Jump to content

Bhagavatatatparyanirnaya/C1/S5: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 09:39, 10 April 2026

नारद उवाच—पाराशर्य महाभाग भवतः कच्चिदात्मना ।


शारीरमानसयोरभेदादुभयथाऽपि युज्यते । स्वतन्त्रत्वादात्मनैव ह्यलम्बुद्धिः ॥ २ ॥
जिज्ञासितमधीतं च ब्रह्म यत्तत् सनातनम् ।तथाऽपि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥


शोचसि प्रकाशयसि । 'अजस्रेण शोचिषा शोशुचानःइति श्रुतिः ॥ ४ ॥
व्यास उवाच—अस्त्येव मे सर्वमिदं त्वयोक्तं, तथाऽपि नात्मा परितुष्यते मे ।


'ज्ञानशक्तिस्वरूपोऽपि ह्यज्ञाशक्तं वदेद्धरिः । अज्ञानां मोहनायेशस्तेन मुह्यन्ति मोहिताः। इति पाद्मे ॥ ५ ॥
यथा धर्मादयो ह्यर्था मुनिवर्यानुवर्णिताः ।न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥


धर्मादीनामल्पकथनेन पूर्तिः । न वासुदेवमहिम्नोऽतिकथितस्यापि ॥ ९ ॥
न यद्वचश्चित्रपदं हरेर्यशोजगत्पवित्रं न गृणीत कर्हिचित् ।


वायसं तीर्थं वयोमात्रानुजीवि शास्त्रम् ॥ १० ॥
नैष्कर्म्यमप्यच्युतभाववर्जितंन शोभते ज्ञानमलं निरञ्जनम् ।


परोक्षज्ञानं न शोभते । अपरोक्षज्ञानं न भक्त्या विनोत्पद्यते ।

'यस्य देवे परा भक्तिः

'यमेवैष वृणुते तेन लभ्यः'यद्वासुदेवशरणा विदुरञ्जसैवइत्यादेः ॥ १२ ॥
अतो महाभाग भवानमोघदृक्शुचिश्रवाः सत्यरतो धृतव्रतः ।


शुचिश्रवाः विष्णुः । समाधिना समाधिभाषया । स्मरणं ग्रन्थकृतिः । 'स्मरन्ति चइत्यादेः ॥ १३ ॥
जुगुस्पिसं धर्मकृतेऽनुशासनंस्वभावरक्तस्य महान् व्यतिक्रमः ।


प्रवृत्तिधर्मकृते ॥ १५ ॥
विचक्षणोऽस्यार्हति वेदितुं विभो-रनन्तपारस्य निवृत्तितः सुखम् ।


अनन्तपारस्य विभोः सकाशाद् यत् सुखम् ॥ १६ ॥
इदं हि विश्वं भगवानिवेतरोयतो जगत्स्थाननिरोधसम्भवः ।


इतरोऽपि भगवान् विश्वमिव । स्वातन्त्र्यात् ॥ २० ॥
तस्मिंस्तदा लब्धरुचेर्महामतेप्रियश्रवस्यस्खलिता मतिर्मम ।


मयि स्थिते ब्रह्मणि । स्थीयतामत्रेतीश्वरेच्छया कल्पितम् ॥ २७ ॥
त्वमप्यदभ्रश्रुत विश्रुतं विभोःसमाप्यते येन विदां बुभुत्सितम् ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे पञ्चमोऽध्यायः ॥
त्वमीश्वरोऽपि ॥ ४० ॥