Bruhadaranyaka/C1/S1: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== अश्वब्राह्मणम् == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BR | | document_id = BR | ||
Revision as of 19:05, 10 April 2026
अश्वब्राह्मणम्
प्राणादेरीशितारं परमसुखनिधिं सर्वदोषव्यपेतं सर्वान्तस्थं सुपूर्णं प्रकृतिपतिमजं सर्वबाह्यं सुनित्यम् ।
सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजाद्यैः सदा सेव्यमानं विष्णुं वन्दे सदाऽहं सकलजगदनाद्यन्तमानन्ददं तम् ॥ १ ॥तत्र सन्निहितो विष्णुरश्वरूपः स्वयं प्रभुः ॥ तयोश्च प्रतिमा मेध्यो यतोऽश्वोऽयं श्रुतौ श्रुतः । सर्वं जगत्तदङ्गेषु तस्मात् सन्निहितं स्मृतम् ॥
तयोरङ्गेष्विदं यस्मात् जगत्सर्वं प्रतिष्ठितम् ॥ इति प्रध्याने ।हविः कपालयूपाद्या देवता एव सर्वशः ॥ तत्तन्नामैव नामैषां भिन्नानामभिमानतः ।
नामानि तान्यपि हरेः स हि सर्वगुणाधिकः ॥ इति नारदीये ।सप्तम्यर्थाः समुद्दिष्टाः पञ्चम्यर्थास्तथा श्रुताः ॥ षष्ठ्यर्थाश्च चतुर्थ्यर्थास्तृतीयार्थाश्च सर्वशः । तदैक्यवाचिवच्छब्दाः अपि तद्गत्ववाचकाः ॥ ऐक्यार्था नैव ते सर्वे भिन्नरूपाः यतः सदा । ईशाङ्गवाचिनो वा स्युस्तेषामेव तदर्थतः ॥
सप्तसु प्रथमा यस्मात् तत्तद्योग्यार्थता भवेत् ॥ इति ब्रह्मतर्के ।प्रतीतानुपपत्तेरप्यभासत्वविवक्षया ॥
पुनर्वचनमुद्दिष्टं शतशोऽपि पृथक् पृथक् ॥ इति च ।तत्स्थत्वात् सिकताः सर्वा उवध्यस्थाः प्रकीर्तिताः ॥ उर्व्यास्तु पादगत्वेऽपि नोवध्यत्वं विरुध्यते । यतस्तदभिमानिन्यो देवता अनुकीर्तिताः ॥
तासां च बहुरूपत्वादैश्वर्याच्च परेशितुः । इति च ।पूर्वपश्चार्धभेदेन दिशः पार्श्वे प्रकीर्तिते ॥ शिरश्च पादमूलानि पुच्छं षडृतवः स्मृताः । संवत्सराभिमानी च ब्रह्मा सर्वशरीरगः ॥ क्लोमानश्च यकृच्चैव मांसी गिर्यभिमानिनः ।
आन्त्रेषु नद्यः सर्वाश्च सोऽयं विष्णुः सनातनः ॥ इति च ।
अहोरात्राभिमन्तारौ तयोरप्यभिमानिनौ ॥ कामश्चाथ रतिश्चैव विष्णुब्रह्मशरीरजौ । समुद्रेकात् समुद्रस्तु विष्णुः पूर्वमुदाहृतः ॥ उपचारेण तूद्रेकादपरश्च चतुर्मुखः । स विष्णुर्हयनामा सन् देववाह्येषु संस्थितः ॥ वाजिनामा तु गन्धर्वेष्वर्वनामाऽसुरेषु च । मनुष्येष्वश्वनामाऽसौ तद्बन्धुः स्वयमेव सः ॥ तस्मादेवोत्थितिस्तस्य रूपभेदो न तस्य च । ऐश्वर्यात् स तथापीशो व्यक्तिभावं गमिष्यति ॥ हत्वा याति यतः शत्रून् हरिस्तस्मात् हयः स्मृतः । सर्वदा युद्धकर्तृत्वाद्वाजी चापि प्रकीर्तितः ॥
अर्वाऽभिगमनादुक्त आशुत्वादश्व उच्यते ॥ इति वैहायसे ।तदशक्तौ तु देवानां युध्यन्ते स्वामिनो यतः ॥ केचिद् गानरता नित्यं गन्धर्वा नर्तकाः परे ।
केचिद् वाद्यरता नित्यं चारणा देवचारकाः ॥ इति च ॥