Mahabharatatatparyanirnaya/C18/S1: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== सर्वशास्त्रतात्पर्यनिर्णयः == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = MBTN | | document_id = MBTN | ||
Revision as of 19:07, 10 April 2026
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ यदा रामादवाप्तानि दिव्यास्त्राणि प्रपेदिरे ।द्रोणात् कुमारास्तेष्वासीत् सर्वेष्वप्यधिकोऽर्जुनः ॥ १॥
निजप्रतिभया जानन् सर्वास्त्राणि ततोऽधिकम् ।नास्त्रयुद्धं क्वचिद् भीमो मन्यते धर्ममञ्जसा ॥ २॥
न हि भागवतो धर्मो देवताभ्युपयाचनम् ।ज्ञानभक्ती हरेस्तृप्तिं विना विष्णोरपि क्वचित् ॥ ३॥
नाऽकाङ्क्ष्यं किमुतान्येभ्यो ह्यस्त्रं काम्यफलप्रदम् ।शुद्धे भागवते धर्मे निरतो यद् वृकोदरः ॥ ४॥
न काम्यकर्मकृत् तस्मान्नायाचद् देवमानुषान्(दैवमानुषान्) ।न हरिश्चार्थितस्तेन कदाचित् कामलिप्सया(काम्यलिप्सया) ॥ ५॥
भिक्षामटंश्च हुङ्कारात् करवद् वैश्यतोऽग्रहीत् ।नान्यदेवा नतास्तेन वासुदेवान्न पूजिताः ॥ ६॥
न प्रतीपं हरेः क्वापि स करोति कथञ्चन ।अनुपस्करिणो युद्धे नाभियाति ह्युपस्करी ।नापयाति युधः क्वापि न क्वचिच्छद्म चाऽचरेत् ॥ ७॥
(न चौर्ध्वदैहिकानुज्ञां) नैवोर्ध्वदैहिकानुज्ञामवैष्णवकृतेऽकरोत् ।न करोति स्वयं नैषां प्रियमप्याचरेत् क्वचित् ॥ ८॥
सख्यं नावैष्णवैश्चक्रे प्रतीपं वैष्णवेन च(तु) ।परोक्षेऽपि हरेर्निन्दाकृतो जिह्वां छिनत्ति च ॥ ९॥
प्रतीपकारिणो हन्ति विष्णोर्वैतानजीघनत्(विष्णोर्वै तान्) ।न संशयं कदाऽप्येष धर्मे ज्ञानेऽपि वाऽकरोत् ॥ १०॥
विद्योपजीवनं नैष चकाराऽपद्यपि क्वचित् ।अतो न धर्मनहुषौ प्रत्युवाच कथञ्चन ॥ ११॥
आज्ञयैव हरेर्द्रौणेरस्त्राण्यस्त्रैरशामयत् ।अदृश्योऽलम्बुसो भग्नो नान्यत्र तु कथञ्चन ॥ १२॥
नह्यस्त्रयुद्धे सदृशो द्रौणेरस्त्यर्जुनादृते ।सर्ववित्त्वं ततो भीमे प्रदर्शयितुमीश्वरः ।अदादाज्ञामस्त्रयुद्धे तथैवालम्बुसं प्रति ॥ १३॥
प्रत्यक्षीभूतदेवेषु बन्धुज्येष्ठेषु वा नतिम् ।मर्यादास्थितयेऽशासद् भगवान् पुरुषोत्तमः ॥ १४॥
तत्रापि विष्णुमेवासौ नमेन्नान्यं कथञ्चन ।आज्ञयैवास्त्रदेवांश्च प्रेरयामास(प्रेषयामास) नार्थनात् ॥ १५॥
अन्वेनमेव तद्धर्मे कृष्णैका संस्थिता सदा ।धृतराष्ट्रादपि वरं ततो नाऽत्मार्थमग्रहीत् ॥ १६॥
नाशपद् धार्तराष्ट्रांश्च महापद्यपि सा ततः ।न वाचा मनसा वाऽपि प्रतीपं केशवेऽचरत् ॥ १७॥
अन्ये भागवतत्वेऽपि छिन्नधर्माः क्वचित्क्वचित् ।स्यमन्तकार्थे रामोऽपि कृष्णस्य विमनाऽभवत् ॥ १८॥
अवमेनेऽर्जुनः कृष्णं विप्रस्य शिशुरक्षणे ।प्रद्युम्न उद्धवः साम्बोऽनिरुद्धाद्याश्च सर्वशः ॥ १९॥
हरेरिष्टं सुभद्रायाः फल्गुने दानमञ्जसा ।ज्ञात्वाऽपि रुरुधुः सम्यक् सात्यकिः कृष्णसम्मितम् ॥ २०॥
कदाचिन्मन्यते पार्थं धर्मजोऽपि नरं हरिम् ।मत्वाऽबिभेज्जरासन्धवधे कृष्णमुदीरितुम् ॥ २१॥
बन्धनं शङ्कमानो हि कृष्णस्य विदुरोऽपितु ।कौरवेयसभामध्ये नावतारमरोचयत् ॥ २२॥
नकुलः करदानाय प्रेषयामास केशवे ।अवमेने हरेर्बुद्धिं सहदेवः कुलक्षयात् ॥ २३॥
देवकीवसुदेवाद्या मेनिरे मानुषं हरिम् ।भीष्मस्तु भार्गवं राममवमेने युयोध च ॥ २४॥
द्रोणकर्णद्रौणिकृपाः कृष्णाभावे मनो दधुः ।देवाः शिवाद्या अपितु विरोधं चक्रिरे क्वचित् ॥ २५॥
ऋषिमानुषगन्धर्वा वक्तव्याः किमतः परम् (परे)।जन्मजन्मान्तरेऽज्ञानादवजानन्ति यत् सदा ॥ २६॥
तस्मादेको वायुरेव धर्मे भागवते स्थिरः ।लक्ष्मीः सरस्वती चेति परशुक्लत्रयं श्रुतम् (स्मृतम्) ॥ २७॥
सर्वमेतच्च कथितं तत्रतत्रामितात्मना ।व्यासेनैव पुराणेषु भारते च स्वसंविदा ॥ २८॥
यदा ते सर्वशस्त्रास्त्रवेदिनो राजपुत्रकाः ।बभूवू रङ्गमध्ये तान् भारद्वाजोऽप्यदर्शयत् (व्यदर्शयत्)॥ २९॥
रक्तचन्दनसत्पुष्पवस्त्रशस्त्रगुडोदनैः ।सम्पूज्य भार्गवं राममनुजज्ञे कुमारकान् ॥ ३०॥
ते भीष्मद्रोणविदुरगान्धारीधृतराष्ट्रकान् ।सराजमण्डलान् नत्वा कुन्तीं चादर्शयञ्छ्रमम् ॥ ३१॥
सर्वैः प्रदर्शितेऽस्त्रे तु द्रोणादात्तमहास्त्रवित् ।द्रौणिरस्त्राण्यमेयानि दर्शयामास चाधिकम् ॥ ३२॥
ततोऽप्यतितरां पार्थो दिव्यास्त्राणि व्यदर्शयत् (दिव्यास्त्राण्यप्यदर्शयत्)।अविध्यन्माशके पादे पक्षिणः पक्ष्म एव च(पक्ष्ममेव च) ।एवमादीनि चित्राणि बहून्येष व्यदर्शयत् ॥ ३३॥
तदैव कर्ण आगत्य रामोपात्तास्त्रसम्पदम् ।दर्शयन्नधिकः पार्थादभूद् राजन्यसंसदि ॥ ३४॥
कुन्ती निजं सुतं(निजसुतं) ज्ञात्वा लज्जया नावदच्च तम् ।पार्थोऽसहंस्तं युद्धायैवाऽह्वयामास संसदि ॥ ३५॥
रणायाक्षत्रियाह्वानं जानन् धर्मप्रतीपकम् ।भीमो निवार्य बीभत्सुं कर्णायादात् प्रतोदकम् ॥ ३६॥
अक्षत्रसंस्कारयुतो जातोऽपि क्षत्रिये कुले ।न क्षत्रियो हि भवति यथा व्रात्यो द्विजोत्तमः ॥ ३७॥
निरुत्तरे कृते कर्णे भीमेनैव सुयोधनः ।अभ्यषेचयदङ्गेषु राजानं पित्रनुज्ञया ।धृतराष्ट्रः पक्षपातात् पुत्रस्यानुवशोऽभवत् ॥ ३८॥
अभिषिक्ते तदा कर्णे प्रायादधिरथः पिता ।सर्वराजसदोमध्ये(सभामध्ये) ववन्दे तं वृषा तदा ।तुतुषुः कर्मणा तस्य सन्तः सर्वे समागताः ॥ ३९॥
भीमदुर्योधनौ तत्र शिक्षासन्दर्शनच्छलात् ।समादाय गदे गुर्वी संरम्भादभ्युदीयतुः ॥ ४०॥
देवासुरमनुष्यादि जगदेतच्चराचरम् ।सर्वं तदा द्विधा भूतं भीमदुर्योधनाश्रयात् ॥ ४१॥
देवा देवानुकूलाश्च भीममेव समाश्रिताः ।असुरा आसुराश्चैव दुर्योधनसमाश्रयाः ।द्विधाभूता मानुषाश्च(मनुष्याश्च) देवासुरविभेदतः ॥ ४२॥
जय भीम महाबाहो जय दुर्योधनेति च ।हुङ्कारांश्चैव फट्कारांश्चक्रुर्देवासुरा अपि ॥ ४३॥
दृष्ट्वा जगत् सुसंरब्धं द्रोणोऽथ द्विजसत्तमः ।नेदं जगद् विनश्येत भीमदुर्योधनाश्रयात् ।इति पुत्रेण तौ वीरौ न्यवारयदरिन्दमौ ॥ ४४॥
स्वकीयायां स्वकीयायां योग्यतायां नतु क्वचित् ।युवयोः सम इत्युक्त्वा द्रौणिरेतौ न्यवारयत् ।द्रोणाज्ञया वारितौ तौ ययतुः स्वं स्वमालयम् ॥ ४५॥
सुरासुरान् सुसंरब्धान् कालेन द्रक्ष्यथेति च ।ब्रह्मा निवार्य ससुरो ययौ सेशः स्वमालयम् ॥ ४६॥
कर्णं हस्ते प्रगृह्यैव धार्तराष्ट्रो गृहं ययौ ।पार्थं हस्ते प्रगृह्यैव भीमः प्रायात् स्वमालयम् ॥ ४७॥
पार्थेन कर्णो हन्तव्य इत्यासीद् भीमनिश्चयः ।वैपरीत्येन तस्याऽसीद् दुर्योधनविनिश्चयः ।तदर्थं नीतिमतुलां चक्रतुस्तावुभावपि ॥ ४८॥
तथोत्कर्षे फल्गुनस्य यशसो निजयस्य च ।उद्योग आसीद् भीमस्य धार्तराष्ट्रस्य चान्यथा ॥ ४९॥
भीमार्थं केशवोऽन्ये च देवाः फल्गुनपक्षिणः ।आसन् यथैव रामाद्याः सङ्ग्रहेण हनूमतः ।सुराः सुग्रीवपक्षस्थाः पूर्वमासंस्तथैव हि ॥ ५०॥
तदर्थमेव भीमस्य ह्यनुजत्वं सुरेश्वरः ।आप पूर्वानुतापेन तेन भीमस्तथाऽकरोत् ॥ ५१॥
दुर्योधनार्थं कर्णस्य पक्षिणो दैत्यदानवाः ।आसुः सर्वे ग्लहावेतावासतुः कर्णफल्गुनौ ॥ ५२॥
अथ पृष्टो दक्षिणार्थं(दक्षिणायां) द्रोण आह कुमारकान् ।बद्ध्वा पाञ्चालराजानं दत्तेत्यूचुस्तथेति ते ॥ ५३॥
ते धार्तराष्ट्राः कर्णेन सहिताः पाण्डवा अपि ।ययुर्द्रोणेन सहिताः पाञ्चालनगरं प्रति ॥ ५४॥
अथाऽह भीमः सामर्थ्यविवेकाभीप्सया गुरुम् ।गर्व एष कुमाराणामनिवार्यो द्विजोत्तम ।गच्छन्त्वेतेऽग्रतो नैषां वशगो द्रुपदो भवेत् ॥ ५५॥
निवृत्तेष्वकृतार्थेषु वयं बद्ध्वा रिपुं तव ।आनयाम न सन्देह इति तस्थौ ससोदरः ॥ ५६॥
सद्रोणकेषु पार्थेषु स्थितेष्वन्ये ससूतजाः ।ययुरात्तप्रहरणाः पाञ्चालान्तःपुरं द्रुतम् ॥ ५७॥
कुमारान् ग्रहणेप्सूंस्तानुपयातानुदीक्ष्य सः ।अक्षोहिणीत्रितययुङ् निस्सृतो द्रुपदो गृहात् ॥ ५८॥
ते शरैरभिवर्षन्तः परिवार्य कुमारकान् ।अर्दयामासुरुद्द्वृत्तान् स्त्रियो बालाश्च सर्वशः ॥ ५९॥
हर्म्यसंस्थाः स्त्रियो बाला ग्रावभिर्मुसलैरपि ।अत्यर्थमर्दयामासुः कुमारान् सुसुखेधितान् ॥ ६०॥
द्रुपदस्य वरो ह्यस्ति सूर्यदत्तस्तपोबलात् ।आ योजनात् पुरमुप न त्वा जेष्यति कश्चन ॥ ६१॥
इति तेन वरेणैव सुखसंवर्द्धिताश्च ते ।भग्नाः कुमारा आवृत्य दुद्रुवुर्यत्र पाण्डवाः ॥ ६२॥
स्त्रीबालवृद्धसहितैः पाञ्चालैरप्यनुद्रुताः ।भीमार्जुनेति वाशन्तो ययुर्यत्र स्म पाण्डवाः ॥ ६३॥
तान् प्रभग्नान् समालोक्य भीमः प्रहरतां वरः ।आरुरोह रथं वीरः पुर आत्तशरासनः ॥ ६४॥
तमन्वयादिन्द्रसूनुः यमौ तस्यैव चक्रयोः ।युधिष्ठिरस्तु द्रोणेन सह तस्थौ निरीक्षकः ॥ ६५॥
आयान्तमग्रतो दृष्ट्वा भीममात्तशरासनम् ।दुद्रुवुः सर्वपाञ्चालाः विविशुः पुरमेव च ॥ ६६॥
द्रुपदस्त्वभ्ययाद् भीमं सपुत्रः सारसेनया ।चक्ररक्षौ तु तस्याऽस्तां युधामन्यूत्तमौजसौ ॥ ६७॥
धात्रर्यमावेशयुतौ विश्वावसुपरावसू ।सुतौ तस्य महावीर्यौ सत्यजित् पृष्ठतोऽभवत् ।स मित्रांशयुतो वीरश्चित्रसेनो महारथः ॥ ६८॥
अग्रतस्तु शिखण्ड्यागाद् रथोदारः शरान् क्षिपन् ।जनमेजयस्तमन्वेव पूर्वं चित्ररथो हि यः ।त्वष्टुरावेशसंयुक्तः स शरानभ्यवर्षत ॥ ६९॥
तावुभौ विरथौ कृत्वा विचापौ च विवर्मकौ ।भीमो जघान तां सेनां सवाजिरथकुञ्जराम् ॥ ७०॥
अथैनं शरवर्षेण युधामन्यूत्तमौजसौ ।अभीयतुस्तौ विरथौ चक्रे भीमो निरायुधौ ॥ ७१॥
हस्तप्राप्तं च पाञ्चालं नाग्रहीत् स वृकोदरः ।गुर्वर्थामर्जुनस्योर्वीं प्रतिज्ञां कर्तुमप्यृताम् ।मानभङ्गाय कर्णस्य पार्थमेव न्ययोजयत् ॥ ७२॥
स शरान् क्षिपतस्तस्य पाञ्चालस्यार्जुनो द्रुतम् ।पुप्लुवे स्यन्दने चापं छित्वा तं चाग्रहीत् क्षणात् ।सिंहो मृगमिवाऽदाय स्वरथं नाभिपेदिवान् (स्वरथे चाभिपेतिवान्) ॥ ७३॥
अथ प्रकुपितं सैन्यं फल्गुनं पर्यवारयत् ।जघान भीमस्तरसा तत् सैन्यं शरवृष्टिभिः ॥ ७४॥
अथ सत्यजिदभ्यागात् पार्थं मुञ्चञ्छरान् बहून् ।तमर्जुनः क्षणेनैव चक्रे विरथकार्मुकम् ॥ ७५॥
घ्नन्तं भीमं पुनः सैन्यमर्जुनः प्राह मा भवान् ।सेनामर्हति राज्ञोऽस्य वीर हन्तुमशेषतः ॥ ७६॥
सम्बन्धयोग्यस्तातस्य सखाऽयं न सुधार्मिकः ।नेष्याम एनमेवातो गुरोर्वचनगौरवात् ॥ ७७॥
स्नेहपाशं ततश्चक्रे बीभत्सौ द्रुपदोऽधिकम् ।ततः सेनां विहायैव भीमो बीभत्सुमन्वयात् ॥ ७८॥
मुक्ता कथञ्चिद् भीमास्यात् सा सेना दुद्रुवे भयात् ।द्रुपदं स्थापयामासाथार्जुनो द्रोणसन्निधौ ॥ ७९॥
पप्रच्छैनं तदा द्रोणसख्यमस्त्युत नेति वा ।अस्तीदानीमिति प्राह द्रुपदोऽङ्गिरसां वरम् ॥ ८०॥
अथाऽह द्रुपदं द्रोणः सख्यमिच्छेऽक्षयं तव ।नह्यराज्ञो भवेत् सख्यं तवेतीदं कृतं मया ॥ ८१॥
न विप्रधर्मो यद् युद्धमतस्त्वं न मया धृतः ।शिष्यैरेतत् कारितं मे तव सख्यमभीप्सता ॥ ८२॥
अतः सख्यार्थमेवाद्य त्वद्राज्यार्धो हृतो मया ।गङ्गाया दक्षिणे कूले त्वं राजैवोत्तरे त्वहम् ।न ह्यराजत्व एकस्य सख्यं स्यादावयोः सखे ॥ ८३॥
इत्युक्त्वोन्मुच्य तं द्रोणो राज्यार्धं गृह्य चामुतः ।ययौ शिष्यैर्नागपुरं न्यवसत् सुखमत्र च ।ब्राह्मण्यत्यागभीरुः स नागृह्णन् धनुरप्यसौ ॥ ८४॥
धार्तराष्ट्रैस्तु भीमस्य भयात् पादौ प्रणम्य च ।शरणार्थं याचितत्वात् सपुत्रो युयुधे परैः ।एवं हरीच्छयैवासौ क्षात्रं(क्षत्रधर्मम्) धर्ममुपेयिवान् ॥ ८५॥
द्रुपदस्तु दिवारात्रं तप्यमानः पराभवात् ।भीमार्जुनबलं दृष्ट्वा चेच्छन्(चैच्छत्) पाण्डवसंश्रयम् ॥ ८६॥
सम्बन्धीत्यर्जुनवचश्चिकीर्षुः सत्यमेव च ।मार्दवं चार्जुने दृष्ट्वा सुतामैच्छत् तदर्थतः ।पुत्रं च द्रोणहन्तारमिच्छन् विप्रवरौ ययौ ॥ ८७॥
याजोपयाजावानीयाथार्बुदेन गवां नृपः ।चकारेष्टिं तु तद्भार्या द्विजाभ्यामत्र चाऽहुता ।द्रुपदात् सुतलब्ध्यर्थं साऽहङ्काराद्(सालङ्कारात्) व्यलम्बयत् ॥ ८८॥
किमेतयेत्यवज्ञाय तावुभौ विप्रसत्तमौ ।अजुह्वतां तत् पुत्रार्थं पत्न्या प्राश्यं हविस्तदा ॥ ८९॥
हुते हविषि मन्त्राभ्यां वैष्णवाभ्यां तदैव हि ।दीप्ताङ्गारनिभो वह्निः कुण्डमद्ध्यात् समुत्थितः ॥ ९०॥
किरीटी कुण्डली दीप्तौ हेममाली वरासिमान् ।रथेनाऽदित्यवर्णेन नदन् द्रुपदमभ्ययात्(द्रुपदमाद्रवत्) ॥ ९१॥
धृष्टत्वाद् द्योतनत्वाच्च धृष्टद्युम्न इतीरितः ।मुनिभिर्द्रुपदेनापि सर्ववेदार्थतत्त्ववित् ॥ ९२॥
अन्वेनं भारती साक्षाद् वेदिमद्ध्यात् समुत्थिता ।प्राणो हि भरतो नाम सर्वस्य भरणाच्छ्रुतः ॥ ९३॥
तद्भार्या भारती नाम वेदरूपा सरस्वती ।शंरूपमाश्रिता वायुं श्रीरित्येव च कीर्तिता ॥ ९४॥
आवेशयुक्ता शच्याश्च श्यामलायास्तथोषसः ।ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिताः ॥ ९५॥
सा कृष्णा नामतश्चाऽसीदुत्कृष्टत्वाद्धि योषिताम् ।कृष्णा सा वर्णतश्चाऽसीदुत्कृष्टानन्दिनी च सा ॥ ९६॥
उत्पत्तितश्च सर्वज्ञा सर्वाभरणभूषिता ।सम्प्राप्तयौवनैवाऽसीदजरा लोकसुन्दरी ।उमांशयुक्ताऽतितरां सर्वलक्षणसंयुता ॥ ९७॥
पूर्वं ह्युमा च देव्यस्ताः कदाचिद् भर्तृभिर्युताः ।विलासं दर्शयामासुर्ब्रह्मणः पश्यतोऽधिकम् ॥ ९८॥
शशाप तास्तदा ब्रह्मा मानुषीं योनिमाप्स्यथ ।तत्रान्यगाश्च भवतेत्येवं शप्ताः सुराङ्गनाः ॥ ९९॥
विचार्य भारतीमेत्य सर्वमस्यै निवेद्य च ।सहस्रवत्सरं चैनां शुश्रूषित्वा बभाषिरे ॥ १००॥
देवि नो मानुषं प्राप्यमन्यगात्वं च सर्वथा ।तथाऽपि(तत्रापि) मारुतादन्यं न स्पृशेम कथञ्चन ॥ १०१॥
ब्रह्मणैव च(हि) शप्ताः स्म पूर्वं चान्यत्र लीलया ।एकदेहत्वमाप्यैनं यदा वञ्चयितुं गताः ॥ १०२॥
एकदेहा मानुषत्वमाप्स्यथ त्रिश उद्धताः ।त्रिशो मद्वञ्चनायेता इति तेनोदिता वयम् ॥ १०३॥
अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ।चतुर्ष्वपि यतोऽस्माकं शापद्वयनिमित्ततः ।॥ १०४॥
चतुर्जन्म भवेद् भूमौ त्वां नान्यो मारुताद् व्रजेत् ।नियमोऽयं हरेर्यस्मादनादिर्नित्य एव च ।अतस्त्वयैकदेहान्नो नान्य आप्नोति मारुतात् ॥ १०५॥
इतीरिते तथेत्युक्त्वा पार्वत्यादियुतैव सा ।विप्रकन्याऽभवत् तत्र चतस्रः पार्वतीयुताः ।एकदेहस्थिताश्चक्रुर्गिरीशाय तपो महत् ॥ १०६॥
तद्देहस्था भारती तु रुद्रदेहस्थितं हरिम् ।तोषयामास तपसा कर्मैक्यार्थं धृतव्रता ॥ १०७॥
तस्यै स रुद्रदेहस्थो हरिः प्रादाद् वरं प्रभुः ।अनन्ततोषणं विष्णोः स्वभर्त्रा सह जन्मसु ॥ १०८॥
सर्वेष्वपीति चान्यासां ददौ शङ्कर एव च ।वरं स्वभर्तृसंयोगं मानुषेष्वपि जन्मसु ॥ १०९॥
ततस्तदैव देहं ता विसृज्य नलनन्दिनी ।बभूवुरिन्द्रसेनेति देहैक्येन सुसङ्गताः ॥ ११०॥
तदाऽऽसीन्मुद्गलो नाम मुनिस्तपसि संस्थितः ।चकमे पुत्रिकां ब्रह्मेत्यशृणोत् स कथान्तरे ॥ १११॥
अपाहसत् सोऽब्जयोनिं शशापैनं चतुर्मुखः ।भारत्याद्याः पञ्च देवीर्गच्छ मानिन्नभूतये(मानिन् न भूतये) ॥ ११२॥
इतीरितस्तं तपसा तोषयामास मुद्गलः ।शापानुग्रहमस्याथ चक्रे कञ्जसमुद्भवः ॥ ११३॥
न त्वं यास्यसि ता देवी मारुतस्त्वच्छरीरगः ।यास्यति त्वं सदा मूर्छां गतो नैव विबुद्ध्यसे ॥ ११४॥
नच पापं ततस्ते स्यादित्युक्ते चैनमाविशत् ।मारुतोऽथेन्द्रसेनां च गृहीत्वाऽथाभवद् गृही ॥ ११५॥
रेमे च स तया सार्द्धं दीर्घकालं जगत्प्रभुः ।ततो मुद्गलमुद्बोध्य ययौ च स्वं निकेतनम् ॥ ११६॥
ततो देशान्तरं गत्वा तपश्चक्रे स मुद्गलः ।सेन्द्रसेना वियुक्ताथ भर्त्रा चक्रे महत् तपः ॥ ११७॥
तद्देहगा भारती तु केशवं शङ्करे स्थितम् ।तोषयामास तपसा कर्मैक्यार्थं हि पूर्ववत् ।उमाद्या रौद्रमेवात्र तपश्चक्रुर्यथा पुरा ॥ ११८॥
प्रत्यक्षे च शिवे जाते तद्देहस्थे च केशवे ।पृथक्पृथक् स्वभर्त्राप्त्यै ताः पञ्चाप्येकदेहगाः ।प्रार्थयामासुरभवत् पञ्चकृत्वो वचो हि तत् ॥ ११९॥
शिवदेहस्थितो विष्णुर्भारत्यै तु ददौ पतिम् ।अन्यासां शिव एवाथ प्रददौ चतुरः पतीन् ॥ १२०॥
देव्यश्चतस्रस्तु तदा दत्तमात्रे वरेऽमुना ।देवानामवतारार्थं पञ्च देव्यः स्म इत्यथ ।नाजानन्नेकदेहत्वाच्चिद्योगात् क्षीरनीरवत् ॥ १२१॥
ताः श्रुत्वा स्वपतिं देवि नचिरात् प्राप्स्यसीति च ।विष्णूक्तं शङ्करोक्तं च चत्वारः पतयः पृथक् ॥ १२२॥
भविष्यन्तीत्यथैकस्या मेनिरे पञ्चभर्तृताम् ।रुरुदुश्चैकदेहस्था एकैवाहमिति स्थिताः ॥ १२३॥
अथाभ्यागान्महेन्द्रोऽत्र सोऽब्रवीत् तां वरस्त्रियम् ।किमर्थं रोदिषीत्येव साऽब्रवीद् वटुरूपिणम् ॥ १२४॥
शङ्करं दर्शयित्वैव पञ्चभर्तृत्वमेष मे ।वरार्थमर्थितः प्रादादिति तं शिव इत्यथ ॥ १२५॥
अजानन् शक्र आहोच्चैः किमेतद् भुवनत्रये ।मत्पालिते योषितं त्वं वृथा शपसि दुर्मते ॥ १२६॥
इतीरिते शिवः प्राह पत मानुष्यमाप्नुहि ।अस्याश्च भर्ता भवसि त्वामेवैषा वरिष्यति ॥ १२७॥
पश्यात्र मदवज्ञानात् पतितांस्त्वादृशान् सुरान् ।गिरेरधस्तादस्यैवेत्युक्तोऽसौ पाकशासनः ॥ १२८॥
उद्बबर्ह गिरिं तं तु ददर्शात्र च तान् सुरान् ।पूर्वेन्द्रान् मारुतवृषनासत्यांश्चतुरः स्थितान् ।मानुषेष्ववताराय मन्त्रं रहसि कुर्वतः ॥ १२९॥
ततो वरेण्यं वरदं विष्णुं प्राप्य स वासवः ।तत्प्रसादान्नरांशेन युक्तो भूमावजायत ॥ १३०॥
मदवज्ञानिमित्तेन पतिता इति तान् सुरान् ।मारुतादीन् मृषाऽवादीरिति ब्रह्मा शिवं तदा ॥ १३१॥
शशाप मानुषेषु त्वं क्षिप्रं जातः पराभवम् ।शक्रान्नरतनोर्यासि यस्मै त्वं तु मृषाऽवदः ॥ १३२॥
मच्छप्तानां च देवीनामविचार्य मया यतः ।पतियोगवरं प्रादा नावाप्स्यसि ततः प्रियाम् ॥ १३३॥
मानुषेषु ततः पश्चाद् भारतीदेहनिर्गताम् ।स्वलोके प्राप्स्यसि स्वार्थे वरोऽयं ते मृषा भवेत् ॥ १३४॥
एषा सा द्रौपदी नाम पञ्चदेवीतनुर्भवेत् ।मृषा वाग् येषु ते प्रोक्ता मारुताद्यास्तु तेऽखिलाः ॥ १३५॥
तासां पतित्वमाप्स्यन्ति भारत्यैव तु पार्वती ।संयुक्ता व्यवहारेषु प्रवर्तेत नचान्यथा ॥ १३६॥
एते हि मारुताद्यास्ते देवकार्यार्थगौरवात् ।जाता इति श्रुतिस्तत्र नावज्ञा तेऽत्र कारणम् ।दीर्घकालं मनुष्येषु ततस्त्वं स्थितिमाप्स्यसि ॥ १३७॥
इत्युक्त्वा प्रययौ ब्रह्मा सोऽश्वत्थामा शिवोऽभवत् ।पञ्चदेवीतनुस्त्वेषा द्रौपदी नाम चाभवत् ॥ १३८॥
वेदेषु सपुराणेषु भारते चावगम्यते ।उक्तोऽर्थः सर्व एवायं तथा पूर्वोदिताश्च ये ॥ १३९॥
मुमुदुः सर्वपाञ्चाला जातयोः सुतयोस्तयोः ।मानुषान्नोपभोगेन संसर्गान्मानुषेषु च ॥ १४०॥
मनुष्यपुत्रतायाश्च भावो मानुष एतयोः ।अभून्नातितरामासीत् तदयोनित्वहेतुतः ॥ १४१॥
याजोपयाजौ तावेव दयिता द्रुपदस्य सा ।मातृस्नेहार्थमनयोर्ययाचे ददतुश्च तौ ॥ १४२॥
जातमात्मनिहन्तारं भारद्वाजो निशम्य तम् ।यशोर्थमस्त्राणि ददावग्रहीत् सोऽपि लोभतः ।रामास्त्राणां दुर्लभत्वात् त्रिदशेष्वपि वीर्यवान् ॥ १४३॥
भीमार्जुनाभ्यां बद्धं तं श्रुत्वा पाञ्चालभूपतिम् ।प्राहिणोत् कृतवर्माणं पाण्डवानां जनार्दनः ।पाण्डवेष्वतुलां प्रीतिं लोके ख्यापयितुं प्रभुः ॥ १४४॥
सन्मान्य(सम्मान्य) पाण्डवान् सोऽपि शूरानुजसुतासुतः ।तैर्मानितः कृष्णभक्त्या भ्रातृत्वाच्च हरिं ययौ ॥ १४५॥
ततः प्रभृति सन्त्यज्य देवपक्षा जरासुतम् ।पाण्डवानाश्रिता भूपा ज्ञात्वा भैमार्जुनं बलम् ॥ १४६॥
विशेषतश्च कृष्णस्य विज्ञाय स्नेहमेषु हि ।पराजिताश्च बहुशः कृष्णेनाचिन्त्यकर्मणा ॥ १४७॥
प्रतापाद्ध्येव ते पूर्वं जरासन्धवशं गताः ।न स्नेहात् तद् बलं ज्ञात्वा पार्थानां केशवस्य च ॥ १४८॥
जन्मान्तराभ्यासवशात् स्निग्धाः कृष्णे च पाण्डुषु ।जरासन्धभयं त्यक्त्वा तानेव च समाश्रिताः ॥ १४९॥
अपि तं बहुशः कृष्णविजितं नैव तत्यजुः ।आसुराः पूर्वसंस्कारात् संस्कारो बलवान् यतः ॥ १५०॥
देवा हि कारणादन्यानाश्रयन्तोऽपि नाऽन्तरम् ।स्नेहं त्यजन्ति दैवेषु तथाऽन्येऽन्येष्वपि स्फुटम् ॥ १५१॥
धृतराष्ट्रो बलं दृष्ट्वा (ज्ञात्वा) बहुशो भीमपार्थयोः ।दैवत्वाच्च स्वभावेन ज्येष्ठत्वाद् धर्मजस्य च ।सुप्रीत एव तं चक्रे यौवराज्याभिषेकिणम्(यौवराज्येऽभिषेकिणम्) ॥ १५२॥
भीमार्जुनावथो जित्वा सर्वदिक्षु च भूपतीन् ।चक्रतुः करदान् सर्वान् धृतराष्ट्रस्य दुर्जयौ ॥ १५३॥
तयोः प्रीतोऽभवत् सोऽपि पौरजानपदास्तथा ।भीष्मद्रोणमुखाः सर्वेऽप्यतिमानुषकर्मणा ॥ १५४॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये भीमार्जुनदिग्विजयो नाम अष्टादशोऽध्यायः