Bruhadaranyaka/C5/S2: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== द्वितीयं ब्राह्मणम् == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BR | | document_id = BR | ||
Revision as of 19:05, 10 April 2026
द्वितीयं ब्राह्मणम्
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं, देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्ठा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥
अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २ ॥
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ३ ॥
॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये द्वितीयं ब्राह्मणम् ॥
॥ इति बृहद्भाष्ये द्वितीयं ब्राह्मणम् ॥ २ ॥
ज्ञानदानं तु देवानां फलदानं तु कर्मणाम् ।
विष्णुना विहितं पूर्वं पुनर्देवनरासुराः ॥ ब्रह्माणमपि पप्रच्छुर्देवानां सद्गुणोच्छ्रितेः । अनहंकारमात्रं तु ब्रह्मणा विहितं सदा ॥ सर्वोच्चमोक्षसम्प्राप्त्यै नराणां ज्ञानसाधनम् ॥ देवादीनां दानमेव हविरादेः प्रकीर्तितम् ।
तमःप्राप्तिविलम्बाय दैत्यानां विहिता दया ॥ इति प्रवृत्ते ॥