Bhagavatatatparyanirnaya/C4/S28: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
__TOC__ | |||
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div> | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BTN | | document_id = BTN | ||
Revision as of 09:41, 10 April 2026
स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि ।विद्वान् स्वप्न इवामृश्य साक्षिणं विरराम ह ॥ ४० ॥
'स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति। इति श्रुतिप्रसिद्धः । स्वप्न इवेति दृष्टान्तत्वेनोच्यते । स्वप्ने हि जीवस्यास्वातन्त्र्यं प्रसिद्धम् । अतस्तत्र परमेश्वराधीनत्वं प्रसिद्धमेव । अतो जीवव्यतिरिक्त ईश्वरः सिद्धः।
'स्वप्नो यतो न स्वतन्त्रस्तत्र तद्दर्शकः परः ।
जीवादन्यस्तु विज्ञेयः स विष्णुरवधार्यताम्॥ इति वाराहे ॥४०॥पञ्चेन्द्रियार्था आरामा द्वारो घ्राणादयः प्रभो ।तेजोबन्नानि कोष्ठानि गोलकेन्द्रियसंग्रहः ॥ ५७ ॥
इन्द्रियाणि यत्र सङ्गृह्यन्ते स गोलकेन्द्रियसङ्ग्रहः ॥ ५७ ॥
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भो ।न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे अष्टाविंशोऽध्यायः ॥
'जीवसत्ताप्रदत्वाच्च सदृशत्वाच्च केशवः ।
कथ्यते तदभेदेन न तु जीवः स्वरूपतः॥ इति च ॥ ६२ ॥