Jump to content

Anuvyakyanam/C1/S1: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== प्रथमः पादः ==
<div class="gr-page-nav">[[Anuvyakyanam|अनुव्याख्यानम्]] · [[Anuvyakyanam/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = AV
| document_id  = AV

Revision as of 18:58, 10 April 2026

प्रथमः पादः

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥1॥

तमेव शास्त्रं प्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥2॥

प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः ।अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥3॥

गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥4॥

वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥5॥

युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः ॥6॥

अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते ।स्वयङ्कृताऽपि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥7॥

तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते ।सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥8॥

जिज्ञासाधिकरणम्

ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥


जन्माधिकरणम्

अन्तस्समुद्रगं विश्वप्रसूतेः कारणं तु यत् ।सूक्तोपनिषदाद्युक्तं ‘जन्माद्यस्य’ इति लक्ष्यते ॥89॥


शास्त्रयोनित्वाधिकरणम्

एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ।शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ॥112॥


समन्वयाधिकरणम्

उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः ।त एवान्वयनामानः तैः सम्यक् प्रविचारिते ॥120॥


ईक्षत्यधिकरणम्

ईक्षणीयत्वतो विष्णुर्वाच्य एव न चान्यथा ॥121॥


आनन्दमयाधिकरणम्

एवं शास्त्रवगम्यत्वे विभागेन समन्वयम् ॥154॥


अन्तस्थत्वाधिकरणम्

............ देवानां तत्र शक्तताम् ।आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥242॥


आकाशाधिकरणम्

चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः ।अचेतनस्वभावस्तु विवरादिः कथं ततः ॥244॥


प्राणाधिकरणम्

.............अध्यात्ममन्वयव्यतिरेकतः ॥246॥


गायत्र्यधिकरणम्

नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ॥248॥


अन्तिमप्राणाधिकरणम्

.........बाहुल्ये श्रुतिलिङ्गयोः ॥249॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥