Bruhadaranyaka/C1/S4: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== प्रजापतिब्राह्मणम् == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BR | | document_id = BR | ||
Revision as of 19:05, 10 April 2026
प्रजापतिब्राह्मणम्
एक एव श्रिया सार्धं तमात्मा पुरुषेत्यपि ॥ आहुस्तस्मात् पुरुषविधो ब्रह्मा समभवद्विभोः । ब्रह्मादेश्च श्रियश्चैव नित्यं विष्णुर्गुणाधिकः ॥ यथा तथैव रुद्रादेर्ब्रह्मा यस्माद् गुणाधिकः । एतस्मात् पुरुषविधता ब्रह्मणः सम्प्रकीर्तिता ॥ स तु सर्वा दिशो दृष्ट्वा नान्यद् दृष्ट्वा पितामहः । अब्रवीदहमस्मीति स्वाहेयत्वमनुस्मरन् ॥ हातुं शक्यमिदं सर्वमासीदेकोऽभवं यतः । ओयत्वं स्वरूपस्य स एवं समचिन्तयत् ॥ ततोऽभवदहंनामा स चाभूत् पुरुषाभिधः । ओषणात् सर्वपापानां पूर्वं पुरुष उच्यते ॥ नारायणप्रसादेन य एवं पुरुषाभिधम् । वेद स्वाभिमतं यस्तु पूर्वं प्राप्तुमभीप्सति ॥
ओषेत् स्वयमनुष्टः सन् ब्रह्मविष्णुप्रसादतः ॥ १ ॥
तस्मादद्यापि चैकस्य निर्विवेकं भयं भवेत् ॥ विममर्श ततो ब्रह्मा यस्मान्मद्बाधको न हि । मया सृज्या यतः सर्वे इतः पश्चात्तनो हरः ॥ अतः कस्माद्बिभेमीति तस्य भीतिरपोहिता । विष्णोरतिप्रियत्वात्तु तदन्येषां पितृत्वतः ॥ कस्माद्भयं भवेत् तस्य समानाद्धि भयं भवेत् । विरोधिनोऽधिकाद्वापि हीनाद्वा पारवश्यतः ॥ हीनमेव यतस्तस्य सर्वमेव जगद्वशे ।
न च जातं तदा सर्वं हरिरेव यतः परः ॥ २ ॥
अथापि पत्नीमैच्छच्च स स्थूलत्वमुपागतः ॥ दम्पती सहितौ यावद्ब्रह्मा चैव सरस्वती । तावद्देहोऽभवद्ब्रह्मा तदा देहं द्विधाऽकरोत् ॥ पातनात् पतिपत्नीत्वशब्द एनोरजायत । तस्मात् तयोरेकसुखं भवत्येवार्धपात्रवत् ॥ ततस्तस्यामुमेशादीन् देवान् सर्वान् मनूनपि ।
जनयामास बोधस्य प्राधान्यं हि मनुष्यता ॥ ३ ॥
तद्भार्यतामात्मनश्च नितरां धर्ममीक्षती ॥ अनाद्यनन्तसम्बन्धमुभयोरपि जानती । स्त्रीस्वभावं दर्शयन्ती साऽधर्ममिव चैक्षत ॥ नानासृष्टिप्रसिद्ध्यर्थं सा गोत्वादिकमाव्रजत् । वृषादिरूपतां सोऽपि प्राप्य सृष्ट्वेदमञ्जसा ॥ सर्जनात् सृष्टिनामाऽभूत् तद्वित्तत्पुत्रतां व्रजेत् ।
पिपीलिकान्तरुद्रादौ यथायोग्यत्वमात्मनः ॥
ओष्ठद्वयं ममन्थान्तर्हस्तौ चैव परस्परम् ॥ तन्मुखाच्चैव हस्ताभ्यामन्तरग्निरजायत । एवं सर्वस्य हेतुत्वात् सर्वस्यापि पतित्वतः ॥ सर्वे देवा एष एवेत्याहुर्वेदविदो जनाः । स्वतन्त्रेषु यतः शब्दा वर्तेयुः सर्व एव च ॥ स रेतसः पुनः सोममसृजद्ब्रह्मविद्धरः । सर्वाधिकोऽपि योग्यत्वान्मर्त्यधर्मतया पुरा ॥ अवमो योग्यताहीनानप्यायुर्मात्रतोऽधिकान् । यतोऽस्रागतिसृष्टिस्तं देवं यो वेद पूरुषः ॥ विष्णोः प्रसादतः सृष्टिं देवलोके स जायते ।
आत्मयोग्यानुसारेण सुखज्ञानादियुक्तता ॥ इति ब्रह्मतर्के ।