Anuvyakyanam/C1/S2: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== द्वितीयः पादः == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = AV | | document_id = AV | ||
Revision as of 18:58, 10 April 2026
द्वितीयः पादः
सर्वगतत्वाधिकरणम्
लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ॥ १ ॥चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ।तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ॥1॥
अत्तृत्वाधिकरणम्
अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता ।इति चेत् स विशेषोऽपि क्रियाशक्त्यात्मना स्थिरः ॥6॥
गुहाधिकरणम्
........ द्वित्वं चैकस्य युज्यते ।यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥10॥
अन्तरधिकरणम्
अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः ।रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥11॥
अन्तर्याम्यधिकरणम्
रमणं नातियत्नस्य विक्षेपादेव युज्यते ॥15॥
अदृश्यत्वाधिकरणम्
गुणक्रियादयो भावा यदि वा स्युरभेदिनः ॥17॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥