Mahabharatatatparyanirnaya/C2/S1: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== सर्वशास्त्रतात्पर्यनिर्णयः == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = MBTN | | document_id = MBTN | ||
Revision as of 19:06, 10 April 2026
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ जयति हरिरचिन्त्यः सर्वदेवैकवन्द्यः परमगुरुरभीष्टावाप्तिदः सज्जनानाम् ।निखिलगुणगणार्णो नित्यनिर्मुक्तदोषः सरसिजनयनोऽसौ श्रीपतिर्मानदो नः ॥१॥
उक्तः पूर्वेऽध्याये शास्त्राणां निर्णयः परो दिव्यः ।श्रीमद्भारतवाक्यान्येतैरेवाध्यवस्यन्ते ॥२॥
क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि ।कुर्युः क्वचिच्च व्यत्यासं प्रमादात् क्वचिदन्यथा ॥३॥
अनुत्सन्ना अपि ग्रन्था व्याकुला इति सर्वशः ।उत्सन्नाः प्रायशः सर्वे कोट्यंशोऽपि न वर्तते ॥४॥
ग्रन्थोऽप्येवं विलुळितः किम्वर्थो देवदुर्गमः ।कलावेवं व्याकुलिते निर्णयाय प्रचोदितः ॥५॥
हरिणा निर्णयान् वच्मि विजानंस्तत्प्रसादतः ।शास्त्रान्तराणि सञ्जानन् वेदांश्चास्य प्रसादतः ॥६॥
देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान् ।यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः ॥७॥
जगाद भारताद्येषु तथा वक्ष्ये तदीक्षया ।सङ्क्षेपात् सर्वशास्त्रार्थं भारतार्थानुसारतः ॥८॥
निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम् ॥९॥
‘भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ।देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः ।व्यासस्यैवाऽज्ञया तत्र त्वत्यरिच्यत भारतम्’ ॥१०॥
‘महत्वाद् भारवत्वाच्च महाभारतमुच्यते ।निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते’(महा. १.१.२०९) ॥११॥
‘निर्णयः सर्वशास्त्राणां सदृष्टान्तो हि भारते ।कृतो विष्णुवशत्वं हि ब्रह्मादीनां प्रकाशितम् ॥१२॥
यतः कृष्णवशे सर्वे भीमाद्याः सम्यगीरिताः ।सर्वेषां ज्ञानदो विष्णुर्यशोदातेति चोदितः ॥१३॥
यस्माद्व्यासात्मना तेषां भारते यश ऊचिवान् ।ज्ञानदश्च शुकादीनां ब्रह्मरुद्रादिरूपिणाम् ॥१४॥
ब्रह्माधिकश्च देवेभ्यः शेषाद्रुद्रादपीरितः ।प्रियश्च विष्णोः सर्वेभ्य इति भीमनिदर्शनात् ॥१५॥
भूभारहारिणो विष्णोः प्रधानाङ्गं हि मारुतिः ।मागधादिवधादेव दुर्योधनवधादपि ॥१६॥
यो य एव बलज्येष्ठः क्षत्रियेषु स उत्तमः ।अङ्गं चेद्विष्णुकार्येषु तद्भक्त्यैव न चान्यथा ॥१७॥
बलं नैसर्गिकं तच्चेद्वरास्त्रादेस्तदन्यथा ।अन्यावेशनिमित्तं चेद् बलमन्यात्मकं हि तत् ॥१८॥
देवेषु बलिनामेव भक्तिज्ञाने न चान्यथा ।स एव च प्रियो विष्णोर्नान्यथा तु कथञ्चन ॥१९॥
तस्माद्यो यो बलज्येष्ठः स गुणज्येष्ठ एव च ।बलं हि क्षत्रिये व्यक्तं ज्ञायते स्थूलदृष्टिभिः ॥२०॥
ज्ञानादयो गुणा यस्माज्ज्ञायन्ते सूक्ष्मदृष्टिभिः ।तस्माद्यत्र बलं तत्र विज्ञातव्या गुणाः परे ॥२१॥
देवेष्वेव न चान्येषु वासुदेवप्रतीपतः ।क्षत्रादन्येष्वपि बलं प्रमाणं यत्र केशवः ॥ २२॥
प्रवृत्तो दुष्टनिधने ज्ञानकार्ये तथैव च ।अन्यत्र ब्राह्मणानां तु प्रमाणं ज्ञानमेव हि ।क्षत्रियाणां बलं चैव सर्वेषां विष्णुकार्यता ॥२३॥
कृष्णरामादिरूपेषु बलकार्यो जनार्दनः ।दत्तव्यासादिरूपेषु ज्ञानकार्यस्तथा प्रभुः ॥२४॥
मत्स्यकूर्मवराहाश्च सिंहवामनभार्गवाः ।राघवः कृष्णबुद्धौ च कृष्णद्वैपायनस्तथा ॥२५॥
कपिलो दत्त ऋषभौ शिंशुमारो रुचेः सुतः ।नारायणो हरिः कृष्णस्तापसो मनुरेव च ॥२६॥
महिदासस्तथा हंसः स्त्रीरूपो हयशीर्षवान् ।तथैव वडवावक्त्रः कल्की धन्वन्तरिः प्रभुः ॥२७॥
इत्याद्याः केवलो विष्णुर्नैषां भेदः कथञ्चन ।न विशेषो गुणैः सर्वैर्बलज्ञानादिभिः क्वचित् ॥२८॥
श्रीब्रह्मरुद्रशेषाश्च वीन्द्रेन्द्रौ काम एव च ।कामपुत्रोऽनिरुद्धश्च सूर्यश्चन्द्रो बृहस्पतिः ॥२९॥
धर्म एषां तथा भार्या दक्षाद्या मनवस्तथा ।मनुपुत्राश्च ऋषयो नारदः पर्वतस्तथा ॥३०॥
कश्यपः सनकाद्याश्च वह्न्याद्याश्चैव देवताः ।भरतः कार्तवीर्यश्च वैन्याद्याश्चक्रवर्तिनः ॥३१॥
गयश्च लक्ष्मणाद्याश्च त्रयो रोहिणिनन्दनः ।प्रद्युम्नो रौक्मिणेयश्च तत्पुत्रश्चानिरुद्धकः ॥३२ ॥
नरः फल्गुन इत्याद्या विशेषावेशिनो हरेः ।वालि साम्बादयश्चैव किञ्चिदावेशिनो हरेः ॥३३॥
तस्माद्बलप्रवृत्तस्य रामकृष्णात्मनो हरेः ।अन्तरङ्गं हनूमांश्च भीमस्तत्कार्यसाधकौ ॥३४॥
ब्रह्मात्मको यतो वायुः पदं ब्राह्ममगात् पुरा ।वायोरन्यस्य न ब्राह्मं पदं तस्मात् स एव सः ॥३५॥
यत्र रूपं तत्र गुणाः भक्त्याद्यास्त्रीषु नित्यशः ।रूपं हि स्थूलदृष्टीनां दृश्यं व्यक्तं ततो हि तत् ॥३६॥
प्रायो वेत्तुं न शक्यन्ते भक्त्याद्यास्त्रीषु यत् ततः ।यासां रूपं गुणास्तासां भक्त्याद्या इति निश्चयः ॥३७॥
तच्च नैसर्गिकं रूपं द्वात्रिंशल्लक्षणैर्युतम् ।नालक्षणं वपुर्मात्रं गुणहेतुः कथञ्चन ॥३८॥
आसुरीणां वरादेस्तु वपुर्मात्रं भविष्यति ।न लक्षणान्यतस्तासां नैव भक्तिः कथञ्चन ॥३९॥
तस्माद् रूपगुणोदारा जानकी रुग्मिणी तथा ।सत्यभामेत्यादिरूपा श्रीः सर्वपरमा मता ॥४०॥
ततः पश्चाद् द्रौपदी च सर्वाभ्यो रूपतो वरा ।भूभारक्षपणे साक्षादङ्गं भीमवदीशितुः ॥४१॥
हन्ता च वैरहेतुश्च भीमः पापजनस्य तु ।द्रौपदी वैरहेतुः सा तस्माद् भीमादनन्तरा ॥४२॥
बलदेवस्ततः पश्चात् ततः पश्चाच्च फल्गुनः ।नरावेशादन्यथा तु द्रौणिः पश्चात् ततोऽपरे ॥४३॥
रामवज्जाम्बवत्याद्याः षट् ततो रेवती तथा । लक्ष्मणो हनुमत्पश्चात् ततो भरतवालिनौ । शत्रुघ्नस्तु ततः पश्चात् सुग्रीवाद्यास्ततोऽवराः ॥४४॥
रामकार्यं तु यैः सम्यक् स्वयोग्यं न कृतं पुरा । तैः पूरितं तत् कृष्णाय बीभत्स्वाद्यैः समन्ततः ॥४५॥
अधिकं यैः कृतं तत्र तैरूनं कृतमत्र तत् । कर्णाद्यैरधिकं यैस्तु प्रादुर्भावद्वये कृतम् । विविदाद्यैर्हि तैः पश्चाद् विप्रतीपं कृतं हरेः ॥४६॥
प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृतः । नैतयोरकृतं किञ्चिच्छुभं वा यदि वाऽशुभम् । अन्यत्र पूर्यते क्वापि तस्मादत्रैव निर्णयः ॥४७॥
पश्चात्तनत्वात् कृष्णस्य वैशेष्यात् तत्र निर्णयः । प्रादुर्भावमिमं यस्माद् गृहीत्वा भारतं कृतम् ॥४८॥
उक्ता रामकथाऽप्यस्मिन् मार्कण्डेयसमाख्य(स्य)या । तस्माद् यद् भारते नोक्तं तद्धि नैवास्ति कुत्रचित् ।॥४९॥
अत्रोक्तं सर्वशास्त्रेषु नहि सम्यगुदाहृतम्'। इत्यादि कथितं सर्वं ब्रह्माण्डे हरिणा स्वयम् ॥५०॥
मार्कण्डेयेऽपि कथितं भारतस्य प्रशंसनम् । ‘देवतानां यथा व्यासो द्विपदां ब्राह्मणो वरः ॥५१॥
आयुधानां यथा वज्रमोषधीनां यथा यवाः । तथैव सर्वशास्त्राणां महाभारतमुत्तमम्' ॥५२॥
वायुप्रोक्तेऽपि तत् प्रोक्तं भारतस्य प्रशंसनम् । ‘कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्’ ॥५३॥(पद्म पु. १.१.४३-४४; विष्णु पु. ३.४-५; महा. १२.३३४.९(१२.३५६.११))
एवं हि सर्वशास्त्रेषु पृथक् पृथगुदीरितम् । उक्तोऽर्थः सर्व एवायं माहात्म्यक्रमपूर्वकः ॥५४॥
भारतेऽपि यथा प्रोक्तो निर्णयोऽयं क्रमेण तु । तथा प्रदर्शयिष्यामस्तद्वाक्यैरेव सर्वशः ॥५५॥
‘नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्’ ॥५६॥
ज्ञानप्रदः स भगवान् कमलाविरिञ्चशर्वादिपूर्वजगतो निखिलाद्वरिष्ठः । भक्त्यैव तुष्यति हरिप्रवणत्वमेव सर्वस्य धर्म इति पूर्वविभागसंस्थः ॥५७॥
निर्दोषकः सृतिविहीन उदारपूर्णसंविद्गुणः प्रथमकृत् सकलात्मशक्तिः । मोक्षैकहेतुरसुरूपसुरैश्च मुक्तैर्वन्द्यः स एक इति चोक्तमथोत्तरार्धे ॥५८॥
नम्यत्वमुक्तमुभयत्र यतस्ततोऽस्य मुक्तैरमुक्तिगगणैश्च विनम्यतोक्ता । इत्थं हि सर्वगुणपूर्तिरमुष्य विष्णोः प्रस्ताविता प्रथमतः प्रतिजानतैव ॥५९॥
‘कृष्णो यज्ञैरिज्यते सोमपूतैः कृष्णो वीरैरिज्यते विक्रमद्भिः । कृष्णो वन्यैरिज्यते सम्मृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः’ ॥६०॥
सृष्टा ब्रह्मादयो देवा निहता येन दानवाः । तस्मै देवादिदेवाय नमस्ते शार्ङ्गधारिणे ॥६१॥
स्रष्टृत्वं देवानां मुक्तिस्रष्टृत्वमुच्यते नान्यत् । उत्पत्तिर्दैत्यानामपि यस्मात् सम्मिता विशेषोऽयम् ॥६२॥
अथ च दैत्यहतिस्तमसि स्थिरा नियतसंस्थितिरेव न चान्यथा । तनुविभागकृतिः सकलेष्वियं नहि विशेषकृता सुरदैत्यगा ॥६३॥
तमिममेव सुरासुरसञ्चये हरिकृतं प्रविशेषमुदीक्षितुम् । प्रतिविभज्य च भीमसुयोधनौ स्वपरपक्षभिदा कथिता कथा ॥६४॥
‘नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद् वक्ष्यामि नारायणकथामिमाम् ॥६५॥
वासुदेवस्तु भगवान् कीर्तितोऽत्र सनातनः । प्रतिबिम्बमिवाऽदर्शे यं पश्यन्त्यात्मनि स्थितम् ॥६६॥
नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्' ॥६७॥
आद्यन्तयोरित्यवदत् स यस्माद् व्यासात्मको विष्णुरुदारशक्तिः । तस्मात् समस्ता हरिसद्गुणानां निर्णीयते(तये) भारतगा कथैषा ॥६८॥
‘सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । वेदशास्त्रात् परं नास्ति न दैवं केशवात् परम्’ ॥६९॥
‘आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा’(अनुषासपर्वणि.१८६.११,गरुडपुाणे आचारकाण्डे.२३०.१) ॥७०॥
‘स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः’(पाद्मे.उत्तरखण्डे.७१.१००) ॥७१॥
‘को हि तं वेदितुं शक्तो यो न स्यात् तद्विधोऽपरः(तद्वधः परः) । तद्विधश्चापरो नास्ति तस्मात् तं वेद सः स्वयम् ॥७२॥
को हि तं वेदितुं शक्तो नारायणमनामयम् । ऋते सत्यवतीसूनोः कृष्णाद् वा देवकीसुतात् (म.भा.सभा.प.६१.३१) ॥७३॥
अप्रमेयोऽनियोज्यश्च स्वयं कामगमो वशी । मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव ॥७४॥
न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः । परमात् परमेतस्माद् विश्वरूपान्न विद्यते ॥७५॥
वसुदेवसुतो नायं नायं गर्भेऽवसत् प्रभुः । नायं दशरथाज्जातो न चापि जमदग्नितः ॥७६॥
जायते नैव कुत्रापि म्रियते कुत एव तु । न(म) वेध्यो मुह्यते नायं बद्ध्यते नैव केनचित् । कुतो दुःखं स्वतन्त्रस्य नित्यानन्दैकरूपिणः ॥७७॥
ईशन्नपि हि देवेशः सर्वस्य जगतो हरिः । कर्माणि कुरुते नित्यं कीनाश इव दुर्बलः (म.भा.उद्योग.६७.१४)॥७८॥
नाऽत्मानं वेद मुग्धोऽयं दुःखी सीतां च मार्गते । बद्धः शक्रजितेत्यादि लीलैषाऽसुरमोहिनी ॥७९॥
मुह्यते शस्त्रपातेन भिन्नत्वग्रुधिरस्रवः । अजानन् पृच्छति स्मान्यांस्तनुं त्यक्त्वा दिवं गतः ॥८०॥
इत्याद्यसुरमोहाय दर्शयामास नाट्यवत् । अविद्यमानमेवेशः कुहकं तद्विदुः सुराः ॥८१॥
प्रादुर्भावा हरेः सर्वे नैव प्रकृतिदेहिनः । निर्दोषा गुणसम्पूर्णा दर्शयन्त्यन्यथैव तु ॥८२॥
दुष्टानां मोहनार्थाय सतामपि तु(च) कुत्रचित् । यथायोग्यफलप्राप्त्यै लीलैषा परमात्मनः’ ॥८३॥
‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते’(भ. गी. ७.२) ॥८४॥
‘अहं कृत्स्नस्य जगतः प्रभवः प्रळयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय’(भ. गी. ७.६-७) ॥८५॥
‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्’(भ. गी. ९.११) । परं भावमजानन्तो मम भूतमहेश्वरम्॥८६॥
‘मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः’(भ. गी. ९.१२) ॥८७॥
‘महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्’(भ. गी. ९.१३) ॥८८॥
‘पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव’(भ. गी. ११.४३) ॥८९॥
‘परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः’(भ. गी. १४.१) ॥९०॥
‘ममयोनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत’(भ. गी. १४.३) ॥९१॥
‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥९२॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥९३॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥९४॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद् भजति मां सर्वभावेन भारत ॥९५॥ (इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥)
(इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥(भ.गी.१४.२))इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ । एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत’(भ. गी. १५.१६-२०) ॥९६॥
‘द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु’(भ. गी. १६.६) ॥९७॥
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’ । अपरस्परसम्भूतं किमन्यत्कामहैतुकम्॥(भ. गी. १६.८) ’॥९८॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः ।प्रभवन्त्युग्रकर्माणः क्षयाय जगतोहिताः॥’ (भ. गी. १६.९)॥९९ ॥
‘ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ।आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया’(भ. गी. १६.१४-१५) ॥१००॥
‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः’(भ. गी. १६.१८)। ‘ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु’(भ. गी. १६.१९) ॥१०१॥
‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’(भ. गी. १६.२०) ॥१०२॥
‘सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम्’(भ. गी. १८.२०) ॥१०३॥
‘सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्’(भ. गी. १८.६४) ॥१०४॥
‘मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे’(भ. गी. १८.६५) ॥१०५॥
‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । सर्वेष्वेतेषु राजेन्द्र ज्ञानेष्वेतद् विशिष्यते’(महा. १२.३३७.६३(२५९.६८)) ॥१०६॥
‘ज्ञानेष्वेतेषु राजेन्द्र साङ्ख्यपाशुपतादिषु । यथायोगं यथान्यायं निष्ठा नारायणः परः’(महा. १२.३३७.६४ \३५९.६९) ॥१०७॥
‘पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप । एकान्तभावोपगता वासुदेवं विशन्ति ते’(महा. १२.३३७.६७ \३५९.७२) ॥१०८॥
\ (जनमेजय उवाच)‘बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु । को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति’(महा. १२.३३८.१ \३६०.१) ॥१०९॥
(वैशम्पायन उवाच)‘ नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’(महा. १२.३३८.२\३६०.३ ) ॥११०॥
‘आह ब्रह्मैतमेवार्थं महादेवाय पृच्छते । तस्यैकस्य ममत्वं हि स चैकः पुरुषो विराट्’(महा.१२.३६१.९ ) ॥१११॥
‘अहं ब्रह्मा चाऽद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः । मत्तो जगत् स्थावरं जङ्गमं च सर्वे वेदा सरहस्याश्च पुत्र’(महा.१२.३६१.२०-२१ ) ॥११२॥
तथैव भीमवचनं धर्मजं प्रत्युदीरितम् । ‘ब्रह्मेशानादिभिः सर्वैः समेतैर्यद्गुणांशकः । नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा ॥११३॥
स एष भगवान् कृष्णो नैव केवलमानुषः । यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः’(महा.१२.३५०.१२ ) ॥११४॥
वचनं चैव कृष्णस्य ज्येष्ठं कुन्तीसुतं प्रति । ‘रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मामाश्रितो नित्यं नाहं (कि)कञ्चिदुपाश्रितः (म.भा.१४.११८.३७)॥११५॥
यथाऽऽश्रितानि ज्योतींषि ज्योतिःश्रेष्ठं दिवाकरम् । एवं मुक्तगणाः सर्वे वासुदेवमुपाश्रिताः’ ॥११६॥
भविष्यत्पर्वगं चापि वचो व्यासस्य सादरम् । ‘वासुदेवस्य महिमा भारते निर्णयोदितः ॥११७॥
तदर्थास्तु कथाः सर्वा नान्यार्थं वैष्णवं यशः । तत्प्रतीपं तु यद् दृश्येन्न तन्मम मनीषितम् ॥११८॥
भाषास्तु त्रिविधास्तत्र मया वै सम्प्रदर्शिताः । उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिना ॥११९॥
शैवदर्शनमालम्ब्य क्वचिच्छैवी कथोदिता । समाधिभाषयोक्तं यत् तत् सर्वं ग्राह्यमेव हि ॥१२०॥
अविरुद्धं समाधेस्तु दर्शनोक्तं च गृह्यते । आद्यन्तयोर्विरुद्धं यद् दर्शनं तदुदाहृतम् ॥१२१॥
दर्शनान्तरसिद्धं च गुह्यभाषाऽन्यथा भवेत् । तस्माद् विष्णोर्हि महिमा भारतोक्तो यथार्थतः ॥१२२॥
तस्याङ्गं प्रथमं वायुः प्रादुर्भावत्रयान्वितः । प्रथमो हनुमान् नाम द्वितीयो भीम एव च । पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः ॥१२३॥
त्रेताद्येषु युगेष्वेष सम्भूतः केशवाज्ञया । एकैकशस्त्रिषु पृथग् द्वितीयाङ्गं सरस्वती ॥१२४॥
शंरूपे तु रतेर्वायौ श्रीरित्येव च कीर्त्यते । सैव च द्रौपदी नाम काळी चन्द्रेति चोच्यते ॥१२५॥
तृतीयाङ्गं हरेः शेषः प्रादुर्भावसमन्वितः । प्रादुर्भावा नरश्चैव लक्ष्मणो बल एव च ॥१२६॥
रुद्रात्मकत्वाच्छेषस्य शुको द्रौणिश्च तत्तनू । इन्द्रे नरांशसम्पत्त्या पार्थोऽपीषत् तदात्मकः ॥१२७॥
प्रद्युम्नाद्यास्ततो विष्णोरङ्गभूताः क्रमेण तु । चरितं वैष्णवानां (च)तद् विष्णूद्रेकाय कथ्यते’ ॥१२८॥
तथा भागवतेऽप्युक्तं हनूमद्वचनं परम् । ‘मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतोऽन्यथा स्यू(स्य हि स्यू) रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्य ॥१२९॥
न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि जहाति कर्हिचित्’(भा.पु. ५.१९.५-६) ॥१३०॥
यत्पादपङ्कजपरागनिषेवकाणां दुःखानि सर्वाणि लयं प्रयान्ति । स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार ॥१३१॥
‘क्वचिच्छिवं क्वचिदृषीन् क्वचिद् देवान् क्वचिन्नरान् । नमत्यर्चयति स्तौति वरानर्थयतेऽपि च ॥१३२॥
लिङ्गं प्रतिष्ठापयति वृणोत्यसुरतो वरान् । सर्वेश्वरः स्वतन्त्रोऽपि सर्वशक्तिश्च सर्वदा । सर्वज्ञोऽपि विमोहाय जनानां पुरुषोत्तमः’ ॥१३३॥
तस्माद् यो महिमा विष्णोः सर्वशास्त्रोदितः स हि । नान्यदित्येष शास्त्राणां निर्णयः समुदाहृतः॥१३४॥
भारतार्थस्त्रिधा प्रोक्तः स्वयं भगवतैव हि । ‘मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथा परे । तथोपरिचराद्यन्ये भारतं परिचक्षते’(महा. १.१.५०) ॥१३५॥
‘सकृष्णान् पाण्डवान् गृह्य योऽयमर्थः प्रवर्तते । प्रातिलोम्यादिवैचित्र्यात् तमास्तीकं प्रचक्षते ॥१३६॥
धर्मो भक्त्यादिदशकः श्रुतादिः शीलवैनयौ । सब्रह्मकास्तु ते यत्र मन्वादिं तं विदुर्बुधाः ॥१३७॥
नारायणस्य नामानि सर्वाणि वचनानि तु । तत्सामर्थ्याभिधायीनि तमौपरिचरं विदुः ॥१३८॥
भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः । योगः प्राणो बलं चैव वृकोदर इति स्मृतः ॥१३७॥
एतद्दशात्मको वायुस्तस्माद् भीमस्तदात्मकः । सर्वविद्या द्रौपदी तु यस्मात् सैव सरस्वती ॥१३५॥
अज्ञानादिस्वरूपस्तु कलिर्दुर्योधनः स्मृतः । विपरीतं तु यज्ज्ञानं दुःशासन इतीरितः ॥१४१॥
नास्तिक्यं शकुनिर्नाम सर्वदोषात्मकाः परे । धार्तराष्ट्रास्त्वहङ्कारो द्रौणी रुद्रात्मको यतः ॥१४२॥
द्रोणाद्या इन्द्रियाण्येव पापान्यन्ये तु सैनिकाः । पाण्डवेयाश्च पुण्यानि तेषां विष्णुर्नियोजकः ॥१४३॥
एवमध्यात्मनिष्ठं हि भारतं सर्वमुच्यते । दुर्विज्ञेयमतः सर्वैर्भारतं तु सुरैरपि ॥१४४॥
स्वयं व्यासो हि तद् वेद ब्रह्मा वा तत्प्रसादतः । तथाऽपि विष्णुपरता भारते सारसङ्ग्रहः’ ॥१४५॥
इत्यादिव्यासवाक्यैस्तु विष्णूत्कर्षोऽवगम्यते । वाय्वादीनां क्रमश्चैव तद्वाक्यैरेव चिन्त्यते ॥१४६॥
‘वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स स्मृतः । न ब्रह्मसदृशः कश्चिच्छिवादिषु कथञ्चन’ ॥१४७॥
‘ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे । बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्व च कश्चनैव’ ॥१४८॥
‘बळित्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । यदीमुप ह्वरते साधते मतिर्ऋतस्य धेना अनयन्त सस्रुतः ॥१४९॥
पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु । तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥१५०॥
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । यदीमनु प्रदिवो मध्व आधवे गुहा सन्तम् मातरिश्वा मथायति ॥१५१॥
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति । उभा यदस्य जनुषं यदिन्वत आदिद् यविष्ठो अभवद् घृणा शुचिः ॥१५२॥
आदिन् मात्रॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे । अनु यत्पूर्वा अरुहत् सनाजुवो नि नव्यसीष्ववरासु धावते’(ऋग्वेद १.१४१.१-५) ॥१५३॥
‘अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः । ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः’(म.भा.१.१२९.४६) ॥१५४॥
‘बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् । बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः’ ॥१५५॥
‘वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः । अनावृत्तिर्देहिनां देहपाते तस्माद् वायुर्देवदेवो विशिष्टः’(म.भा.१२.२६४.४१) ॥१५६॥
‘तत्त्वज्ञाने विष्णुभक्तौ धैर्ये स्थैर्ये पराक्रमे । वेगे च लाघवे चैव प्रलापस्य च वर्जने ॥१५७॥
भीमसेनसमो नास्ति सेनयोरुभयोरपि । पाण्डित्ये च पटुत्वे च शूरत्वे च बलेऽपि च’ ॥१५८॥
तथा युधिष्ठिरेणापि भीमं प्रति समीरितम् । ‘ धर्मश्चार्थश्च कामश्च मोक्षश्चैव यशो ध्रुवम् । त्वय्यायत्तमिदं सर्वं सर्वलोकस्य भारत’ ॥१५९॥
विराटपर्वगं चापि वचो दुर्योधनस्य हि । ‘वीराणां शास्त्रविदुषां कृतिनां तत्त्वनिर्णये । सत्त्वे बाहुबले धैर्ये प्राणे शारीरसम्भवे’(म.भा.४.३२.१६) ॥१६०॥
साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे । चत्वारः प्राणिनां श्रेष्ठाः सम्पूर्णबलपौरुषाः(म.भा.४.३२.१७) ॥१६१॥
भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान् । चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ॥(म.भा.४.३२.१८) अन्योन्यानन्तरबलाः क्रमादेव प्रकीर्तिताः’(म.भा.४.३२.१९) ॥१६२॥
वचनं वासुदेवस्य तथोद्योगगतं परम् । ‘यत् किञ्चाऽऽत्मनि कल्याणं सम्भावयसि पाण्डव । सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्(म.भा.५.७६.३) ॥१६३॥
यादृशे च कुले जातः सर्वराजाभिपूजिते । यादृशानि च कर्माणि भीम त्वमसि तादृशः’(महा. ५.७६.४) ॥१६४॥
‘अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः । धूरर्जुनेन वोढव्या वोढव्य इतरो जनः’ (महा. ५.७६.१८ )॥१६५॥
उक्तं पुराणे ब्रह्माण्डे ब्रह्मणा नारदाय च । ‘यस्याः प्रसादात् परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः । माता च यैषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ ॥१६६॥
या मारुताद् गर्भमधत्त पूर्वं शेषं सुपर्णं गिरीशं सुरेन्द्रम् । चतुर्मुखाभांश्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ’ ॥१६७॥
‘यस्याधिको बले नास्ति भीमसेनमृते(भीममेकमृते) क्वचित् । न विज्ञाने न च ज्ञान एष रामः स लाङ्गली’ ॥१६८॥
‘यस्य न प्रतियोद्धाऽस्ति भीमेमेकमृते क्वचित् । अन्विष्यापि त्रिलोकेषु स एष मुसलायुधः’ ॥१६९॥
तथा युधिष्ठिरेणैव भीमाय समुदीरितम् । ‘अनुज्ञातो रौहिणेयात् त्वया चैवापराजित । सर्वविद्यासु बीभत्सुः कृष्णेन च महात्मना ॥१७०॥
अन्वेष रौहिणेयं च त्वां च भीमापराजितम् । वीर्ये शौर्येऽपि वा नान्यस्तृतीयः फल्गुनादृते’ ॥१७१॥
तथैव द्रौपदीवाक्यं वासुदेवं प्रतीरितम् । ‘अधिज्यमपि यत् कर्तुं शक्यते नैव गाण्डिवम् । अन्यत्र भीमपार्थाभ्यां भवतश्च जनार्दन’ ॥१७२॥
तथैवान्यत्र वचनं कृष्णद्वैपायनेरितम् । ‘द्वावेव पुरुषौ लोके वासुदेवादनन्तरौ । भीमस्तु प्रथमस्तत्र द्वितीयो द्रौणिरेव च ॥१६८॥
अक्षयाविषुधी दिव्ये ध्वजो वानरलक्षणः । गाण्डीवं धनुषां श्रेष्ठं तेन द्रौणेर्वरोऽर्जुनः’ ॥१७४॥
इत्याद्यनन्तवाक्यानि सन्त्येवार्थे विवक्षिते । कानिचिद् दर्शितान्यत्र दिङ्मात्रप्रतिपत्तये ॥१७५॥
तस्मादुक्तक्रमेणैव पुरुषोत्तमता हरेः । अनौपचारिकी सिद्धा ब्रह्मता च विनिर्णयात् ॥१७६॥
पूर्णप्रज्ञकृतेयं सङ्क्षेपादुद्धृतिः सुवाक्यानाम् । श्रीमद्भारतगानां विष्णोः पूर्णत्वनिर्णयायैव ॥१७७॥
स प्रीयतां परतमः परमादनन्तः सन्तारकः सततसंसृतिदुस्तरार्णात् । यत्पादपद्ममकरन्दजुषो हि पार्थाः स्वाराज्यमापुरुभयत्र सदा विनोदात् ॥१७८॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये वाक्योद्धारो नाम द्वितीयोऽध्यायः