Jump to content

Bhagavatatatparyanirnaya/C7/S3: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== तृतीयोऽध्यायः ==
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 19:01, 10 April 2026

तृतीयोऽध्यायः

सृष्ट्वा चराचरमिदं तपोयोगसमाधिना ।अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ ९ ॥


तदहं वर्धमानेन तपोयज्ञसमाधिना ।कालात्मनोश्च नित्यत्वात् साधयिष्ये तथाऽऽत्मनः ॥ १० ॥


'जानतामपि कर्तव्यं कर्मात्मसदृशं सदा ।

तत्रात्मसदृशाज्ञानाद्रागाद्यैर्वा विमोहिताः । । जानन्तोऽपि ह्यसदृशं कर्म कुर्युर्ऋते विभुम् । चतुरास्यं स नायोग्यं कर्म कुर्यात्कथञ्चन॥ इति नारदीये ॥ 'तपसा विद्यया वापि ज्ञानध्यानादिनाऽथवा । व्यस्तैः समस्तैरपि वा कुर्वतां यत्नमुत्तमम् ॥ संहारविक्षेपशतैर्बहुकोटिभिरेव वा । न शक्यन्ते समारोढुं स्वात्मायोग्यपदानि तु ॥ तथाप्याचरतां कुर्युर्दैत्यानां सुरनायकाः ।

विघ्नं तु तप आदीनां वैयर्थ्यस्यापनुत्तये॥ इति प्रकाशसंहितायाम् ॥
अन्यथेदं विधास्येऽहमयथापूर्वमोजसा ।किमन्यैः कालनिर्धूतैः कल्पान्तैर्वैष्णवादिभिः ॥ ११ ॥


वैष्णवादिभिः ब्रह्मनिर्मितैः । 'ब्रह्मा स्वयम्भूर्द्रुहिणो वैष्णवः शतदृक्तथा। इति शब्दनिर्णये ॥ ११ ॥
तवासनं हि जगतां पारमेष्ठ्यं जगत्पते ।भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥


'भवाय श्रेयसे चैव न कश्चित्तदपेक्षते ।

मधुकैटभयोश्चैव हिरण्यादेस्तथैव च ॥ नान्यो ब्रह्मपदं वाञ्छत्यृजून्योग्यान्विना क्वचित् । ततः श्रेयांसि वाञ्छन्ति न तु तत्पदमाप्तये॥ इति ब्रह्माण्डे ॥ 'भवो वृद्धिः समुद्दिष्टा श्रेयो मोक्ष उदाहृतः ।

वृद्धस्य न पुनर्ह्रासो भूतिरित्येव कथ्यते॥ इति शब्दनिर्णये ॥
तपन्तं तपसा लोकान् यथा भाविततं रविम् ।विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥ १६ ॥


'सकामं तु तपः क्रूरं लोकानां भयकृद्भवेत् ।

इतरच्छान्तये सर्वलोकानां भवति ध्रुवम्॥ इति प्रकाशिकायाम् ॥

'ब्रह्माणमभजद्ब्रह्मपदार्थं स हिरण्यकः। इति स्कान्दे ॥
व्यवसायेन तेऽनेन दुष्करेणामनस्विभिः ।तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥


जितः वशीकृतः । 'पराभूतं वशस्थं च जितमित्युच्यते बुधैः॥ इति शब्दनिर्णये ॥
हिरण्यकशिपुरुवाच–कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम् ।


आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।रजःसत्वतमोधाम्ने पराय महते नमः ॥ २७ ॥


'प्रायस्तु स्तुतिशब्देषु मिश्रा वाचो हरिं विना ।

केचिज्जीवगुणास्तत्र तन्नियन्तुर्हरेः परे ॥ एकस्थानैककार्यत्वाद्विष्णोः प्राधान्यतस्तथा । जीवस्य तदधीनत्वान्न भिन्नाधिकृतं वचःइति ब्रह्मतर्के ॥

त्रिवृता प्रकृत्या ॥ २६, २७ ॥
त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् ।चित्तस्य चित्तिर्मनइन्द्रियाणां पतिर्महाभूतगुणाशयेशः ॥ २९ ॥


प्राणेन सह ॥ २९ ॥
त्वं सप्ततन्तून् वितनोषि तन्वात्रय्या चतुर्होत्रकविद्यया च ।


सप्ततन्तून् सप्तक्रतून् ॥ ३० ॥
त्वमेव कालोऽनिमिषो जनाना-मायुर्लवाद्यावयवैः क्षिणोषि ।


जीवानां प्राणधारकः ॥
त्वत्तः परं नापरमप्यनेज-देजच्च किञ्चिद् व्यतिरिक्तमस्ति ।


'परावरेषु यस्मात्त्वं व्याप्तो विष्णुः सनातनः ।

तस्मान्न व्यतिरिक्तं त्वदित्याहुर्वेदवेदिनः॥ इति पाद्मे ॥ ३२ ॥ विद्याश्च कलाश्च विद्याकलाः । 'महाविद्याः कलाश्चैव त्वत्तनावाश्रिता यतः ।

विद्यातनुरिति प्राहुरतस्त्वां तत्त्ववेदिनःइति च । त्रिपृष्ठः तुरीयः ॥
नान्तर्बहिर्दिवानक्तमन्यस्मादपि चायुधैः ।न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ ३६ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे तृतीयोऽध्यायः ॥
'ब्रह्मणोऽप्यधिकं विष्णुं जानन्नपि हिरण्यकः । ब्रह्माणं तद्गुणैः स्तौति तद्गविष्णुविवक्षया॥ इति च ॥