Mahabharatatatparyanirnaya/C23/S1: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== सर्वशास्त्रतात्पर्यनिर्णयः == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = MBTN | | document_id = MBTN | ||
Revision as of 19:07, 10 April 2026
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ नारायणानुग्रहतो यथावन्निस्तीर्य तान् द्वादशाब्दान् वने ते ।विसृज्य च ब्राह्मणादीन् सधौम्यानज्ञातवासाय ततो मनो दधुः ॥ १॥
गत्वा विराटस्य पुरीं निधाय हेतीः शम्यां छन्नरूपा बभूवुः ।यतिः सूदः षण्ढवेषोऽथ सूतवेषो गोपो गन्धकर्त्री च जाताः ॥ २॥
सर्वे विराटं ययुरत्र देववत् सम्भावितास्तेन शुभोरुलक्षणाः ।युधिष्ठिरस्यैव(युधिष्ठिरस्येव) शुश्रूषणं ते चक्रुर्हृदा वासुदेवस्य नान्यत् ॥ ३॥
परपाको गृहस्थस्य क्षत्रियस्य विशेषतः ।न योग्य इति सूदस्य बभ्रे वेषं वृकोदरः ॥ ४॥
वैदिकव्यवहारेषु ज्ञानाधिक्यप्रसिद्धितः ।जानीयुर्भीम इत्येव सूदवेषस्ततोऽभवत् (शूद्रवेषस्ततोऽभवत्) ॥ ५॥
स्वीयं वेदविदां सर्वं देवेशानां च किं पुनः ।अतस्तेऽन्याश्रयं नैव चक्रुः स्वबलसंश्रयात् ॥ ६॥
शापादेवार्जुनः षण्ढवेषोऽभून्नकुलस्तथा ।क्षत्रियानन्तरत्वात्तु सूतजातेस्तथाऽभवत् ॥ ७॥
सूतस्यानन्तरत्वात्तु वैश्यजातेस्तथाऽभवत् ।सहदेवो वैश्यजातिर्गोपालस्तेषु चोत्तमः ॥ ८॥
ततो गोपालतामाप यतिः पूज्योऽखिलैर्यतःयतिरासीद् धर्मजोऽतः सोऽभ्यासार्थं सदैव च ॥ ९॥
अक्षासक्तोऽभवत् पश्चाद् दर्शयिष्यन् स्वशिष्टताम्भीमसेनसधर्मार्थं शूद्रा सैरन्ध्रिकाऽभवत् ।द्रौपदी भर्तृसाधर्म्यं स्त्रीणां धर्मो यतः सदा ॥ १०॥
अथाऽजगाम मल्लकः समस्तभूमिमण्डले ।वरेण योऽजितो जयी शिवस्य सञ्जगर्ज च ॥ ११॥
तमीक्ष्य सर्वमल्लका विराटराजसंश्रयाः ।प्रदुद्रुवुर्भयार्दितास्तदाऽवदद् युधिष्ठिरः ॥ १२॥
य एष सूद आशु तं निहत्य मल्लमोजसा ।यशस्तवाभिवर्द्धयेत् समाह्वयाद्य तं नृप ॥ १३॥
इतीरिते समाहुतो जगाद मारुतिर्वचः ।प्रसादतो हरेरहं निषूदयेऽद्य (निसूदयेऽद्य) मल्लकम् ॥ १४॥
समस्तदेववृन्दतो महान् य एव केशवः ।(समस्तदेवनामधा) समस्तदेवनामवांस्तदीयभक्तितो बलम् ॥ १५॥
य एव देवनामधा इति श्रुतिर्जगाद हि ।महांश्च देव एष तत् स मे जयं विधास्यति ॥ १६॥
युधिष्ठिराभिधश्च यो युधिष्ठिरे स्थितः सदा ।त्वयि स्थितस्त्वमित्यसौ सदाऽभिधीयते हरिः ॥ १७॥
इति ब्रुवाणो मल्लं तमभियातो वृकोदरः ।अनयन्मृत्युलोकाय बलाढ्यैरपि दुर्जयम् ॥ १८॥
एवं निवसतां तत्र पाण्डवानां महात्मनाम् ।संवत्सरे द्विमासोने विजित्य दिश आगतः ।कीचको मत्स्यनृपतेः स्यालो बलवतां वरः ॥ १९॥
स द्रौपदीं वीक्ष्य मनोभवार्तः(मनोमदार्तः) सम्प्रार्थयामास तया निरस्तः ।मासे गते भगिनीं स्वां सुदेष्णां सम्प्रार्थयामास तदर्थमेव ॥ २०॥
तया निषिद्धोऽपि पुनःपुनस्तां यदा ययाचेऽथ सा चाह (ययाचेऽथच साऽऽह) कृष्णाम् ।समानयाऽश्वेव सुरां मदर्थमितीरिता नेति भीताऽवदत् सा ॥ २१॥
बलात् तया प्रेषिता तद्गृहाय यदाऽगमत् तेन हस्ते गृहीता ।विधूय तं प्राद्रवत् सा सभायै स्मृत्वाऽऽदित्यस्थं वासुदेवं परेशम् ॥ २२॥
अनुद्रुत्यैतां पातयित्वा पदा स सन्ताडयामास तदा रविस्थितः ।नारायणो हेतिनामैव रक्षो न्ययोजयत् तददृश्यं समागात् ॥ २३॥
वायुस्तमाविश्य(वायुस्तदाविश्य) तु कीचकं तं न्यपातयत् तां समीक्ष्यैव भीमः ।चुकोप वृक्षं च समीक्षमाणं तं वारयामास युधिष्ठिरोऽग्रजः ॥ २४॥
कृष्णा रात्रौ भीमसकाशमेत्य हन्तुं पापं कीचकं प्रैरयत् तम् ।भीमस्य बुद्ध्या निशि सा कीचकं च जगाद गन्तुं शून्यगृहं स चागात् ॥ २५॥
तत्रैनमासाद्य तु भीमसेनो विजित्य तं बाहुयुद्धे निहत्य(निपात्य) ।शिरो गुदे पाणिपादौ च तस्य प्रवेशयामास विमृद्य वीरः ॥ २६॥
अवध्यं तं निहतं वीक्ष्य तस्य पञ्चोत्तरं शतमेवानुजानाम् ।सर्वं वराच्छङ्करस्य ह्यवध्यं सहैव कृष्णां तेन दग्धुं बबन्ध ॥ २७॥
सा नीयमाना कीचकैः संरुराव श्रुत्वैव तं भीमसेनो महान्तम् ।उद्धृत्य वृक्षं तेन जघान सर्वानादाय कृष्णां पुनरागात् पुरं स्वम्(गृहं स्वम्, पुरञ्च) ॥ २८॥
एवं यत्नात् तपसा तैरवाप्तो वरः शिवादजयत्वं(शिवादक्षयत्वं) रणेषु ।अवध्यता चैव षडुत्तरास्ते शतं हता भीमसेनेन सङ्ख्ये ॥ २९॥
गन्धर्व इत्येव निहत्य सर्वान् मुमोद भीमो द्रौपदी चाथ कृष्णाम् ।याहीत्यूचे तां सुदेष्णा भयेन त्रयोदशाहं पालयेत्याह तां सा ॥ ३०॥
अस्त्वित्येनामाह भयात् सुदेष्णा तथाऽवसन् पूर्णमब्दं च तेऽत्रतदा(ततः) पार्थान् प्रविचिन्त्याखिलायां(प्रविचित्य) पृथ्व्यां छन्नान् धार्तराष्ट्रस्य दूताः ।अविज्ञाय प्रययुर्धार्तराष्ट्रमूचुर्हतं कीचकं योषिदर्थे ॥ ३१॥
तेनावदद् द्रौपदीकारणेन दुर्योधनो निहतं कीचकं तम् ।भीमेनागुस्तत्र दुर्योधनाद्या भीष्मादिभिः सह कर्णेन चैव ॥ ३२॥
अग्रे ययौ तत्र योद्धुं सुशर्मा स गा विराटस्य समाजहार ।श्रुत्वा विराटोऽनुययौ ससेनस्तं पाण्डवाश्चानुययुर्विनाऽर्जुनम् ॥ ३३॥
विजित्य सङ्ख्ये जगृहे विराटं तदा सुशर्मा तमयाद् वृकोदरः ।स तस्य सेनां विनिहत्य(विनिपात्य) मात्स्यं विमोच्य जग्राह सुशर्मराजम् ।युधिष्ठिरो मोचयामास तं च ततो रात्रौ न्यवसन् बाह्यतस्ते ॥ ३४॥
ततोऽपरदिने सर्वे भीष्मद्रोणपुरस्सराः ।रहितं कीचकैर्मात्स्यं शक्यं मत्वाऽभिनिर्ययुः ॥ ३५॥
कीचकस्य हिडिम्बस्य बककिर्मीरयोरपि ।जरासन्धस्य नृपतेः कंसादीनां च सर्वशः ॥ ३६॥
न बाधनाय भीष्माद्या अपि शेकुः कथञ्चन ।तस्मात् ते कीचकं शान्तं श्रुत्वा मात्स्यं ययुर्युधे ॥ ३७॥
यतिष्ये रक्षितुं भीमाद् धार्तराष्ट्रानिति स्वकाम् ।सत्यां कर्तुं प्रतिज्ञां तु ययौ द्रोणः सपुत्रकः ॥ ३८॥
यदि युद्धाय निर्यान्ति ज्ञाताः स्युः पाण्डवास्तदा ।न चेद् विराटमनतं नमयिष्यामहे वयम् ।इति मत्वा विराटस्य जगृहुर्गाः समन्ततः ॥ ३९॥
तदोत्तरः सारथित्वे प्रकल्प्य पार्थं ययौ तान् निशाम्यैव भीतः ।ततोऽर्जुनः सारथिं तं विधाय कृच्छ्रेण संस्थाप्य च तं(तान्) ययौ कुरून् ॥ ४०॥
आदाय गाण्डीवमथ ध्वजं च हनूमदङ्कं सदरोऽग्रतो गाः ।निवर्त्य युद्धाय ययौ कुरूंस्तान् जिग्ये सर्वान् द्वैरथेनैव सक्तान् ॥ ४१॥
एकीभूतान् पुनरेवानुयातान् सम्मोहनास्त्रेण विमोहयित्वा ।जग्राह तेषामुत्तरीयाण्यृते तु भीष्मस्य वेदास्त्रघातं स एव ॥ ४२॥
विधाय भीष्मं विरथं जगाम तदा श्रुत्वा मत्स्यपतिर्जितान् कुरून् ।मुमोद पुत्रेण जिता इति स्म तदाऽऽह षण्ढेन जितान् युधिष्ठिरः ॥ ४३॥
तदा क्रुद्धः प्राहरत् तं विराटः सोऽक्षेण तद् भीमधनञ्जयाभ्याम् ।श्रुतं तदा कुपितौ तौ निशाम्य न्यवारयत् तावपि धर्मसूनुः ॥ ४४॥
निजस्वरूपेण समास्थितान् नो यदि स्म नासौ प्रणिपातपूर्वकम्(पूर्वम्) ।क्षमापयेद् वध्य इत्यात्मरूपं समास्थितास्तस्थुरथापरे(अथा परे) दिने ॥ ४५॥
तदा विराटासनमास्थितं नृपं युधिष्ठिरं वीक्ष्य विराट आह ।किमेतदित्यूचिवानुत्तरोऽस्मै तान् पाण्डवान् गोग्रहणे च वृत्तम् ॥ ४६॥
ततो विराटो भयकम्पिताङ्गः प्रणम्य पार्थाञ्छरणं जगाम ।ददौ च कन्यामुत्तरां फल्गुनाय पुत्रार्थमेव प्रतिजग्राह सोऽपि ॥ ४७॥
एवं विराटं मोचयित्वैव गाश्च तमस्यन्धे कीचकान् पातयित्वा ।प्राप्तो धर्मः सुमहान् वायुजेन तस्यानु पार्थेन च गोविमोक्षणात् ॥ ४८॥
अयातयन् केशवायाथ दूतान् सहाभिमन्युः सोऽपि रामेण सार्द्धम् ।आगादनन्तानन्दचिद् वासुदेवो विवाहयामासुरथाभिमन्युम् ॥ ४९॥
आसीन्महानुत्सवस्तत्र तेषां दाशार्हवीरैः सह पाण्डवानाम् ।स पाञ्चालानां वासुदेवेन सार्द्धमज्ञातवासं समतीत्य मोदताम् ॥ ५०॥
दुर्योधनाद्याः सूतपुत्रेण सार्द्धं ससौबलेया युधि पार्थपीडिताः ।भीष्मादिभिः सार्द्धमुपेत्य नागपुरं मन्त्रं मन्त्रयामासुरत्र ॥ ५१॥
अज्ञातवासे फल्गुनो नोऽद्य दृष्टस्तस्मात् पुनर्यान्तु पार्था वनाय ।इति ब्रुवाणानाह भीष्मोऽभ्यतीतमज्ञातवासं द्रोण आहैवमेव ॥ ५२॥
तयोर्वाक्यं ते त्वनादृत्य पापा वनं पार्थाः पुनरेव प्रयान्तु ।इति दूतं प्रेषयामासुरत्र जानन्ति विप्रा इति धर्मजोऽवदत् ॥ ५३॥
सौरमासानुसारेण धार्तराष्ट्रा अपूर्णताम् ।आहुश्चान्द्रेण मासेन पूर्णः कालोऽखिलोऽप्यसौ ॥ ५४॥
दिनानामधिपः सूर्यः पक्षमासाधिपः शशी ।तस्मात् सौम्याब्दमेवात्र मुख्यमाहुर्मनीषिणः ।सौम्यं कालं ततो यज्ञे गृह्णन्ति नतु सूर्यजम् ॥ ५५॥
तदेतदविचार्यैव लोभाच्च धृतराष्ट्रजैः ।राज्यं न दत्तं पार्थेभ्यः पार्थाः कालस्य पूर्णताम् ।ख्यापयन्तो विप्रवरैरुपप्लाव्यमुपाययुः ॥ ५६॥
सुवासुदेवा अखिलैश्च यादवैः पाञ्चालमत्स्यैश्च युताः सभार्याः ।उपप्लाव्ये ते कतिचिद् दिनानि वासं चक्रुः कृष्णसंशिक्षितार्थाः ॥ ५७॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये अज्ञातवाससमाप्तिर्नाम त्रयोविंशोऽध्यायः