Bhagavatatatparyanirnaya/C1/S8: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
__TOC__ | |||
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div> | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BTN | | document_id = BTN | ||
Revision as of 09:39, 10 April 2026
तथा परमहंसानां मुनीनाममलात्मनाम् ।भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥ २३ ॥
भक्तियोगविधानविषयम् ॥ २३ ॥
विपदः सन्तु नः शश्वत् तत्र तत्र जगत्पते ।भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २८ ॥
अपुनर्भवं दर्शयति ॥ २८ ॥
मन्ये त्वां कालमीशानं अनादिनिधनं परम् ।समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ ३१ ॥
तत्तद्योग्यतया समत्वम् ॥ ३१ ॥
ते वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।भवतो दर्शनं यर्हि हृषीकाणामिवेशितुः ॥ ४१ ॥
यर्हि भवतो दर्शनं तदा यदूनामस्माकं च नामरूपे ॥ ४१ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे अष्टमोऽध्यायः ॥