नवमोऽध्यायः
सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये-
सप्तमोक्तं प्रपञ्चयति ।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥१ ॥
श्रीभगवानुवाच
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥२ ॥
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि॥३ ॥
राजविद्या प्रधानविद्या । प्रत्यक्षं ब्रह्म अवगम्यते येन तत् प्रत्यक्षावगमम् । अक्षेषु = इन्द्रियेषु प्रति प्रति स्थित इति प्रत्यक्षः । तथा च श्रुतिः- ‘यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरम्, यः प्राणमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’(बृ.५.७.१६) ।‘यो वाचि (विज्ञाने) तिष्ठन्’(बृ.५.७.१७), ‘यः चक्षुषि तिष्ठन्’(बृ.५.७.१८) इत्यादेः ।‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते’(छा.४.१५.१)इति च ।‘अङ्गुष्ठमात्रः पुरुषः अङ्गुष्ठं च समाश्रितः’(म.ना.१६(१५).५) इति च । ‘त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः(त्यम्)’(गी.प्रे. म.भा.शां.प.३३८.४)इत्यादेश्च मोक्षधर्मे ।‘स प्रत्यक्षः, प्रति प्रति हि सोऽक्षेष्वक्षवान् स भवति हि, य एवं विद्वान् प्रत्यक्षं वेद’इति सामवेदे (वारुणशाखायाम्) बाभ्रव्यशाखायाम् ।धर्मो=भगवान्, तद्विषयं धर्म्यम्। सर्वं जगद् धत्त इति धर्मः । ‘पृथिवी (धरणी) धर्ममूर्धनि’(कुम्भ-म.भा.१२.३६०.१२) इति प्रयोगान्मोक्षधर्मे । ‘भारभृत् कथितो योगी’ इति च । ‘भर्ता सन् भ्रियमाणो बिभर्ति’(तै.आ.३.१४)इति च श्रुतिः । ‘धर्मो वा इदमग्र आसीन्न पृथिवी न वायुर्नाकाशो न ब्रह्मा न रुद्रो (नेन्द्रो) न देवा न ऋषयः सोऽध्यायत्’ इति च सामवेदे बाभ्रव्यशाखायाम् । ‘प्रत्यक्षावगम’शब्देन अपरोक्षज्ञानसाधनत्वमुक्तम् ॥ १-३ ॥
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः॥४ ॥
तज्ज्ञानाद्याह- मयेति ॥ तर्हि किमिति न दृश्यत इत्यत आह- अव्यक्तमूर्तिनेति ॥ ४ ॥
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।भूतभृन्न च भूतस्थो ममाऽत्मा भूतभावनः॥५ ॥
मत्स्थत्वेऽपि यथा पृथिव्यां स्पृष्ट्वा स्थितानि, न तथा मयीत्याह- न चेति ॥‘न दृश्यश्चक्षुषा चासौ न स्पृश्यः स्पर्शनेन च।’(कुम्भ-म.भा.१२.३४७.२१) इति मोक्षधर्मे । ‘सञ्ज्ञासञ्ज्ञ’(कुम्भ-म.भा.१२.३४६.४) इति च । ममाऽत्मा देह एव भूतभावनः । ‘महाविभूते माहात्म्यशरीर’(कुम्भ-म.भा.१२.३४६.४) इति हि मोक्षधर्मे ॥५ ॥
यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय॥६ ॥
‘मत्स्थानि’(९.४), ‘न च मत्स्थानि’(९.५) इत्यस्य दृष्टान्तमाह- यथाऽऽकाशस्थित इति ॥ न हि आकाशस्थितो(ऽपि) वायुः स्पर्शाद्याप्नोति ॥ ६ ॥
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्॥७ ॥
ज्ञानप्रदर्शनार्थं प्रलयादि प्रपञ्चयति- सर्वभूतानीत्यादिना ॥७॥
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्॥८ ॥
प्रकृत्यवष्टम्भस्तु यथा कश्चित् समर्थोऽपि पादेन गन्तुम्, लीलया दण्डमवष्टभ्य गच्छति ।‘सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि।’(कुम्भ-म.भा.शां.प.३४७.४५) इति च मोक्षधर्मे ।
‘सर्वभूतगुणैर्युक्तं दैवं मां (त्वं) ज्ञातुमर्हसि।’(मोक्षधर्मे) इति च ।
‘विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्(त्वां च मूर्तितः) ।प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति(त्वामेव विशते बुधः) ॥’(कुम्भ-म.भा.१३.४५.४११) इति च ।
‘न कुत्रचिच्छक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य ।तथाऽपि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु ॥’ इति ऋग्वेदखिलेषु ।
‘मय्यनन्तगुणेनन्ते गुणतोनन्तविग्रहे।’ इति भागवते ।
‘अथ कस्मादुच्यते परं ब्रह्म इति, (बृ)बृंहति (बृ)बृंहयति ।’ इति च आथर्वणे ।
‘पराऽस्य शक्तिर्विविधैव श्रूयते।’ इति च ।
‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि’(ऋ.मं.१.अनु.१५४.मं.१), ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप’(ऋ.मं.७.अनु.९९.मं.२) इत्यादेश्च ।
प्रकृतेर्वशादवशम् ।‘त्वमेवैतत्सर्जने सर्वकर्मण्यनन्तशक्तोऽपि स्वमाययैव ।मायावशं चावशं लोकमेतत् तस्मात् स्रक्ष्यस्यत्सि पासीश विष्णो ॥’ इति गौतमखिलेषु ॥ ८ ॥
न च(तु) मां तानि कर्माणि निबध्नन्ति धनञ्जय ।उदासीनवदासीनम् असक्तं तेषु कर्मसु॥९ ॥
उदासीनवत्, न तु उदासीनः । तदर्थमाह- असक्तमिति ॥ ‘अवाक्यनादरः’(छा.३.३४.२) इति (हि) श्रुतिः ।
‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया॥’(भाग.२.१०.११) इति भागवते ।यस्य असक्त्यैव सर्वकर्मशक्तिः कुतस्तस्य सर्वकर्मबन्ध इति भावः । ‘न कर्मणा वर्धते नो कनीयान्’इति श्रुतिः।
यः कर्माणि(पि) निया(य)मयति कथं च (तत्) तं कर्म बध्नाति ॥९ ॥
मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते॥१० ॥
उदासीनवदिति चेत् स्वयमेव प्रकृतिः सूयते? इत्यत आह- मयेति ॥ प्रकृतिसूतिद्रष्टा कर्ता (च) अहमेवेत्यर्थः । तथा च श्रुतिः- ‘यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्।’(म.ना.१.४)इति ॥१० ॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परं भावमजानन्तो मम भूतमहेश्वरम्॥११ ॥
तर्हि कथं केचित् त्वामवजानन्ति ? का च तेषां गतिः ? इत्यत आह -अवजानन्तीत्यादिना ॥ मानुषीं तनुं मूढानां मानुषवत् प्रतीताम् तनुं, न तु मनुष्यरूपाम् । उक्तं च मोक्षधर्मे- ‘यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते ।सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥ ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ।भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च ।भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम’।(कुम्भ-म.भा.१२.३५७.११-१३) इति ।अवतारप्रसङ्गे चैतदुक्तम् । अतो नावताराः (च) पृथक् शङ्क्याः ।‘रूपाण्यनेकान्यसृजत् प्रादुर्भावभवाय सः ।वाराहं नारसिंहं च वामनं मानुषं तथा ॥’(कुम्भ-म.भा.१२.३५९.३६-३७) इति तत्रैव प्रथमसर्गकाल एवावताररूपविभक्त्युक्तेश्च । अतो न तेषां मानुषत्वादिर्विना भ्रान्तिम् । ‘भूतं महद् ईश्वरं च’ इति भूतमहेश्वरम् । तथा हि (सामवेदे)बाभ्रव्यशाखायाम्- ‘अनाद्यनन्तं परिपूर्णरूपम् ईशं वराणामपि देववीर्यम्।’ इति ।‘अस्य महतो भूतस्य निःश्वसितम्।’(बृ.४.४.१०) इति च ।‘ब्रह्म पुरोहित ब्रह्म कायिक महाराजिक।’(गी.प्रे-म.भा.१२.३३८.४) इति च मोक्षधर्मे ॥११ ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥१२ ॥
तेषां फलमाह - मोघाशा इति ॥ वृथाशाः । भगवद्द्वेषिभिः आशासितं(आमुष्मिकम्) न किञ्चिदाप्यते । यज्ञादिकर्माणि च वृथैव तेषां, ज्ञानं च । केनापि ब्रह्मरुद्रादिभक्त्याद्युपायेन न कश्चित् पुरुषार्थ आमुष्मिकः तैराप्यत इत्यर्थः । वक्ष्यति च - ‘तानहं द्विषतः क्रूरान्’(१६.१९) इत्यादि । मोक्षधर्मे च -‘कर्मणा मनसा वाचा यो द्विष्याद् विष्णुमव्ययम् ।मज्जन्ति पितरस्तस्य नरके शाश्वतीस्समाः ।यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं हरिम् (प्रभुम्) ।कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित् ॥(कथं नाम भवेद् द्वेष्य आात्मा लोकस्य कस्यचित्)’(गी.प्रे-म.भा.१२.३४६.६-७) इति ।
‘सर्वोत्कृष्टो(ष्टे) ज्ञानभक्ती ह(हि) यस्य नारायणे पुष्करविष्टराद्ये ।सर्वावमो(मे) द्वेषयुतश्च तस्मिन् भ्रूणानन्तघ्नोऽ(प्य)स्य समो न चैव ॥’ इति च सामवेदे शाण्डिल्यशाखायाम् ।
‘द्वेषाच्चेद्यादयो नृपाः’(भाग.७.१.३२), ‘वैरेण यन्नृपतयः शिशुपालपौण्ड्रसाल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमीयु(मापु)रनुरक्तधियः पुनः किम्॥’(भाग.११.५.४९) इत्यादि तु भगवतो भक्तप्रियत्वज्ञापनार्थम्, (नित्यध्यानस्तुत्यर्थं च ।) स्वभक्तस्य कदाचिच्छापबलाद् द्वेषिणोऽपि भक्तिफलमेव भगवान् ददातीति ।
भक्ता एव हि ते पूर्वं शिशुपालादयः । शापबलादेव च द्वेषिणः । तत्प्रश्नपूर्वं पार्षदत्वादिकथनाच्च(तत्प्रश्ने पूर्वपार्षदत्वशापादिकथनाच्च) एतज्ज्ञायते । अन्यथा किमिति तदप्रस्तुतमुच्यते । भगवतः साम्यकथनं तु द्वेषिणामपि द्वेषमनिरूप्य पूर्वतनभक्तिफलमेव ददातीति ज्ञापयितुम् । ‘न मे भक्तः प्रणश्यति’(९.३१) इति च वक्ष्यति । न च‘भावो (हि) भव(भाव)कारणम्’ (भाग.१०.८४.४७) इत्यादिविरोधः । द्वेषभाविनां द्वेष एव भवतीति हि युक्तम् । अन्यथा गुरुद्वेषिणामपि गुरुत्वं भवतीत्याद्यनिष्टम् आपद्येत । न च आकृतधीत्वेऽविशेषः । तेषामेव हिरण्यकशिप्वादीनां पापप्रतीतेः- ‘हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः ॥’(भाग.४.२१.४६) इति ।‘यदनिन्दत् पिता मह्यम्’(भाग.७.१०.१६) इत्यारभ्य‘तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात्’ (भाग.७.१०.१८) इति प्रह्लादेन भगवतो वरयाचनाच्च । बहुषु ग्रन्थेषु च निषेधः, कुत्रचिदेव तदुक्तिरिति विशेषः । यस्मिन् तदुच्यते तत्रैव निषेध उक्तः । महातात्पर्यविरोधश्चोक्तः पुरस्तात् । अयुक्तिमद्भ्यो युक्त्तिमन्त्येव बलवन्ति वाक्यानि । युक्तयश्चोक्ता अन्येषाम् । न चैषां काचिद् गतिः । साम्येऽपि वाक्ययोर्लोकानुकूलाननुकूलयोर्लोकानुकूलमेव बलवत् । लोकानुकूलं च भक्तप्रियत्वम्, नेतरत् । उक्तं च तेषां पूर्वभक्तत्वम्- ‘मन्येसुरान् भागवतान् त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान् ।’(भाग.३.२.२४) इत्यादि । अतो न भगवद्द्वेषिणां काचिद् गतिरिति सिद्धम् । द्वेषकारणमाह-राक्षसीमिति ॥ १२ ॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥१३ ॥
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥१४ ॥
नेतरे द्विषन्तीति दर्शयितुं देवानाह - महात्मान इति ॥ १३, १४ ॥
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम्॥१५ ॥
सर्वत्रैक एव नारायणः स्थित इति एकत्वेन । पृथक्त्वेन सर्वतो वैलक्षण्येन । बहुधा तस्य रूपम् ।‘आभाति शुक्लमिव लोहितमिवाथो नीलमथार्जुनम्’(आभाति शुक्लमिव लोहितमिव अथो कृष्णमायसमर्कवर्णम् इति कुम्भ-म.भा.५.४४.२६)इति हि सनत्सुजा(तीये)ते । ‘दैवमेवापरे’(४.२५) इत्युक्तप्रकारेण बहवो वा बहुधा ॥१५ ॥
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् ।मन्त्रोऽहमहमेवाज्यम् अहमग्निरहं हुतम्॥१६ ॥
प्रतिज्ञातं विज्ञानमाह - अहं क्रतुरित्यादिना ॥ क्रतवोऽग्निष्टोमादयः । यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः । ‘उद्दिश्य देवान् द्रव्याणां त्यागो यज्ञ इतीरितः’ इत्यभिधानात् ॥ १६ ॥
पिताऽहमस्य जगतो माता धाता पितामहः ।वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च॥१७ ॥
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्॥१८ ॥
गम्यते मुमुक्षुभिरिति गतिः । तथाहि सामवेदेषु वसिष्ठशाखायाम्- ‘अथ कस्मादुच्यते गतिरिति । ब्रह्मैव गतिः, तद्धि गम्यते पापविमुक्तैः’ इति । साक्षादीक्षत इति साक्षी । तथाहि बाष्कलशाखायाम्- ‘स साक्षादिदमद्राक्षीद् यदद्राक्षीत् तत् साक्षिणः साक्षित्वम्’ इति ।शरणम् आश्रयः संसारभीतस्य । ‘परमं यः परायणम्’ इति ह्युक्तम् ।‘नारायणं महाज्ञेयं विश्वात्मानं परायणम्’ इति च । संहारकाले प्रकृत्या जगदत्र निधीयत इति निधानम् ।तथाहि ऋग्वेदखिलेषु- ‘अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः’ इति ॥१८ ॥
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥१९ ॥
सत् कार्यम् । असत् कारणम् । ‘सदभिव्यक्तरूपत्वात् कार्यमित्युच्यते बुधैः ।असदव्यक्तरूपत्वात् कारणं चापि शब्दितम्॥’ ॥ इति ह्यभिधानम् ।
‘असच्च सच्चैव यद् विश्वं सदसतः परम्’(गी.प्रे.म.भा.१.१.२३) इति च भारते ॥१९ ॥
त्रैविद्या मां सोमपा पूतपापाःयज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते तं भुक्त्वा स्वर्गलोकं विशालंक्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
तथाऽपि मद्भजनमेवान्यदेवताभजनाद् वरमिति दर्शयति- त्रैविद्या इत्यादिना ॥ २०-२१ ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥२२ ॥
अनन्याः अन्यदचिन्तयित्वा । तथाहि गौतमखिलेषु- ‘सर्वं परित्यज्य मनोगतं यद् विना देवं केवलं शुद्धमाद्यम् ।ये चिन्तयन्तीह तमेव धीरा अनन्यास्ते देवमेवाविशन्ति ॥’ इति ।‘कामं कालेन महता एकान्तित्वात् समाहितैः ।शक्यो द्रष्टुं स भगवान् प्रभासन्दृश्यमण्डलः॥’ ॥ इति मोक्षधर्मे ।नित्यमभितः= सर्वतो युक्तानाम् ॥२२ ॥
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः ।तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥२३ ॥
तर्हि ‘अहं क्रतुः’(९.१६) इत्याद्यसत्यमित्यत आह - येऽपीति ॥ २३ ॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥२४ ॥
कारणमाहाविधिपूर्वकत्वे - अहं हीति ॥ २४ ॥
यान्ति देवव्रता देवान् पितॄन् यान्ति पितॄव्रताः ।भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥॥ २५ ॥
फलं विविच्याह - यान्तीति ॥ २५ ॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः॥२६ ॥
दुर्बलैस्त्वं पूजयितुमशक्यः ? महत्त्वाद्, इत्याशङ्क्याह - पत्रमिति ॥ न त्वविहितपत्रादि । तस्यापराधत्वोक्तेर्वाराहादौ । भक्त्यैवाहं (तुष्ट) तृप्य इति भावः ।
‘भक्तप्रियं सकललोकनमस्कृतं च’(म.भा.१११) इति च भारते
‘एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः ।एकान्तभक्तिर्गोविन्दे यत् सर्वत्रात्मदर्शनम्॥’(एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः। भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥भाग.६.३.२२ ) (इति भागवते) ॥२६ ॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।यत्तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम्॥२७ ॥
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि॥२८ ॥
अतो यत् करोषि ॥ २७, २८ ॥
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९ ॥
तर्हि स्नेहादिमत्त्वाद् अल्पभक्तस्यापि कस्यचित् बहु फलं ददासि । विपरीतस्यापि कस्यचित् विपरीतम् ? इत्यत आह - समोऽहमिति ॥ तर्हि न भक्तिप्रयोजनम् ? इत्यत आह - ये भजन्तीति ॥ मयि ते तेषु चाप्यहम् इति । मम ते वशाः, तेषामहं वश इति । उक्तं च पैङ्गिखिलेषु- ‘ये वै भजन्ते परमं पुमांसं तेषां वशः स तु ते तद्वशाश्च ।’ इति । तद्वशा एव ते सर्वदा । तथाऽपि बुद्धिपूर्वकत्वाबुद्धिपूर्वकत्वेन भेदः । उद्धवादिवत्, शिशुपालादिवच्च । तच्चोक्तं तत्रैव-‘अबुद्धिपूर्वाद् यो वशस्तस्य ध्यानात् पुनर्वशो भवते बुद्धिपूर्वम्’ इति ॥ २९ ॥
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥३० ॥
न भवत्येव प्रायशस्तद्भक्तो सुदुराचारः । तथाऽपि बहुपुण्येन यदि कथञ्चित् भवति तर्हि साधुरेव स मन्तव्यः ॥ ३० ॥
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥३१ ॥
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥३२ ॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥३३ ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।मामेवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः॥३४ ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराज्यगुह्ययोगो नाम नवमोऽध्यायः ॥
कुतः ? क्षिप्रं भवति धर्मात्मा । देवदेवांशादिष्वेव च (ए)तद् भवति । उक्तं च (सामवेदे)शाण्डिल्यशाखायाम्- ‘नाविरतो दुश्चरितान्नाभक्तो नासमाहितः ।सम्यग् भक्तो भवेत् कश्चिद् वासुदेवेऽमलाशयः ।देवर्षयस्तदंशाश्च भवन्ति क्व च ज्ञानतः ॥’ इति ।अतोन्यः कश्चिद् भवति चेत्, डाम्भिकत्वेन सोऽनुमेयः । साधारणपापानां तु सत्सङ्गात् महत्यपि कथञ्चिद् भक्तिर्भवति । साधारणभक्तिर्वेतरेषाम् ।‘शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवैहि नास्य(भक्तम्)भक्तिः’। इति हि श्रीविष्णुपुराणे ।
‘सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसाम्’ इति च । ‘वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् ।पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम् ।गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम् ।तं चापि देवं शरणं प्रपन्नः एकान्तभावेन भजाम्यजस्रम् ।एतैरुपायैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमेनम् ॥’ इति मोक्षधर्मे। आचारस्य ज्ञानसाधनत्वोक्तेश्च । ज्ञानाभावे च सम्यग्भक्त्यभावात् । तथाहि गौतमखिलेषु-‘विना ज्ञानं कुतो भक्तिः कुतो भक्तिं विना च तत्।’ इति ।‘भक्तिः परे स्वेऽनुभवो विरक्तिरन्यत्र चैतत् त्रिक एककालम्’(भाग.११.२.४२) इति च भागवते ॥ ३१-३४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये नवमोऽध्यायः ॥