Bruhadaranyaka/C1/S6: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== सप्तान्नब्राह्मणम् == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BR | | document_id = BR | ||
Revision as of 19:05, 10 April 2026
सप्तान्नब्राह्मणम्
ससर्ज तेषां स्वार्थानि चकार त्रीणि केशवः ॥ मनो वाचं तथा प्राणं तस्मात् तैस्तुष्टिमेति सः । तस्मात् तद्भक्तिकामः स्यात् सङ्कल्पं तत्कृतिं प्रति ॥ कुर्यात् तद्वेदनेच्छां च श्रद्धां तस्य गुणोन्नतौ । अश्रद्धामन्यसाम्ये वाऽप्यन्येषामुन्नतौ ततः ॥ अन्येषां तत्स्वरूपत्वे प्राकृतत्वादिकेऽस्य च । धृतिं तन्निन्दिवागादौ प्राप्ते तत्रैव चाधृतिम् ॥ तन्मतस्य विसर्गार्थे ह्रियं तद्भक्तिवर्जने । तद्विवेके धियं चैव तदज्ञाने भियं तथा ॥ वाचं नित्यं तद्गुणोक्तौ प्राणं तत्कर्मणि स्फुटम् । तदन्यकर्मसन्त्यागे चापानं व्यानमस्य च ॥ विरोधिनां निरासित्वेऽथोदानं योगधारणे । मनोवागादीन्द्रियाणां समानं नियमेऽत्र तु ॥ अन्नमुक्तेषु सुस्थैर्ये नरः कुर्यात् सदैव हि । अनेकगोचरेच्छा स्यात् काम एकाश्रये स्थितः ॥ प्राणः प्रवृत्तिहेतुः स्यादपानस्तु निवर्तने । बलकर्मा तथा व्यान उदानो योगकर्मकृत् ॥ देहेन्द्रियमनोनेता समानो नः स्थितिप्रदः । मनोवाक्प्राणसान्निध्यप्राधान्याज्जीव उन्नतिः ॥ मनोवाक्प्राणरूपोऽसौ भगवान् पुरुषोत्तमः । मनोवाक्प्राणतस्तस्य जाता अन्येऽभिमानिनः ॥ ब्रह्मा सरस्वती वायुर्मनआद्यभिमानिनः । सर्वस्यान्तः स्थितं विष्णुमायत्ता वाग्घि नः सदा ॥ सर्ववाचश्च घोषाश्च विष्णोर्नामेति कीर्तिताः । तज्ज्ञानां तत्फलं च स्यादज्ञानां तत्फलं न तु ॥ सर्वेन्द्रियगतं ज्ञानं मनआयत्तमीरितम् । पृष्टे स्पृष्टोऽप्यनेनाहं स्पृष्ट इत्येव वेत्त्यतः ॥
मनस्यव्याकुलेऽन्यत्र नैव वेत्ति कथञ्चन ॥
स इन्द्रः परमैश्वर्यादशत्रुः समवर्जनात् । वायुरेते समा व्याप्तौ ब्रह्मेरौ गुणतोऽधिकौ ॥ अनन्ताश्च गुणा ह्येषामन्यजीवव्यपेक्षया । तेभ्योऽप्यनन्ता विष्णोस्तु तेषामेवमुपासकः ॥
नित्यलोकोपभोगी स्यादनित्यस्यान्यथा भवेत् ।
रात्रौ रात्रौ क्षयादस्य पूरणाद् रात्रिनामकाः । कलाः पञ्चदश प्रोक्ता ध्रुवैवास्य तु षोडशी ॥ अकलोऽपि स चन्द्रस्य कलाभिः प्रोच्यते तथा । सोऽमावास्यां यतो रात्रौ प्राणभृत्सु व्यवस्थितः ॥ कल्यावेशादल्पदोषः कृकलासवधोऽपि सन् । तस्यां रात्रौ महान् दोषो देवतावेशतो भवेत् ॥ वायुः संवत्सरः प्रोक्तो वत्सो विष्णोरसौ यतः ।
सम्यगेव रतिं याति .
अध्रुवास्तु कला यद्वत् सौम्यस्तस्य तथा धनम् । आगमापायवत्त्वात् तु ध्रुवावद्देह उच्यते ॥ नाभिस्थानं शरीरं तु चक्रस्य प्रधिवद्धनम् । सर्वस्वविजयेऽप्यस्मात् प्रधिमात्रं हि गच्छति ॥ एवं महागुणान् देवानेवं यो वेद पूरुषः । न चैभ्योऽतिप्रियः कश्चिद्विष्णोरस्ति कदाचन ॥ चतुर्थं भोज्यमेवान्नं सर्वसाधारणं स्मृतम् । आत्मनोऽतिसमीपत्वं तस्य योऽन्नस्य मन्यते ॥ अक्षयं पापमस्य स्याद्देवब्रह्मस्वहारिणः । तदेवमन्त्रयुक्तत्वाद् बलिहोमात्मना द्वयम् ॥ देवानां प्रददौ विष्णुस्तस्मान्नैवेच्छया यजेत् । यदीच्छया यजेत् तेषामपहर्ता भविष्यति ॥ देवस्वं तेन येनैव काम्यार्थं विनियोजितम् । परकीयेन वित्तेन तस्मिन् विनिमये यथा ॥ चतुष्पाद्भ्यो द्विपद्भ्यश्च पशुभ्यः पयआत्मकम् । प्रायच्छत् सप्तमान्नं स गोक्षीरं मुख्यमत्र च ॥ आत्मने चैव देवानां तद्धोमार्थं प्रकल्पितम् । संवत्सरं गोपयसा येन होमो हरेः कृतः ॥ भगवत्तत्त्वविदुषा तस्य मुक्तिर्न संशयः । अदृष्टभगवद्रूपस्यैतद्दर्शनकारणम् ॥ भगवद्दृष्टिपूतस्तु विना होमेन मुच्यते । सप्तान्नसृष्टितत्त्वज्ञस्त्वेकहोमेन मुच्यते ॥ विशेषज्ञो यतः सोऽयं भगवत्तत्त्ववेदने । को नाम भगवान् विष्णुः परमानन्दरूपतः ॥ प्राणिनां कर्मभिश्चैव स्वेच्छया च पुनः पुनः । सप्तान्नं सृजते यस्मादन्नानामक्षयस्ततः ॥ तस्मादक्षितिनामासौ भगवान् पुरुषोत्तमः । य एवमक्षितिं वेद भगवन्तं सनातनम् ॥ अप्रयत्नेन भोगाः स्युर्यथेष्टास्तस्य सर्वदा । सप्तान्नोपासनं यस्माद्देवानां योग्यमुत्तमम् ॥ तस्माद्देवत्वमाप्नोति योग्यो देवपदस्य यः । ऊर्जं देवान्नमुद्दिष्टं ऊर्जितास्तु गुणास्तथा ॥ तदप्याप्नोति न नरा योग्या एतदुपासते । ज्ञानमात्रेण देवानां सामीप्यं प्राप्नुवन्ति ते ॥
इति नारायणीये ॥
जन्मान्तरं विना नैव कर्मणा तत्तु युज्यते ॥ पुत्रेण विद्यया नित्यमेकैकेनापि युज्यते । उभाभ्यां किमु वक्तव्यमष्टभागफलं सुतात् ॥ विद्यया त्वर्धमाप्नोति सर्वं सप्तान्नविल्लभेत् । पुत्रमाविश्य सामर्थ्यान्मुच्यतेऽच्छिद्रकर्मणः ॥
अक्ष्णं पुदिति च च्छिद्रं पुत्रस्तत्त्राणको भवेत् ।
अधिकावेशतो देवेष्वतो देवा इति स्मृताः । यदावेशात् सर्वमुक्तं सत्यं देवी तु वाघ्धि सा ॥ यदावेशान्न दुःखी स्यादानन्दी दैवतं मनः । यदावेशात् सर्वकार्येष्वम्लानः प्राण एव सः ॥ सर्वसामर्थ्ययुक्तः स्यान्न म्रियेत कदाचन । एवं सप्तान्नविन्मुक्तस्त्रिभिराविष्ट एव तु ॥ सर्वेषु व्याप्तिमन्वेति न दुःखी प्राणिषु स्थितेः । सप्तान्नोपासनायोग्या देवा एकान्ततो हि यत् ॥ देवांश्च पापं नाप्नोति तस्मात् पापं न तस्य तु । देवा मनुष्यतामंशैराप्ता ये पुत्रतः फलम् ॥ स्यात् तेषामेव चामुक्तेर्मुक्तानां न तु किञ्चन । मुक्तानां देववागादेरावेशः सम्प्रकीर्तितः ॥ प्राणज्ञानं यथाऽवन्ति रहस्यमिति सर्वदा ।
एवं मुक्तस्वरूपं चाप्यवन्त्येव रहस्यतः ॥
चतुर्मुखस्य प्राणस्य न विशेषोऽस्ति कश्चन ॥ तस्माद् विष्णोर्व्रतस्यानु नित्यं प्राणव्रतं चरेत् । हंसोपास्तिः श्वासरूपे तयोर्व्रतमुदीरितम् ॥ हंसरूपी हि तौ देवौ श्वसोच्छ्वासप्रवर्तकौ । तस्मात् प्राण्यादपान्याच्च सद्रूपं संस्मरन् सदा ॥ नान्यस्योपासनं कुर्यात् तद्भृत्यत्वं विना क्वचित् । इन्द्रियाणि ससर्जादौ वासुदेवः प्रजापतिः ॥ अध्यात्ममिन्द्रियाण्याहुरधिदैवं तु देवताः । अध्यात्ममग्निर्वाङ्ग्नामा चक्षुरादित्य उच्यते ॥ श्रोत्रं तु चन्द्रमा नाम मनः स्थूलं तु वासवः । येन यज्ञादिकं कुर्याच्छेषरुद्रविपास्तथा ॥ मनः सूक्ष्मं ज्ञानयोग्यं शेषो व्याख्यानगोचरम् । रुद्रस्तु मननाख्यं च गरुडो ध्यानगोचरम् ॥ वायुः प्राण इति प्रोक्तो येन सर्वं नियम्यते । त एते भगवत्सृष्टा व्यूदिरेऽध्यात्मसंस्थिताः ॥ अधिदैवे ज्वलत्कर्मा वह्निः सूर्यस्तु तापकः । सोमः कान्तौ वृष्टिकर्मा वासवः शेष एव तु ॥ पञ्चरात्रप्रवृत्तीशो रुद्रस्तत्स्थक्रियापरः । सर्वप्रवर्तको वायुर्ज्ञानमोक्षप्रदस्तथा ॥ वेदप्रवृत्तिकृद्धीन्द्रस्तेऽधिदैवे च पस्पृधुः । अहं श्रेयानहं श्रेयानिति तानब्रवीद्धरिः ॥ स्वकर्म यस्त्वविश्रान्तं कुर्याच्छ्रेयान् स वः स्मृतः । इति श्रुत्वा ततश्चक्रुः कर्म स्वं स्वमनारतम् ॥॥ तानेताञ्छ्रमरूपेण प्राप ब्रह्मा प्रजापतिः । श्रान्ताः स्वं भगवत्कर्म न शेकुः सर्वदेवताः ॥ वायुं तु समशक्तित्वान्नाप ब्रह्मा प्रजापतिः । तेनासौ भगवत्कर्म सर्वं च कृतवान् सदा ॥ श्रमात् पापात्मको मृत्युर्भगवत्कर्मवर्जनात् । अन्यान् देवानवापाशु नैव वायुं कदाचन ॥॥ ते वायुं ज्ञानमैच्छन्त श्रेष्ठोऽयमिति निश्चिताः । तं ज्ञात्वा तेन चाविष्टास्तद्भृत्यत्वमुपागताः ॥ तस्मात् प्राणाश्च मरुत इत्येषां नाम संस्थितम् । वायोर्देवा हि जायन्ते लयमेष्यन्ति तत्र च ॥ तस्मान्नित्यं तद्व्रताश्च तद्व्रतोऽतो भवेत् सदा । अन्यदेवव्रतारम्भं यदि कुर्यात् समापयेत् ॥
तेनासौ वायुना साकं भगवन्तमुपेष्यति ॥ इति नारायणश्रुतौ ।