Bhagavatatatparyanirnaya/C11/S25: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== पञ्चविंशोऽध्यायः == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BTN | | document_id = BTN | ||
Revision as of 19:05, 10 April 2026
पञ्चविंशोऽध्यायः
काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदाऽसुखम् ।मनोत्साहो यशःप्रीतिर्धार्ष्ट्यवीर्यबलोद्यमाः ॥ ३ ॥
'राजसेऽपि यदा दुःखं तामसे किमुतेति तत् ।
राजसे दुःखवचनं तामसेऽतिविवक्षया॥ इति प्रद्योते ॥ ३ ॥
सत्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः ।तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥ २२ ॥
'नैर्गुण्यसाधनं यत् तन्निर्गुणं परिकीर्तितम्। इति च ॥ २२ ॥
कैवल्यं सात्त्विकं ज्ञानं कर्मनिष्ठं तु राजसम् ।प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४ ॥
'यथाशास्त्रोक्तविज्ञानं केवलं ज्ञानमुच्यते ।
स्वदृष्टशास्त्रानुकूल्याददृष्टानां च भक्तितः ॥ गुणानां तु हरौ भावं विनिश्चित्यैतदाश्रयात् ।
यथाशास्त्रानुसन्धानं ज्ञानं तु हरिसंश्रयम्॥ इति च ॥ २४ ॥सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७ ॥
'श्रुतशास्त्रानुसारेण या श्रद्धा परमात्मनि ।
सा सात्विकी तदन्यस्याप्यनुसारेण निर्गुणा ॥ अश्रुत्वाऽपि प्रमाणं यो वासुदेवैकसंश्रयः ।
स निर्गुणो भागवतः समुद्दिष्टो मनीषिभिः॥ इति च ॥ २७ ॥सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ २९ ॥
'परोक्षज्ञानमात्मोत्थमापरोक्ष्येण दर्शनम् ।
विष्ण्वाश्रयं सुखं नित्यं गमयेत् तत्प्रसादतः ॥ न तु विष्णोः स्वरूपं तु सुखं केनचिदाप्यते । तस्यैव विषयत्वात्तु तत्सुखं चेति भण्यते ॥ परोक्षज्ञानगो यस्माद्विषयः स्वमनोगतः ।
अत आत्मोत्थमित्येव सुखमाहुर्विपश्चितः॥ इति च ॥ २९ ॥सर्वे गुणमया भावा पुरुषाव्यक्तनिष्ठिताः ।दृष्टं श्रुतमनुध्यायेद् बुद्ध्या वा पुरुषर्षभ ॥ ३१ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे पञ्चविंशोऽध्यायः ॥
दृष्टं श्रुतम् । बुद्ध्या दृष्टं चानु परं ब्रह्म ध्यायेत् ॥
'सत्वाद्गुणाज्जातमपि व्यवधानं विनैव तु ।
मुक्तिदं निर्गुणं प्रोक्तं व्यवधानेन सात्त्विकम्॥ इति ब्राह्मे ॥३१॥