Bhagavatatatparyanirnaya/C1/S9: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== नवमोऽध्यायः == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BTN | | document_id = BTN | ||
Revision as of 18:59, 10 April 2026
नवमोऽध्यायः
नैनो राज्ञः प्रजाभर्तुः धर्मो युद्धे वधो द्विषाम् ।इति मे न तु बोधाय कल्पते शाश्वतं वचः ॥ ५ ॥
'यः पदातिं हन्ति स भवति चातुर्मास्ययाजी यः सादिनं सोऽग्निष्टोमस्य यो हन्ति गजरथौ सोऽश्वमेधराजसूयाभ्याम्इत्यादि शाश्वतं वचः ॥ ५ ॥
शितविशिखहतो विशीर्णदंसः क्षतजपरिप्लुत आततायिनो मे ।प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् मुदे मुकुन्दः ॥ ४५ ॥
'असङ्गश्चाव्यथोऽभेद्योऽनिग्राह्योऽशोष्य एव च ।
विद्धोऽसृगञ्चितो बद्ध इति विष्णुः प्रदृश्यते ॥ असुरान् मोहयन् देवः क्रीडयैव सुरेष्वपि ।
मानुषान् मध्यया दृष्ट्या न मुक्तेषु कथञ्चन। इति स्कान्दे ॥ ४५ ॥॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे नवमोध्यायः ॥