Bruhadaranyaka/C2/S4: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 54: | Line 54: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V05 | | verse_id = BR_C02_S04_V05 | ||
| id = BR_C02_S04_V05_B01 | | id = BR_C02_S04_V05_B01 | ||
| text = | | text = | ||
आत्मा नारायणः । तस्यैव हि कामेन पत्यादिः प्रियो भवति । न हि पत्यादीनां जायादीनामहं प्रियः स्यामिति कामनामात्रेण प्रियत्वं भवति । भगवदिच्छ्यैव हि तद्भवति । अन्यथा जायार्थे पत्यर्थे इत्येव स्यात् । प्राधान्यादिदं सर्वं विदितम् । सर्वकारणत्वाच्च सर्वप्राधान्यं भगवतः । प्राधान्याप्राधान्ययोरपि स एव हि हेतुः । | आत्मा नारायणः । तस्यैव हि कामेन पत्यादिः प्रियो भवति । न हि पत्यादीनां जायादीनामहं प्रियः स्यामिति कामनामात्रेण प्रियत्वं भवति । भगवदिच्छ्यैव हि तद्भवति । अन्यथा जायार्थे पत्यर्थे इत्येव स्यात् । प्राधान्यादिदं सर्वं विदितम् । सर्वकारणत्वाच्च सर्वप्राधान्यं भगवतः । प्राधान्याप्राधान्ययोरपि स एव हि हेतुः । | ||
| Line 72: | Line 71: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V06 | | verse_id = BR_C02_S04_V06 | ||
| id = BR_C02_S04_V06_B01 | | id = BR_C02_S04_V06_B01 | ||
| text = | | text = | ||
अन्यत्रात्मनो ब्रह्म वेद भगवदधीनत्वेन न वेद, । तदनाश्रितत्वेन स्थानान्तरे च वेद । परादात् परतो लोकालोकस्यान्धे तमसि । इदं ब्रह्मादिकम् । यदयमात्मा । यत्रायमात्मा । अन्यत्र परिज्ञाने दोषोक्तेस्तत्र परिज्ञानं ह्युक्तं भवति । अन्यथा अन्यदात्मनो ब्रह्म वेदेति स्यात् । यदित्यव्ययत्वाद् यत्रेत्यपि भवति । यथा यस्मादित्यर्थे । सप्तसु प्रथमा इति च सूत्रम् । | अन्यत्रात्मनो ब्रह्म वेद भगवदधीनत्वेन न वेद, । तदनाश्रितत्वेन स्थानान्तरे च वेद । परादात् परतो लोकालोकस्यान्धे तमसि । इदं ब्रह्मादिकम् । यदयमात्मा । यत्रायमात्मा । अन्यत्र परिज्ञाने दोषोक्तेस्तत्र परिज्ञानं ह्युक्तं भवति । अन्यथा अन्यदात्मनो ब्रह्म वेदेति स्यात् । यदित्यव्ययत्वाद् यत्रेत्यपि भवति । यथा यस्मादित्यर्थे । सप्तसु प्रथमा इति च सूत्रम् । | ||
| Line 105: | Line 103: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V09 | | verse_id = BR_C02_S04_V09 | ||
| id = BR_C02_S04_V09_B01 | | id = BR_C02_S04_V09_B01 | ||
| text = | | text = | ||
दुन्दुभ्याघातादिदृष्टान्तोऽपि तदधीनत्वं तत्कारणत्वं च ज्ञापयति । न हि दुन्दुभ्यादिरेव तच्छब्दः । न च तदुपादानम् । स्थानान्तरे तदुपलम्भात् । न ह्युपादानादुपादेयं स्थानान्तरे भवति । शब्दो हि स्थानान्तरे गत्वा प्रतिश्रुतित्वमप्युपैति । भगवदिच्छाया दृष्टान्तो दुन्दुभ्यादिः । न हि दुन्दुभिं पश्यन् पुरुषो दुन्दुभ्याघाते मुरजशब्दोऽयमिति गृह्णाति । एवं भगवन्तं जानन्नन्याधीनं जगदिति गृह्णाति । किन्तु भगवदिच्छाधीनमित्येव । | दुन्दुभ्याघातादिदृष्टान्तोऽपि तदधीनत्वं तत्कारणत्वं च ज्ञापयति । न हि दुन्दुभ्यादिरेव तच्छब्दः । न च तदुपादानम् । स्थानान्तरे तदुपलम्भात् । न ह्युपादानादुपादेयं स्थानान्तरे भवति । शब्दो हि स्थानान्तरे गत्वा प्रतिश्रुतित्वमप्युपैति । भगवदिच्छाया दृष्टान्तो दुन्दुभ्यादिः । न हि दुन्दुभिं पश्यन् पुरुषो दुन्दुभ्याघाते मुरजशब्दोऽयमिति गृह्णाति । एवं भगवन्तं जानन्नन्याधीनं जगदिति गृह्णाति । किन्तु भगवदिच्छाधीनमित्येव । | ||
| Line 130: | Line 127: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V11 | | verse_id = BR_C02_S04_V11 | ||
| id = BR_C02_S04_V11_B01 | | id = BR_C02_S04_V11_B01 | ||
| text = | | text = | ||
तदेव दर्शयति स यथाऽऽर्द्रैधाग्नेः स यथा सर्वासामपामित्यादिना ॥ न ह्यग्निरेव धूमः । न चाप एव समुद्रः । न ह्यपामाप एवाश्रयः । किन्तु वरुणोऽपां खातो वा । स एव च समुद्र इत्युच्यते । | तदेव दर्शयति स यथाऽऽर्द्रैधाग्नेः स यथा सर्वासामपामित्यादिना ॥ न ह्यग्निरेव धूमः । न चाप एव समुद्रः । न ह्यपामाप एवाश्रयः । किन्तु वरुणोऽपां खातो वा । स एव च समुद्र इत्युच्यते । | ||
| Line 147: | Line 143: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V12 | | verse_id = BR_C02_S04_V12 | ||
| id = BR_C02_S04_V12_B01 | | id = BR_C02_S04_V12_B01 | ||
| text = | | text = | ||
एवमेव सैन्धवखिल्यस्य विलीनस्य समस्ताम्भसश्च वरुणोऽपां खातो वा समुद्राख्य आश्रयः । वरुणवदपां खातवद्वाऽनन्तोऽपारो भगवान् जीव एव विज्ञानघनाख्यो भूतसम्बन्धाज्जातः संस्तल्लयमनु भगवन्तमाप्नोति । समुद्रे प्रास्तसैन्धवखिल्यवत् । समुद्रजलस्थानीया मुक्ताः बहव एकस्वभावाः । बहवो हि जलपरमाणवः । सामुद्रजलमेकाश्रयम् । | एवमेव सैन्धवखिल्यस्य विलीनस्य समस्ताम्भसश्च वरुणोऽपां खातो वा समुद्राख्य आश्रयः । वरुणवदपां खातवद्वाऽनन्तोऽपारो भगवान् जीव एव विज्ञानघनाख्यो भूतसम्बन्धाज्जातः संस्तल्लयमनु भगवन्तमाप्नोति । समुद्रे प्रास्तसैन्धवखिल्यवत् । समुद्रजलस्थानीया मुक्ताः बहव एकस्वभावाः । बहवो हि जलपरमाणवः । सामुद्रजलमेकाश्रयम् । | ||
| Line 183: | Line 178: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V14 | | verse_id = BR_C02_S04_V14 | ||
| id = BR_C02_S04_V14_author-note | | id = BR_C02_S04_V14_author-note | ||
| text = | | text = | ||
॥ इति मैत्रेयीब्राह्मणम् ॥ | ॥ इति मैत्रेयीब्राह्मणम् ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V14 | | verse_id = BR_C02_S04_V14 | ||
| id = BR_C02_S04_V14_B01 | | id = BR_C02_S04_V14_B01 | ||
| text = | | text = | ||
मुक्तानां सञ्ज्ञाप्यन्यैर्न ज्ञायते शास्त्रं विना । सञ्ज्ञा नास्तीत्युक्त्वा अलं वा ओ इदं विज्ञानायेत्युक्तेर्न विजानातीत्युक्ते प्रतिज्ञाविरोधः । न च सर्वाज्ञानं पुरुषार्थः । | मुक्तानां सञ्ज्ञाप्यन्यैर्न ज्ञायते शास्त्रं विना । सञ्ज्ञा नास्तीत्युक्त्वा अलं वा ओ इदं विज्ञानायेत्युक्तेर्न विजानातीत्युक्ते प्रतिज्ञाविरोधः । न च सर्वाज्ञानं पुरुषार्थः । | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V14 | | verse_id = BR_C02_S04_V14 | ||
| id = BR_C02_S04_V14_B01 | | id = BR_C02_S04_V14_B01 | ||
| text = | | text = | ||
मग्नस्य हि परेज्ञाने किं न दुःखतरं भवेत् ॥ इति च । | मग्नस्य हि परेज्ञाने किं न दुःखतरं भवेत् ॥ इति च । | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V14 | | verse_id = BR_C02_S04_V14 | ||
| id = BR_C02_S04_V14_B01 | | id = BR_C02_S04_V14_B01 | ||
| text = | | text = | ||
नानात्वेनाभिसम्बन्धास्तदा तत्कालभाविना । | नानात्वेनाभिसम्बन्धास्तदा तत्कालभाविना । | ||
| Line 219: | Line 210: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V14 | | verse_id = BR_C02_S04_V14 | ||
| id = BR_C02_S04_V14_B01 | | id = BR_C02_S04_V14_B01 | ||
| text = | | text = | ||
इवशब्दस्त्वस्वातन्त्र्यार्थे । न हि तदधीनं पृथगित्येवोच्यते । तस्मादमुक्तैर्न ज्ञायते इति सञ्ज्ञा नास्तीत्युक्तम् । | इवशब्दस्त्वस्वातन्त्र्यार्थे । न हि तदधीनं पृथगित्येवोच्यते । तस्मादमुक्तैर्न ज्ञायते इति सञ्ज्ञा नास्तीत्युक्तम् । | ||
| Line 250: | Line 240: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C02_S04_V14 | | verse_id = BR_C02_S04_V14 | ||
| id = BR_C02_S04_V14_B01 | | id = BR_C02_S04_V14_B01 | ||
| text = | | text = | ||
सर्गे सर्गे तु यो नैव शब्दतोऽप्यन्यथा भवेत् । | सर्गे सर्गे तु यो नैव शब्दतोऽप्यन्यथा भवेत् । | ||
Revision as of 09:03, 10 April 2026
संयोगः प्रकृतेर्नैषां मुक्तानां तत्त्वदर्शनात् ॥ प्रवर्तति पुनः सर्गे तेषां सा न प्रवर्तते । आनन्देन विना चैव भोगेन विषयेण च ॥
सर्वे ते ब्रह्मणस्तुल्या आधिपत्येन चैव हि ॥ इति वायुप्रोक्ते ।पतिर्जाया प्रिया नैव स्वेच्छया तु भविष्यति । विष्णोरिच्छाबलेनैव स्वयं च स्वप्रियो भवेत् ॥ विष्णोरिच्छावशेनैव हन्ति ह्यात्मानमात्मना । स्वात्मानमप्रियं कृत्वा निरये पातयत्यपि ॥ प्राधान्येन हरेर्ज्ञानात् सर्वं विदितवद्भवेत् । ब्रह्मजात्यात्मकं वेत्ति नैव विष्णुवशं हि यः ॥ ब्रह्माणं तं ततो ब्रह्मा पातयेत् तमसि ध्रुवम् । एवं क्षत्रात्मको वायुर्वित्तरूपश्च वित्तपः ॥ पञ्चभूतानि विश्वे च देवा लोकाभिमानिनः । सर्वाभिमानिनो देवी मूलप्रकृतिरेव च ॥ सर्वं विष्णौ स्थितं विष्णोर्जातं विष्णोर्वशे सदा । शङ्खशब्दो यथा शङ्खदेवतावशगः स्थितः ॥ तस्माद्वेदाः समुत्पन्ना विद्याख्या मूलिका श्रुतिः । सर्वोपनिषदश्चैव पञ्चरात्राख्यसंहिताः ॥ ब्रह्मसूत्राणि वेदानां व्याख्यास्तासां च विस्तरः । सर्वमेतज्जगच्चैव निःसृतं तुरगाननात् ॥ वरुणस्य वशे यद्वदाप एवं वशे हरेः । सर्वे बद्धाश्च मुक्ताश्च तारतम्यात्मना स्थिताः ॥ यदि मुक्तस्य विज्ञानं गन्धादिविषये न चेत् । तथैव भगवद्रूपे स्वरूपे च परस्परम् ॥ एवमज्ञानरूपां तां मुक्तिं को नाम वाञ्छति । तस्माद्विष्णोर्वशे सर्वे यथेष्टमुपभोगिनः ॥
मुक्ताः सदा तारतम्यात् तिष्ठन्त्याब्रह्मणोऽखिलाः ॥ इति हयग्रीवसंहितायाम् ।श्रुत्याख्यः स तु विज्ञेय इतिहासादिरर्थतः ॥ भगवद्दृष्टमेवान्यैर्ब्रह्माद्यैर्दृश्यते यदि । ऋषिभेदस्तु तत्र स्याद्वेदो नाविष्णुनिर्गतः ॥
वेद इत्येव विष्णूक्तस्तपसा दृश्यते परैः ॥ इति च ॥