ब्रह्मसूत्रभाष्यम्/C03/S03/A045: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:11, 2 March 2026
आनन्दाद्यधिकरणम्
सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमिति आह-
ॐ आनन्दादयः प्रधानस्य ॐ ॥ 12-377 ॥
प्रधानफलस्य मोक्षस्यार्थे आनन्दो ज्ञानं सदात्मेत्युपास्य एव ।
इति ब्रह्मतर्के ॥ 12 ॥‘सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता ।
सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षिता’