Bhagavatatatparyanirnaya/C8/S8: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== अष्टमोऽध्यायः == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BTN | | document_id = BTN | ||
Revision as of 19:02, 10 April 2026
अष्टमोऽध्यायः
श्रीशुक उवाच– नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच्च न सङ्गवर्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥ १९ ॥
धर्मः क्वचित् तस्य न भूतसौहृदंत्यागः क्वचित् तच्च न मुक्तिकारणम् ।
क्वचिच्चिरायुर्न हि शीलमङ्गलंक्वचित् तदप्यस्ति न वेद्यमायुषः ।
एवं विमृश्याव्यभिचारिसद्गुणं
पदं निजैकाश्रयिसद्गुणाश्रयम् । वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ २२ ॥ 'अनाद्यनन्तकोलेऽपि विष्णुमेवाश्रिता रमा ।
अन्येषां ज्ञापनार्थाय दोषानुक्त्वेतरान् जहौ॥ इति च ॥ १९-२२ ॥अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः ।स वै भगवतस्साक्षात् विष्णोरंशांशसम्भवः ॥ ३३ ॥
धन्वन्तरिरीति ख्यात आयुर्वेददृगिज्यभाक् ।तमालोक्यासुरास्सर्वे कलशं चामृताहृतम् ॥ ३४ ॥
लिप्सन्तः सर्ववस्तूनि कलशं तरसाऽहरन् ।
नीयमानेऽसुरैस्तस्मिन् कलशेऽमृतभाजने ॥
विषण्णमनसो देवा हरिं शरणमाययुः ॥ ३५ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे अष्टमोऽध्यायः ॥
'तेषां सत्याच्चालनार्थं हरिर्धन्वन्तरिर्विभुः ।
समर्थोऽप्यसुराणां तु स्वहस्तादमुचत्सुधाम्। इति च ॥ ३३-३५ ॥