितुं धार्तराष्ट्रस्य भवेमाधश्चरा इति ॥ ४५॥


इच्छताऽप्यखिलान् हन्तुं धार्तराष्ट्रान् दृढात्मना ।भीमेनोक्तो वासुदेवो लोकसङ्ग्रहणेच्छया ॥ ४६॥


वधं तेषां धर्ममेव लोके ख्यापयितुं हरिः ।आक्षिपन्निव भीमं तं युद्धाय प्रेरयद्(प्रैरयत्,प्रेरयद्) दृढम् ॥ ४७॥


अभिप्रायं केशवस्य जानन् भीमो निजं बलम् ।राज्ञां मध्येऽवदत् तच्च कृष्णोऽभ्यधिकमेव हि ॥ ४८॥


शशंस सत्यैः सद्वाक्यै राज्ञां मध्ये प्रकाशयन् ।वधं कुरूणां सद्धर्मं गुणान् भीमस्य चामितान् ॥ ४९॥


नित्यमेकमनस्कौ तावपि केशवमारुती ।एवं लोकस्य संवादहेतोः संवादमक्रताम् ॥ ५०॥


ततः कृष्णोऽर्जुनं चैव कृपालुं सन्धिकामुकम् ।हेतुमद्भिः शुभैर्वाक्यैरनुनीय जगत्पतिः ।उक्तो मानुषया बुद्ध्या नकुलेन सुनीतिवत्(सुनीतवत्) ॥ ५१॥


शौर्यप्रकाशनायैव युद्धं योजयतां भवान् ।इत्युक्तः सहदेवेन युयुधानेन चाच्युतः ॥ ५२॥


दस्यूनां निग्रहो धर्मः क्षत्रियाणां यतः परः ।अतो न धार्तराष्ट्रैर्नः सन्धिः स्यादिति पार्षती ।जगाद कृष्णं सोऽप्येनां ओमित्युक्त्वा विनिर्ययौ ॥ ५३॥


ससात्यकिः स्यन्दनवर्यसंस्थितः पृथातनूजैरखिलैः स भूमिपैः ।अन्वागतो दूरतरं गिरा तान् संस्थाप्य विप्रप्रवरैः कुरून् ययौ ॥ ५४॥


एकोऽपि विष्णुः स तु(च) भार्गवात्मा व्यासात्मकश्चानुगतो मुनीन्द्रैः (व्यासः सशिष्यस्तदनन्यदृश्यः) ।ययौ तदुक्तेर्हि गुणान् प्रवेत्तुं नान्यो हि शक्तस्तमृते यतः प्रभुम् ॥ ५५॥


स वन्द्यमानोऽखिलराष्ट्रवासिभिः प्रसूनवर्षैरभिवर्षितः सुरैः ।संस्तूयमानः प्रणतोऽब्जजादिभिर्गजाह्वयं प्राप परोऽप्रमेयः ॥ ५६॥


स भीष्ममुख्यैः सरसाभियातः सहैव तै प्रययौ राजमार्गे ।दिदृक्षवस्तं जगदेकसुन्दरं गुणार्णवं प्राययुरत्र सर्वे ॥ ५७॥


सभाजितस्तैः(सम्भावितस्तैः) परमादरेण विवेश गेहं नृपतेरनन्तः ।स भीष्ममुख्यान् पुरतो निधाय वैचित्रवीर्येण समर्चितोऽजः ।रौग्मे(रौक्मे) निषण्णः परमासने प्रभुर्बभौ स्वभासा ककुभोऽवभासयन् ॥ ५८॥


यथोचितं तेषु विधाय केशवो दौर्योधनं प्राप्य गृहं च पूजितः ।पूजां तदीयां गुणवद्द्विडित्यसौ जग्राह नो विदुरं चाऽजगाम ॥ ५९॥


स भीष्मपूर्वैरभियाचितोऽपि जगाम नैषां गृहमादिदेवः ।उपेक्षिता द्रौपदीत्यप्रमेयो जगाम गेहं विदुरस्य शीघ्रम् ॥ ६०॥


स तेन भक्त्याऽभिगतः प्रसन्नः प्रविश्य चान्तर्गृहमीश्वरोऽजः ।भक्त्याऽभिपूर्णेन ससम्भ्रमेण सम्पूजितः सर्वसमर्पणेन ॥ ६१॥


परे दिनेऽसौ धृतराष्ट्रसूनुना समानीतः संसदि कौरवाणाम् ।विवेश दिव्ये मणिकाञ्चनासने सार्द्धं मुनीन्द्रैः परमार्थवेदिभिः ॥ ६२॥


सम्पूजितो भीष्ममुख्यैः समस्तै रराज राजीवसमाननेत्रः ।यथोचितास्तत्र विधाय वार्ता जगाद काले कलिकल्मषापहः ॥ ६३॥


वैचित्रवीर्य स्वकुलस्य वृद्ध्यै प्रदेहि राज्यं तव सत्सुताय ।यशश्च धर्मं परमं प्रसादं मम त्वमाप्नोषि तदैव राजन् ।अतोऽन्यथा यशसो धर्मतश्च हीनः प्रतीपत्वमुपैषि मेऽतः ॥ ६४॥


इतीरितः प्राह ममातिवर्तिनं सुतं स्वयं मे प्रतिबोधयेति ।स वासुदेवेन विबोधितोऽपि पापाभिसन्धिर्धृतराष्ट्रसूनुः ।उत्थाय तस्मादनुजैरमात्यैर्नियन्तुमीशं कुमतिर्व्यधान्मतिम् ॥ ६५॥


येये तदा केशवसंयमाय न्यमन्त्रयंस्ते विबुधप्रतीपाः ।अतो विकर्णप्रमुखा अपि स्म वध्यत्वमायन्नशुभां गतिं च ॥ ६६॥


कर्णः सुराग्र्योऽपि(सुरांशोऽपि) सुयोधनार्थे(सुयोधनार्थं) न्यमन्त्रयद् भावतो नैव दुष्टः ।अतो गतिश्चास्य सुशोभनाऽभूद् येऽत्रानुकूलाः परमस्य ते शुभाः ॥ ६७॥


ऋषिभिर्जामदग्न्येन व्यासेनाप्यमितौजसा ।वासुदेवात्मकेनैव चैव त्रिरूपेणैव विष्णुना ॥ ६८॥


मातापितृभ्यां भीष्माद्यैरनुशिष्टोऽपि दुर्मतिः ।सुयोधनो मन्त्रयते मुकुन्दस्यानुबन्धनम् ॥ ६९॥


सात्यकिः कृतवर्मा च तच्छुश्रुवतुरञ्जसा ।संस्थाप्य कृतवर्माणं रहः सात्यकिरत्र च ।अभ्येत्य केशवं प्राह दुर्योधनविनिश्चयम् ॥ ७०॥


जानन्नप्यखिलं कृष्णस्तच्छ्रुत्वा सात्यकेर्मुखात् ।वैचित्रवीर्यमवदत् पश्य मामिति(मामपि) सर्वगम् ॥ ७१॥


अथ तेनाऽहुते पुत्रे सामात्ये पुरुषोत्तमः ।(स्वं रूपं) स्वरूपं दर्शयामास सर्वगं पूर्णसद्गुणम् ॥ ७२॥


तत् कालसूर्यामितदीप्ति सर्वजगद्भरं शाश्वतमप्रमेयम् ।दृष्ट्वैव चक्षूंषि सुयोधनाद्या न्यमीलयन् दीधितिवारितानि ॥ ७३॥


पिधाय रूपं पुनरेव तद्धरिर्वैचित्रवीर्येण समर्थितः पुनः ।कृत्वाऽन्धमेव प्रययौ सुयोधनं सहानुगं(सहानुजं) पापतमं प्रकाश्य ॥ ७४॥


अनन्तशक्तिः पुरुषोत्तमोऽसौ शक्तोऽपि दुर्योधनचित्तनिग्रहे ।नैव व्यधादेनमथोक्तकारिणं निपातयन्नन्धतमस्यनन्तः ॥ ७५॥


पुनश्च कुन्तीगृहमेत्य कृष्णस्तयोद्योगं धर्मसुतस्य शिष्टम् ।श्रुत्वा ययौ सूर्यजमात्मयाने निधाय तस्यावददात्मजन्म ॥ ७६॥


आयाहि पार्थानिति (पाण्डूनिति) तद्वचः स नैवाकरोन्मानितो धार्तराष्ट्रैः ।संस्थाप्य तं भगवान् द्रौणये च रहोऽवदन्मित्रभावं पृथाजैः ॥ ७७॥


यावत् पितुर्मरणं सोऽपि मैत्रीं वव्रे पार्थैस्तं च विसृज्य कृष्णः ।ययौ कुरून् पूर्वमेवोद्विसृज्य पृथासुतानां स सकाशमीशः ॥ ७८॥


सम्प्रार्थितः पृथया चैव कर्णः पार्थैर्योगं याहि सूनुर्ममासि ।तेनाप्युक्ता वासविना विनाऽहं हन्यां सुतांस्ते न कथञ्चनेति ॥ ७९॥


ततो ययुः कौरवाः पाण्डवाश्च कुरुक्षेत्रं योद्धुकामाः सकृष्णाः ।चक्रुश्च ते शिबिराण्यत्र सर्वे शुभे देशे पाण्डवाः कृष्णबुद्ध्या ॥ ८०॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये युद्धोद्योगो नाम चतुर्विंशोऽध्यायः}