Jump to content

Bhagavatatatparyanirnaya/C6/S17: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 09:41, 10 April 2026

एषामनुध्येयपदाब्जयुग्मंजगद्गुरुं मङ्गलमङ्गलं स्वयम् ।


एषां पक्षे तदवराणामनुध्येयपदाब्जयुग्मम् ।

'विष्णुब्रह्मप्राणवीन्द्रांस्तद्दारानप्यृते हरः । ध्येयो हरेः पार्षदाद्यैर्ध्यायन्हरिचतुर्मुखौ ॥

प्राणमेषां तथा दारान्न स्वतन्त्रतया क्वचित्॥ इति तन्त्रमालायाम् ॥१३॥
न चास्य कश्चिद् दयितः प्रतीपोन ज्ञातिबन्धुर्न परो न च स्वः ।


'सेवायोग्यातिरेकेण स्वानामपि न दास्यति । अपराधातिरेकेण नान्यस्यातः समो हरिः॥ इति माहात्म्ये ॥ २२ ॥
देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया ।सुखं दुःखं मृतिर्जन्म शापानुग्रह एव च ॥ २९ ॥


अविवेककृतः पुंसो ह्यर्थभेद इहात्मनि ।गुणदोषविकल्पश्च भिदेव स्वप्नकल्पिता ॥ ३० ॥


'यत्तद्भगवता क्लृप्तं तदेव नियतं भवेत् ।

अतोऽन्येषां वरः शापो गुणदोषप्रकर्तृता ॥ स्वतः प्राप्ता भेदकृतिर्वासनारूपिणो यथा । विद्यमानस्य मनसि पुनः स्वप्नेषु दर्शनम् ॥

भगवद्वशता यस्मात्सर्वेषां ज्ञेयमेव तत्॥ इति प्रकाशसंहितायाम् ॥ ३० ॥
इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।मूर्ध्ना सञ्जगृहे शापमेतावत् साधुलक्षणम् ॥ ३७ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे सप्तदशोऽध्यायः ॥
प्रतिशप्तुमलन्तमः ।

'देवा एव तदन्येभ्यः शक्ता नास्त्यत्र संशयः । अशक्ता अपि शक्तानां शक्ताः शापादिषु स्फुटम् ॥ तथाप्यशक्तैर्विहिताः शापाद्याः शक्तिमत्सु वै । अत्यल्पाश्चाल्पकालाश्च न सम्यक्प्रभवन्ति च ॥ यत्नेनापोहितुं शक्या उत्तमैस्तु न संशयः । उत्तमेषु कृताः शापाः कर्तॄणां ज्ञानपुण्ययोः ॥ निःशेषेण निहन्तारस्तदनुग्रहमन्तरा । सदारयोर्ब्रह्मविष्ण्वोर्वरशापादयोऽखिलाः ॥ तदन्येन कृताः सर्वे निष्फला एव निश्चयात् । न चाप्यवान्तराः शापा भवन्त्येषां तु कुत्रचित् ॥ वरा विष्णोः श्रियश्च स्युर्ब्रह्मणश्च यथाक्रमम् । उत्तमैरधमानां तु वराः शापा यथोदितम् ॥

सम्पूर्णफलदा एव नात्र कार्या विचारणा॥ इति स्कान्दे ॥ ३७ ॥