Jump to content

Mahabharatatatparyanirnaya/C14/S1: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== सर्वशास्त्रतात्पर्यनिर्णयः ==
<div class="gr-page-nav">[[Mahabharatatatparyanirnaya|श्रीमहाभारततात्पर्यनिर्णयः]] · [[Mahabharatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = MBTN
| document_id  = MBTN

Revision as of 19:07, 10 April 2026

सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ कृष्णो विमोच्य पितरावभिवन्द्य सर्ववन्द्योऽपि रामसहितः प्रतिपालनाय ।धर्मस्य राज्यपदवीं प्रणिधाय चोग्रसेने द्विजत्वमुपगम्य मुमोच नन्दम् ॥ १॥


नन्दोऽपि सान्त्ववचनैरनुनीय मुक्तः कृष्णेन तच्चरणपङ्कजमात्मसंस्थम् ।कृत्वा जगाम सह गोपगणेन कृच्छ्राद् ध्यायन् जनार्दनमुवास वने सभार्यः ॥ २॥


कृष्णोऽप्यवन्तिपुरवासिनमेत्य विप्रं सान्दीपनिं सह बलेन ततोऽध्यगीष्ट ।वेदान् सकृन्निगदितान् निखिलाश्च विद्याः सम्पूर्णसंविदपि दैवतशिक्षणाय ॥ ३॥


धर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत् प्रवृत्तिः ।ज्ञानादिगूहनमुताध्ययनादिरत्र तज्ज्ञापनार्थमवसद् भगवान् गुरौ च ॥ ४॥


गुर्वर्थमेष मृतपुत्रमदात् पुनश्च रामेण सार्द्धमगमन्मधुरां रमेशः ।पौरैः सजानपदमबन्धुजनैरजस्रमभ्यर्चितो न्यवसदिष्टकृदात्मपित्रोः ॥ ५॥


सर्वेऽपि ते पतिमवाप्य हरिं पुराऽभितप्ता हि भोजपतिना मुमुदुर्नितान्तम् ।किं वाच्यमत्र सुतमाप्य हरिं स्वपित्रोर्यत्राखिलस्य सुजनस्य बभूव मोदः ॥ ६॥


कृष्णाश्रयो वसति यत्र जनोऽपि तत्र वृद्धिर्भवेत् किमु रमाधिपतेर्निवासे ।वृन्दावनं यदधिवासत आस सध्र्यङ् माहेन्द्रसद्मसदृशं किमु तत्र पुर्याम् ॥ ७॥


येनाधिवासमृषभो जगतां विधत्ते विष्णुस्ततो हि वरता सदने विधातुः ।तस्मात् प्रभोर्निवसनान्मधुरा पुरी सा शश्वत् समृद्धजनसङ्कुलिता बभूव ॥ ८॥


रक्षत्यजे त्रिजगतां परिरक्षकेऽस्मिन् सर्वान् यदून् मगधराजसुते स्वभर्तुः ।कृष्णान्मृतिं पितुरवाप्य समीपमस्तिप्रास्ती शशंसतुरतीव च दूःखितेऽस्मै ॥ ९॥


श्रुत्वैव तन्मगधराज उरुप्ररूढबाह्वोर्बलेन नजितो युधि सर्वलोकैः ।ब्रह्मेशचण्डमुनिदत्तवरैरजेयो मृत्यूज्झितश्च विजयी जगतश्चुकोप ॥ १०॥


क्षुब्धोऽतिकोपवशतः स्वगदाममोघां दत्तां शिवेन जगृहे शिवभक्तवन्द्यः ।शैवागमाखिलविदत्र च सुस्थिरोऽसौ चिक्षेप योजनशतं स तु तां परस्मै ॥ ११॥


अर्वाक् पपात च गदा मधुराप्रदेशात् सा योजनेन यदिमं प्रजगाद पृष्टः ।एकोत्तरामपि शताच्छतयोजनेति देवर्षिरत्र मधुरां भगवत्प्रियार्थे ॥ १२॥


शक्तस्य चापि हि गदाप्रविघातने तु शुश्रूषणं मदुचितं त्विति चिन्तयानः ।विष्णोर्मुनिः स निजगाद ह योजनोनं मार्गं पुरो भगवतो मगधेशपृष्टः ॥ १३॥


क्षिप्ता तु सा भगवतोऽथ गदा जराख्यां तत्सन्धिनीमसुभिराशु वियोज्य पापाम् ।मर्त्याशनीं भगवतः पुनराज्ञयैव याता गिरीशसदनं मगधं विसृज्य ॥ १४॥


राजा स्वमातृत उतो गदया च हीनः क्रोधात् समस्तनृपतीनभिसन्निपात्य ।अक्षोहिणीत्र्यधिकविंशयुतोऽतिवेलं दर्पोद्धतः सपदि कृष्णपुरीं जगाम ॥ १५॥


सर्वां पुरीं प्रतिनिरुद्ध्य दिदेश विन्दविन्दानुजौ भगवतः कुमतिः स दूतौ ।तावूचतुर्भगवतेऽस्य वचोऽतिदर्पपूर्णं तथा भगवतोऽप्यपहासयुक्तम् ॥ १६॥


लोकेऽप्रतीतबलपौरुषसाररूपस्त्वं ह्येक एष्यभवतो बलवीर्यसारम् ।ज्ञात्वा सुते नतु मया प्रतिपादिते हि कंसस्य वीर्यरहितेन हतस्त्वया सः ॥ १७॥


सोऽहं हि दुर्बलतमो बलिनां वरिष्ठं कृत्वैव दृष्टिविषयं विगतप्रतापः ।यास्ये तपोवनमथो सहितः सुताभ्यां क्षिप्रं ममाद्य विषये भव चक्षुषोऽतः ॥ १८॥


साक्षेपमीरितमिदं बलदर्पपूर्णमात्मापहाससहितं भगवान् निशम्य ।सत्यं तदित्युरु वचोऽर्थवदभ्युदीर्य मन्दं प्रहस्य निरगात् सहितो बलेन ॥ १९॥


द्वारेषु सात्यकिपुरस्सरमात्मसैन्यं त्रिष्वभ्युदीर्य भगवान् स्वयमुत्तरेण ।रामद्वितीय उदगान्मगधाधिराजं योद्धुं नृपेन्द्रकटकेन युतं परेशः ॥ २०॥


तस्येच्छयैव पृथिवीमवतेरुराशु तस्याऽयुधानि सबलस्य सुभास्वराणि ।शार्ङ्गासिचक्रदरतूणगदाः स्वकीया जग्राह दारुकगृहीतरथे स्थितः सः ॥ २१॥


आरुह्य भूमयरथं प्रतियुक्तमश्वैर्वेदात्मकैर्धनुरधिज्यमथ प्रगृह्य ।शार्ङ्गं शरांश्च निशितान् मगधाधिराजमुग्रं नृपेन्द्रसहितं प्रययौ जवेन ॥ २२॥


रामः प्रगृह्य मुसलं स हलं च यानमास्थाय सायकशरासनतूणयुक्तः ।सैन्यं जरासुतसुरक्षितमभ्यधावद्धर्षान्नदन्नुरुबलोऽरिबलैरधृष्यः ॥ २३॥


उद्वीक्ष्य कृष्णमभियान्तमनन्तशक्तिं राजेन्द्रवृन्दसहितो मगधाधिराजः ।उद्वेलसागरवदाश्वभियाय कोपान्नानाविधायुधवरैरभिवर्षमाणः ॥ २४॥


तं वै चुकोपयिषुरग्रत उग्रसेनं कृष्णो निधाय समगात् स्वयमस्य पश्चात् ।दृष्ट्वाऽग्रतो मगधराट् स्थितमुग्रसेनं कोपाच्चलत्तनुरिदं वचनं बभाषे ॥ २५॥


पापापयाहि पुरतो मम राज्यकाम निर्लज्ज पुत्रवधकारण शत्रुपक्ष ।त्वं जीर्णबस्तसदृशो न मयेह वध्यः सिंहो हि सिंहमभियाति न वै सृगालम् ॥ २६॥


आक्षिप्त इत्थममुनाऽथ स भोजराजस्तूणात् प्रगृह्य निशितं शरमाशु तेन ।छित्वा जरासुतधनुर्बलवन्ननाद विव्याध सायकगणैश्च पुनस्तमुग्रैः ॥ २७॥


अन्यच्छरासनवरं प्रतिगृह्य कोपसंरक्तनेत्रमभियान्तमुदीक्ष्य कृष्णः ।भोजाधिराजवधकाङ्क्षिणमुग्रवेगं बार्हद्रथं प्रतिययौ परमो रथेन ॥ २८॥


आयान्तमीक्ष्य भगवन्तमनन्तवीर्यं चेदीशपौण्ड्रमुखराजगणैः समेतः ।नानाविधास्त्रवरशस्त्रगणैर्ववर्ष मेरुं यथा घन उदीर्णरवो जलौघैः ॥ २९॥


शस्त्रास्त्रवृष्टिमभितो भगवान् विवृश्च्य शार्ङ्गोत्थसायकगणैर्विरथाश्वसूतम् ।चक्रे निरायुधमसौ मगधेन्द्रमाशु च्छिन्नातपत्रवरकेतुमचिन्त्यशक्तिः ॥ ३०॥


नैनं जघान भगवान् सुशकं च भीमे भक्तिं निजां प्रथयितुं यश उच्चधर्मम् ।चेदीशपौण्ड्रकसकीचकमद्रराजसाल्वैकलव्यकमुखान् विरथांश्चकार ॥ ३१॥


ये चापि हंसडिभकद्रुमरुग्मिमुख्या बाह्लीकभौमसुतमैन्दपुरस्सराश्च ।सर्वे प्रदुद्रुवुरजस्य शरैर्विभिन्ना अन्ये च भूमिपतयो य इहाऽसुरुर्व्याम् ॥ ३२॥


छिन्नायुधध्वजपताकरथाश्वसूतवर्माण उग्रशरताडितभिन्नगात्राः ।स्रस्ताम्बराभरणमूर्धजमाल्यहीना रक्तं वमन्त उरु दुद्रुवुराशु भीताः ॥ ३३॥


शोच्यां दशामुपगतेषु नृपेषु (सर्वेष्वस्तायुधेषु) सर्वेष्वात्तायुधेषु हरिणा युधि विद्रवत्सु ।नानायुधाढ्यमपरं रथमुग्रवीर्यम् आस्थाय मागधपतिः प्रससार रामम् ॥ ३४॥


आधावतोऽस्य मुसलेन रथं बभञ्ज रामो गदामुरुतरोरसि सोऽपि तस्य ।चिक्षेप तं च मुसलेन तताड रामस्तावुत्तमौ बलवतां युयुधात उग्रम् ॥ ३५॥


तौ चक्रतुः पुरु नियुद्धमपि स्म तत्र सञ्चूर्ण्य सर्वगिरिवृक्षशिलासमूहान् ।दीर्घं नियुद्धमभवत् सममेतयोस्तद् वज्राद् दृढाङ्गतमयोर्बलिनोर्नितान्तम् ॥ ३६॥


श्रुत्वाऽथ शङ्खरवमम्बुजलोचनस्य विद्रावितानपि नृपानभिवीक्ष्य रामः ।युद्ध्यन्तमीक्ष्य च रिपुं ववृधे बलेन त्यक्त्वा रिपुं मुसलमादद आश्वमोघम् ॥ ३७॥


तेनाऽहतः शिरसि सम्मुमुहेऽतिवेलं बार्हद्रथो जगृह एनमथो हली सः ।तत्रैकलव्य उत कृष्णशरैः पलायन्नस्त्राणि रामशिरसि प्रमुमोच शीघ्रम् ॥ ३८॥


भीतेन तेन समरं भगवाननिच्छन् प्रद्युम्नमाश्वसृजदात्मसुतं मनोजम् ।प्रद्युम्न एनमभियाय महास्त्रजालै रामस्तु मागधमथाऽत्मरथं निनाय ॥ ३९॥


युद्ध्वा चिरं रणमुखे भगवत्सुतोऽसौ चक्रे निरायुधममुं स्थिरमेकलव्यम् ।अंशेन यो भुवमगान्मणिमानिति स्म स क्रोधतन्त्रकगणेष्वधिपो निषादः ॥ ४०॥


प्रद्युम्नमात्मनि निधाय पुनः स कृष्णः संहृत्य मागधबलं निखिलं शरौघैः ।भूयश्चमूमभिविनेतुमुदारकर्मा बार्हद्रथं त्वमुचदक्षयपौरुषाऽजः ॥ ४१॥


व्रीडानताच्छविमुखः सहितो नृपैस्तैर्बार्हद्रथः प्रतिययौ स्वपुरीं स पापः ।आत्माभिषिक्तमपि भोजवराधिपत्ये दौहित्रमग्रत उत प्रणिधाय मन्दः ॥ ४२॥


जित्वा तमूर्जितबलं भगवानजेशशक्रादिभिः कुसुमवर्षिभिरीड्यमानः ।रामादिभिः सहित आशु पुरं(पुरीं) प्रविश्य रेमेऽभिवन्दितपदो महतां समूहैः ॥ ४३॥


वर्द्धत्सु पाण्डुतनयेषु चतुर्दशं तु जन्मर्क्षमास तनयस्य सहस्रदृष्टेः ।प्रत्याब्दिकं मुनिगणान् परिवेषयन्ती कुन्ती तदाऽऽस बहुकार्यपरा नयज्ञा ॥ ४४॥


तत्काल एव नृपतिः सह माद्रवत्या पुंस्कोकिलाकुलितफुल्लवनं ददर्श ।तस्मिन् वसन्तपवनस्पर्शेधितः स कन्दर्पमार्गणवशं सहसा जगाम ॥ ४५॥


जग्राह तामथ तया रममाण एव यातो यमस्य सदनं हरिपादसङ्गी ।पूर्वं शचीरमणमिच्छत एव विघ्नं शक्रस्य तद्दर्शनोपगतो हि चक्रे ॥ ४६॥


तेनैव मानुषमवाप्य रतिस्थ एव पञ्चत्वमाप रतिविघ्नमपुत्रतां च(हि) ।स्वात्मोत्तमेष्वथ सुरेषु विशेषतश्च स्वल्पोऽपि दोष उरुतामभियाति(उपयाति) यस्मात् ॥ ४७॥


माद्री पतिं मृतमवेक्ष्य रुराव दूरात् तच्छुश्रुवुश्च पृथया सह पाण्डुपुत्राः ।तेष्वागतेषु वचनादपि माद्रवत्याः पुत्रान् निवार्य तु पृथा स्वयमत्र चाऽगात् ॥ ४८॥


पत्युः कलेवरमवेक्ष्य निशम्य माद्र्याः कुन्ती भृशं व्यथितहृत्कमलैव माद्रीम् ।धिक्कृत्य चानुमरणाय मतिं चकार तस्याः स्वनो रुदितजः श्रुत आशु पार्थैः ॥ ४९॥


तेष्वागतेष्वधिक आस विराव एतं सर्वेऽपि शुश्रुवुर्ऋषिप्रवरा अथात्र ।आजग्मुरुत्तमकृपा ऋषिलोकमध्ये पत्नी नृपानुगमनाय च पस्पृधाते ॥ ५०॥


ते सन्निवार्य तु पृथामथ माद्रवत्या भर्तुः सहानुगमनं बहु चार्थयन्त्याः ।संवादमेव निजदोषमवेक्ष्य तस्याश्चक्रुः सदाऽवगतभागवतोच्चधर्माः ॥ ५१॥


भर्तुर्गुणैरनधिकौ तनयार्थमेव माद्र्या कृतौ (आकृतौ) सुरवरावधिकौ स्वतोऽपि ।तेनैव भर्तृमृतिहेतुरभूत् समस्तलोकैश्च नातिमहिता सुगुणाऽपि माद्री ॥ ५२॥


पाण्डोः सुता मुनिगणैः पितृमेधमत्र चक्रुर्यथावदथ तेन सहैव माद्री ।हुत्वाऽऽत्मदेहमुरु पापमदः कृतं च सम्मार्ज्य लोकमगमन्निजभर्तुरेव ॥ ५३॥


पाण्डुश्च पुत्रकगुणैः स्वगुणैश्च साक्षात् कृष्णात्मजः सततमस्य पदैकभक्तः ।लोकानवाप विमलान् महितान् महद्भिः किं चित्रमत्र हरिपादविनम्रचित्ते ॥ ५४॥


पाण्डोः सुताश्च पृथया सहिता मुनीन्द्रैर्नारायणाश्रमत आशु पुरं स्वकीयम् ।जग्मुस्तथैव धृतराष्ट्रपुरो मुनीन्द्राः वृत्तं समस्तमवदन्ननुजं मृतं च ॥ ५५॥


तूष्णीं स्थिते तु नृपतौ तनुजे द्युनद्याः क्षत्तर्युतात्त उरुमोदमतीव पापाः ।ऊचुः सुयोधनमुखाः सह सौबलेन पाण्डोर्मृतिः किल पुरा तनयाः क्‍व तस्य ॥ ५६॥


न क्षेत्रजा अपि मृते पितरि स्वकीयैः सम्यङ् नियोगमनवाप्य भवाय योग्याः ।तेषामितीरितवचोऽनु जगाद वायुराभाष्य कौरवगणान् गगनस्थ एव ॥ ५७॥


एते हि धर्ममरुदिन्द्रभिषग्वरेभ्यो जाताः प्रजीवति पितर्युरुधामसाराः ।शक्याश्च नैव भवतां क्‍वचिदग्रहाय नारायणेन सततं परिरक्षिता यत् ॥ ५८॥


वायोरदृश्यवचनं परिशङ्कमानेष्वाविर्बभूव भगवान् स्वयमब्जनाभः ।व्यासस्वरूप उरुसर्वगुणैकदेह आदाय तानगमदाशु च पाण्डुगेहम् ॥ ५९॥


तत्स्वीकृतेषु सकला अपि भीष्ममुख्या वैचित्रवीर्यसहिताः परिपूज्य सर्वान् ।कुन्त्या सहैव जगृहुः सुभृशं तदाऽऽर्ता वैचित्रवीर्यतनयाः सह सौबलेन ॥ ६०॥


वैचित्रवीर्यतनयाः कृपतो महास्त्राण्यापुश्च पाण्डुतनयैः सह सर्वराज्ञाम् ।पुत्राश्च तत्र विविधा अपि बालचेष्टाः कुर्वत्सु वायुतनयेन जिताः समस्ताः ॥ ६१॥


पक्‍वोरुभोज्यफलसन्नयनाय वृक्षेष्वारूढराजतनयानभिवीक्ष्य भीमः ।पादप्रहारमुरुवृक्षतले प्रदाय साकं फलैर्विनिपतत्सु फलान्यभुङ्क्त ॥ ६२॥


युद्धे नियुद्ध उत धावन उत्प्लवे च वारिप्लवे च सहितान् निखिलान् कुमारान् ।एको जिगाय तरसा परमार्यकर्मा विष्णोः सुपूर्णसदनुग्रहतः सुनित्यात् ॥ ६३॥


सर्वान् प्रगृह्य विनिमज्जति वारिमध्ये श्रान्तान् विसृज्य हसति स्म स विष्णुपद्याम् ।सर्वानुदूह्य च कदाचिदुरुप्रवाहां गङ्गां सुतारयति सारसुपूर्णपौंस्यः ॥ ६४॥


द्वेषं ह्यृते नहि हरौ तमसि प्रवेशः प्राणे च तेन जगतीमनु तौ प्रपन्नौ ।तत्कारणान्यकुरुतां परमौ करांसि देवद्विषां सततविस्तृतसाधुपौंस्यौ ॥ ६५॥


दृष्ट्वाऽमितान्यथ करांसि मरुत्सुतेन नित्यं कृतानि तनया निखिलाश्च राज्ञाम् ।तस्यामितं बलमुदीक्ष्य सदोरुवृद्धद्वेषा बभूवुरथ मन्त्रममन्त्रयंश्च ॥ ६६॥


येये हि तत्र नरदेवसुताः सुरांशाः प्रीतिं परां पवनजे निखिला अकुर्वन् ।तांस्तान् विहाय दितिजा नरदेववंशजाता विचार्य वधनिश्चयमस्य चक्रुः ॥ ६७॥


अस्मिन् हते विनिहता अखिलाश्च पार्थाः शक्यो बलाच्च न निहन्तुमयं बलाढ्यः ।छद्मप्रयोगत इमं विनिहत्य वीर्यात् पार्थं निहत्य निगडे च विदध्महेऽन्यान् ॥ ६८॥


एवं कृते निहतकण्टकमस्य राज्यं दुर्योधनस्य हि भवेन्न ततोऽन्यथा स्यात् ।अस्मिन् हते निपतिते च सुरेन्द्रसूनौ शेषा भवेयुरपि सौबलिपुत्रदासाः ॥ ६९॥


एवं विचार्य विषमुल्बणमन्तकाभं क्षीरोदधेर्मथनजं तपसा गिरीशात् ।शुक्रेण लब्धममुतः सुबलात्मजेन प्राप्तं प्रतोष्य मरुतस्तनयाय चादुः ॥ ७०॥


सम्मन्त्र्य राजतनयैर्धृतराष्ट्रजैस्तद् दत्तं स्वसूदमुखतोऽखिलभक्ष्यभोज्ये ।ज्ञात्वा युयुत्सुगदितं बलवान् स भीमो विष्णोरनुग्रहबलाज्जरयाञ्चकार ॥ ७१॥


जीर्णे विषे कुमतयः परमाभितप्ताः प्रासादमाशु विदधुर्हरिपादतोये ।ज्ञात्वा युयुत्सुमुखतः स्वयमत्र चान्ते सुष्वाप मारुतिरमा धृतराष्ट्रपुत्रैः ॥ ७२॥


दोषान् प्रकाशयितुमेव विचित्रवीर्यपुत्रात्मजेषु नृवरं प्रतिसुप्तमीक्ष्य ।बद्ध्वाऽभिमन्त्रणदृढैरयसा कृतैस्तं पाशैर्विचिक्षिपुरुदे हरिपादजायाः ॥ ७३॥


तत् कोटियोजनगभीरमुदं विगाह्य भीमो विजृम्भणत एव विवृश्च्य पाशान् ।उत्तीर्य सज्जनगणस्य विधाय हर्षं तस्थावनन्तगुणविष्णुसदातिहार्दः ॥ ७४॥


तं वीक्ष्य दुष्टमनसोऽतिविपन्नचित्ताः सम्मन्त्र्य भूय उरुनागगणानथाष्टौ ।शुक्रोक्तमन्त्रबलतः पुर आह्वयित्वा पश्चात् सुपञ्जरगतान् प्रददुः स्वसूते ॥ ७५॥


दुर्योधनेन पृथुमन्त्रबलोपहूतांस्तत्सारथिः फणिगणान् पवनात्मजस्य ।सुप्तस्य विस्तृत उरस्यमुचद् विशीर्णदन्ता बभूवुरमुमाशु विदश्य नागाः ॥ ७६॥


क्षिप्त्वा सुदूरमुरुनागगणानथाष्टौ तद्वंशजान् स विनिहत्य पिपीलिकावत् ।जघ्ने च सूतमपहस्तत एव भीमः सुष्वाप पूर्ववदनुत्थित एव तल्पात् ॥ ७७॥


तत् तस्य (नैजबलमप्रमेयं) नैजबलमप्रतिमं निरीक्ष्य सर्वे क्षितीशतनया अधिकं विषेदुः ।निश्वासतोऽथ दर्शनादपि भस्म येषां भूयासुरेव भुवनानि च ते मृषाऽऽसन् ॥ ७८॥


दद्भिर्विदश्य न विकारममुष्य कर्तुं शेकुर्भुजङ्गमवरा अपि सुप्रयत्नाः ।कस्यापि नेदृशबलं श्रुतपूर्वमासीद् दृष्टं किमु स्म तनयेऽपि हिरण्यकस्य ॥ ७९॥


स्वात्मावनार्थमधिकां स्तुतिमेव कृत्वा विष्णोः स दैत्यतनयो हरिणाऽवितोऽभूत् ।नत्वौरसं बलममुष्य स कृष्यते हि भृत्यैर्बलात् स पितुरौरसमस्य वीर्यम् ॥ ८०॥


नैसर्गिकं प्रियमिमं प्रवदन्ति विप्रा विष्णोर्नितान्तमपि सत्यमिदं ध्रुवं हि ।नैवान्यथौरसबलं भवतीदृशं तदुत्साद्य एष हरिणैव सहैष नोऽर्थः ॥ ८१॥


कृष्णः किलैष च हरिर्यदुषु प्रजातः सोऽस्याऽश्रयः कुरुत तस्य बहु प्रतीपम् ।सम्मन्त्र्य चैवमतिपापतमा नरेन्द्रपुत्रा हरेश्च बहु चक्रुरथ प्रतीपम् ॥ ८२॥


तैः प्रेरिता नृपतयः पितरश्च तेषां साकं बृहद्रथसुतेन हरेः सकाशम् ।युद्धाय जग्मुरमुनाऽष्टदशेषु युद्धेष्वत्यन्तभग्नबलदर्पमदा निवृत्ताः ॥ ८३॥


तेनाऽगृहीतगजवाजिगजा नितान्तं शस्त्रैः परिक्षततनूभिरलं वमन्तः ।रक्तं विशस्त्रकवचध्वजवाजिसूताः स्रस्ताम्बराः श्लथितमूर्द्धजिनो निवृत्ताः ॥ ८४॥


एवं बृहद्रथसुतोऽपि सुशोच्यरूप आर्तो ययौ बहुश एव पुरं स्वकीयम् ।कृष्णेन पूर्णबलवीर्यगुणेन मुक्तो जीवेत्यतीव विजितः श्वसितावशेषः ॥ ८५॥


एवं गतेषु बहुशो नतकन्धरेषु राजस्वजोऽपि मधुरां स्वपुरीं प्रविश्य ।रामेण सार्धमखिलैर्यदुभिः समेतो रेमे रमापतिरचिन्त्यबलो जयश्रीः ॥ ८६॥


व्यर्थोद्यमाः पुनरपि स्म सधार्तराष्ट्रा भीमं निहन्तुमुरुयत्नमकुर्वताज्ञाः ।राज्ञां सुतास्तमखिलं स मृषैव कृत्वा चक्रे जयाय च दिशां बलवान् प्रयत्नम् ॥ ८७॥


प्राचीं दिशं प्रथममेव जिगाय पश्चाद् याम्यां जलेशपरिपालितया सहान्याम् ।यौ तौ पुरातनदशाननकुम्भकर्णौ मातृष्वसातनयतां च गतौ जिगाय ॥ ८८॥


पूर्वस्तयोर्हि दमघोषसुतः प्रजातः प्राहुश्च यं नृपतयः शिशुपालनाम्ना ।अन्यं वदन्ति च करूशनृपं तथाऽन्यमातृष्वसातनयमेव च दन्तवक्रम् ॥ ८९॥


जित्वैव तावपि जिगाय च पौण्ड्रकाख्यं शौरैः सुतं सुतमजैदथ भीष्मकस्य ।यः पूर्वमास दितिजो नरहेल्वलाख्यो रुग्मीति नाम च बभूव स कुण्डिनेशः ॥ ९०॥


भागेत एव तनयस्य स एव वह्नेर्नाम्ना शुचेः स तु पिताऽस्य हि मित्रभागः ।राह्वंशयुक् तदनुजौ क्रथकैशिकाख्यौ भागौ तथाऽग्निसुतयोः पवमानशुन्ध्योः ॥ ९१॥


बन्धोर्निजस्य तु बलं सुपरीक्षमाणः शल्योऽपि तेन युयुधे विजितस्तथैव ।भीमो जिगाय युधि वीरमथैकलव्यं सर्वे नृपाश्च विजिता अमुनैवमेव ॥ ९२॥


तद्बाहुवीर्यपरिपालित इन्द्रसूनुः शेषान् नृपांश्च समजैद् बलवानयत्नात् ।साल्वं च हंसडिभकौ च विजित्य भीमो नागाह्वयं पुरमगात् सहितोऽर्जुनेन ॥ ९३॥


तद्बाहुवीर्यमथ वीक्ष्य मुमोद धर्मसूनुः समातृयमजो विदुरः सभीष्मः ।अन्ये च सज्जनगणाः सहपौरराष्ट्राः श्रुत्वैव सर्वयदवो जहृषुर्नितान्तम् ॥ ९४॥


कृष्णः सुयोधनमुखाक्रममाम्बिकेयं जानन् स्वपुत्रवशवर्तिनमेव गत्वा ।श्वाफल्किनो गृहममुं धृतराष्ट्रशान्त्यै गन्तुं दिदेश गजनाम पुरं रमेशः ॥ ९५॥


सोऽयाद् गजाह्वयममुत्र विचित्रवीर्यपुत्रेण भीष्मसहितैः कुरुभिः समस्तैः ।सम्पूजितः कतिपयानवसच्च मासान् ज्ञातुं हि पाण्डुषु मनःप्रसृतिं कुरूणाम् ॥ ९६॥


ज्ञात्वा स कुन्तिविदुरोक्तित आत्मना च मित्रारिमध्यमजनांस्तनयेषु पाण्डोः ।विज्ञाय पुत्रवशगं धृतराष्ट्रमञ्जः साम्नैव भेदसहितेन जगाद विद्वान् ॥ ९७॥


पुत्रेषु पाण्डुतनयेषु च साम्यवृत्तिः कीर्तिं च धर्ममुरुमेषि तथाऽर्थकामौ ।प्रीतिं परां त्वयि करिष्यति वासुदेवः साकं समस्तयदुभिः सहितः सुराद्यैः ॥ ९८॥


धर्मार्थकामसहितां च विमुक्तिमेषि तत्प्रीतितः सुनियतं विपरीतवृत्तिः ।यास्येव राजवर तत्फलवैपरीत्यमित्थं वचो निगदितं तव कार्ष्णमद्य ॥ ९९॥


इत्थं समस्तकुरुमध्य उपात्तवाक्यो राजाऽपि पुत्रवशगो वचनं जगाद ।सर्वं वशे भगवतो न वयं स्वतन्त्रा भूभारसंहृतिकृते स इहावतीर्णः ॥ १००॥


एतन्निशम्य वचनं स तु यादवोऽस्य ज्ञात्वा मनोऽस्य कलुषं तव नैव पुत्राः ।इत्यूचिवान् सह मरुत्तनयार्जुनाभ्यां प्रायात् पुरीं च सहदेवयुतः स्वकीयाम् ॥ १०१॥


ज्ञानं तु भागवतमुत्तममात्मयोग्यं भीमार्जुनौ भगवतः समवाप्य कृष्णात् ।तत्रोषतुर्भगवता सह युक्तचेष्टौ सम्पूजितौ यदुभिरुत्तमकर्मसारौ ॥ १०२॥


प्रत्युद्यमो भगवताऽपि भवेद् गदायाः शिक्षा यदा भगवता क्रियते नचेमम् ।कुर्यादिति स्म भगवत्समनुज्ञयैव रामादशिक्षदुरुगायपुरः स भीमः ॥ १०३॥


रामोऽपि शिक्षितमरीन्द्रधरात् पुरोऽस्य भीमे ददावथ वराणि हरेरवाप ।अस्त्राणि शक्रतनयः सहदेव आर नीतिं तथोद्धवमुखात् सकलामुदाराम् ॥ १०४॥


कृष्णोऽथ चौपगविमुत्तमनीतियुक्तं सम्प्रेषयन्निदमुवाच ह गोकुलाय ।दुःखं विनाशय वचोभिररे मदीयैर्नन्दादिनां विरहजं मम चाऽशु याहि ॥ १०५॥


मत्तो वियोग इह कस्यचिदस्ति नैव यस्मादहं तनुभृतां निहतोऽन्तरेव ।नाहं मनुष्य इति कुत्रच वोऽस्तु बुद्धिर्ब्रह्मैव निर्मलतमं प्रवदन्ति मां हि ॥ १०६॥


पूर्वं यदा ह्यजगरो निजगार नन्दं सर्वे न शेकुरथ तत्प्रविमोक्षणाय(तत्प्रतिमोक्षणाय) ।मत्पादसंस्पर्शतः स तदाऽतिदिव्यो विद्याधरस्तदुदितं निखिलं स्मरन्तु ॥ १०७॥


पूर्वं स रूपमदतः प्रजहास विप्रान् नित्यं तपःकृशतराङ्गिरसो विरूपान् ।तैः प्रापितः सपदि सोऽजगरत्वमेव मत्तो निजां तनुमवाप्य जगाद नन्दम् ॥ १०८॥


नायं नरो हरिरयं परमः परेभ्यो विश्वेश्वरः सकलकारण आत्मतन्त्रः ।विज्ञाय चैनमुरुसंसृतितो विमुक्ता यान्त्यस्य पादयुगलं मुनयो विरागाः ॥ १०९॥


नन्दं यदा च जगृहे वरुणस्य दूतस्तत्रापि मां जलपतेर्गृहमाशु यान्तम् ।सम्पूज्य वारिपतिराह विमुच्य नन्दं नायं सुतस्तव पुमान् परमः स एषः ॥ ११०॥


सन्दर्शितो ननु मयैव विकुण्ठलोको गोजीविनां स्थितिरपि प्रवरा मदीया ।मानुष्यबुद्धिमपनेतुमजे मयि स्म तस्मान्मयि स्थितिमवाप्य शमं प्रयान्तु ॥ १११॥


श्रुत्वोद्धवो निगदितं परमस्य पुंसो वृन्दावनं प्रति ययौ वचनैश्च तस्य ।दुःखं व्यपोह्य निखिलं पशुजीवनानामायात् पुनश्चरणसन्निधिमेव विष्णोः ॥ ११२॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये उद्धवप्रतियानं नाम चतुर्दशोऽध्यायः