Bhagavatatatparyanirnaya/C9/S6: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== षष्ठोऽध्यायः == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BTN | | document_id = BTN | ||
Revision as of 19:02, 10 April 2026
षष्ठोऽध्यायः
एवंविधानेकगुणः स राजापरात्मनि ब्रह्मणि वासुदेवे ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे षष्ठोऽध्यायः ॥
'ब्रह्मादिभक्तिकोट्यंशादंशो नैवाम्बरीषके ।
नैवान्यस्य च कस्यापि तथापि हरिरीश्वरः ॥ तात्कालिकोपचेयत्वात्तेषां यशस आदिराट् । ब्रह्मादयश्च तत्कीर्तिं व्यञ्जयामासुरुत्तमाम् ॥ मोहनाय च दैत्यानां ब्रह्मादेर्निन्दनाय च । अन्यार्थं च स्वयं विष्णुर्ब्रह्माद्याश्च निराशिषः ॥ मानुषेषूत्तमत्वाच्च तेषां भक्त्यादिभिर्गुणैः । ब्रह्मादेर्विष्ण्वधीनत्वज्ञापनाय च केवलम् ॥ दुर्वासाश्च स्वयं रुद्रस्तथाप्यन्याय्यमुक्तवान् ।
तस्याप्यनुग्रहार्थाय दर्पनाशार्थमेव च॥ इति गारुडे ॥ ८४ ॥