Bhagavatatatparyanirnaya/C11/S22: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 39: | Line 39: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V07 | | verse_id = BTN_C11_S22_V07 | ||
| id = BTN_C11_S22_V07_B1 | | id = BTN_C11_S22_V07_B1 | ||
| text = | | text = | ||
मायां मदीयां मत्सामर्थ्यम् । | मायां मदीयां मत्सामर्थ्यम् । | ||
| Line 82: | Line 81: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V10 | | verse_id = BTN_C11_S22_V10 | ||
| id = BTN_C11_S22_V05_B1 | | id = BTN_C11_S22_V05_B1 | ||
| text = | | text = | ||
सर्वथा जीवादन्यः परमेश्वरोऽङ्गीकर्तव्यः । जीवस्य स्वत एव ज्ञानायोगात् ॥ ८-१० ॥ | सर्वथा जीवादन्यः परमेश्वरोऽङ्गीकर्तव्यः । जीवस्य स्वत एव ज्ञानायोगात् ॥ ८-१० ॥ | ||
| Line 100: | Line 98: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V11 | | verse_id = BTN_C11_S22_V11 | ||
| id = BTN_C11_S22_V11_B1 | | id = BTN_C11_S22_V11_B1 | ||
| text = | | text = | ||
स च पुरुषरूपेण तत्स्थितो ज्ञानमुत्पादयति । ईश्वररूपेण बहिःस्थितः फलं ददाति । न च तयोः स्वरूपयोः किञ्चिद्वैलक्षण्यम् । तयोश्चान्यत्वकल्पना तत्स्वरूपादपगमनप्रयोजनाऽनर्थकारिणीत्यर्थः । ज्ञानस्वरूपस्य जीवस्य कथं ज्ञानोत्पादनमित्यतो वक्ति ज्ञानं च प्रकृतेर्गुण इति । जन्यज्ञानं प्रकृतेर्गुणः । | स च पुरुषरूपेण तत्स्थितो ज्ञानमुत्पादयति । ईश्वररूपेण बहिःस्थितः फलं ददाति । न च तयोः स्वरूपयोः किञ्चिद्वैलक्षण्यम् । तयोश्चान्यत्वकल्पना तत्स्वरूपादपगमनप्रयोजनाऽनर्थकारिणीत्यर्थः । ज्ञानस्वरूपस्य जीवस्य कथं ज्ञानोत्पादनमित्यतो वक्ति ज्ञानं च प्रकृतेर्गुण इति । जन्यज्ञानं प्रकृतेर्गुणः । | ||
| Line 120: | Line 117: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V12 | | verse_id = BTN_C11_S22_V12 | ||
| id = BTN_C11_S22_V12_B1 | | id = BTN_C11_S22_V12_B1 | ||
| text = | | text = | ||
जन्यज्ञानस्य प्राकृतत्वं साधयति – प्रकृतेर्गुणसाम्ये त्वित्यादिना ॥ | जन्यज्ञानस्य प्राकृतत्वं साधयति – प्रकृतेर्गुणसाम्ये त्वित्यादिना ॥ | ||
| Line 144: | Line 140: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V13 | | verse_id = BTN_C11_S22_V13 | ||
| id = BTN_C11_S22_V13_B1 | | id = BTN_C11_S22_V13_B1 | ||
| text = | | text = | ||
कालो भगवान् ॥ १३ ॥ | कालो भगवान् ॥ १३ ॥ | ||
| Line 194: | Line 189: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V18 | | verse_id = BTN_C11_S22_V18 | ||
| id = BTN_C11_S22_V18_B1 | | id = BTN_C11_S22_V18_B1 | ||
| text = | | text = | ||
'नवैकादश पञ्च त्रीणि''इत्युक्तानि पुरुषः प्रकृतिरित्यादीनि ॥ | 'नवैकादश पञ्च त्रीणि''इत्युक्तानि पुरुषः प्रकृतिरित्यादीनि ॥ | ||
| Line 221: | Line 215: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V19 | | verse_id = BTN_C11_S22_V19 | ||
| id = BTN_C11_S22_V19_B1 | | id = BTN_C11_S22_V19_B1 | ||
| text = | | text = | ||
सत्वादीन् गत्यादींश्च विना परमात्मना सह षड्विंशतिः । महदहङ्कारौ ब्रह्मरुद्रौ अङ्गीकृत्य स्कन्दं विना परमात्मना सह पञ्चविंशतिः । | सत्वादीन् गत्यादींश्च विना परमात्मना सह षड्विंशतिः । महदहङ्कारौ ब्रह्मरुद्रौ अङ्गीकृत्य स्कन्दं विना परमात्मना सह पञ्चविंशतिः । | ||
| Line 245: | Line 238: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V21 | | verse_id = BTN_C11_S22_V21 | ||
| id = BTN_C11_S22_V21_B1 | | id = BTN_C11_S22_V21_B1 | ||
| text = | | text = | ||
अवयविनो जन्म तैः खलु ॥ २१ ॥ | अवयविनो जन्म तैः खलु ॥ २१ ॥ | ||
| Line 263: | Line 255: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V22 | | verse_id = BTN_C11_S22_V22 | ||
| id = BTN_C11_S22_V22_B1 | | id = BTN_C11_S22_V22_B1 | ||
| text = | | text = | ||
'भूतानि मात्राश्च परस्तत्त्वैकादशकं स्मृतम्''। इति च । भूतमात्रेत्यारम्भात् तत्सिद्धेरेकादशानां पृथगनुक्तिः ॥ २२ ॥ | 'भूतानि मात्राश्च परस्तत्त्वैकादशकं स्मृतम्''। इति च । भूतमात्रेत्यारम्भात् तत्सिद्धेरेकादशानां पृथगनुक्तिः ॥ २२ ॥ | ||
| Line 290: | Line 281: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V24 | | verse_id = BTN_C11_S22_V24 | ||
| id = BTN_C11_S22_V24_B1 | | id = BTN_C11_S22_V24_B1 | ||
| text = | | text = | ||
आत्मना सहैव मन उच्यते । | आत्मना सहैव मन उच्यते । | ||
| Line 332: | Line 322: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V27 | | verse_id = BTN_C11_S22_V27 | ||
| id = BTN_C11_S22_V27_B1 | | id = BTN_C11_S22_V27_B1 | ||
| text = | | text = | ||
यद्यपि परमात्मा प्रकृतिश्च विलक्षणौ तथापि तयोर्वैलक्षण्यं न लक्ष्यते । | यद्यपि परमात्मा प्रकृतिश्च विलक्षणौ तथापि तयोर्वैलक्षण्यं न लक्ष्यते । | ||
| Line 353: | Line 342: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V28 | | verse_id = BTN_C11_S22_V28 | ||
| id = BTN_C11_S22_V28_B1 | | id = BTN_C11_S22_V28_B1 | ||
| text = | | text = | ||
प्रकृतिः पुरुषश्चेत्येव अन्योन्यविलक्षणावेव । एष विकल्पः । वैलक्षण्या-दर्शनं विरुद्धकल्पनमेव । यस्माद् गुणव्यतिकरात्मकः सर्गो विकार-निमित्तः । स च गुणव्यतिकरस्त्रिविधः सत्त्वरजस्तमसामेकैकप्राधान्येन । तत्र तमःप्रधानानामेव विरुद्धकल्पनम् । तस्मात् तम एवात्र कारण-मित्यर्थः ॥ २८ ॥ | प्रकृतिः पुरुषश्चेत्येव अन्योन्यविलक्षणावेव । एष विकल्पः । वैलक्षण्या-दर्शनं विरुद्धकल्पनमेव । यस्माद् गुणव्यतिकरात्मकः सर्गो विकार-निमित्तः । स च गुणव्यतिकरस्त्रिविधः सत्त्वरजस्तमसामेकैकप्राधान्येन । तत्र तमःप्रधानानामेव विरुद्धकल्पनम् । तस्मात् तम एवात्र कारण-मित्यर्थः ॥ २८ ॥ | ||
| Line 371: | Line 359: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V29 | | verse_id = BTN_C11_S22_V29 | ||
| id = BTN_C11_S22_V29_B1 | | id = BTN_C11_S22_V29_B1 | ||
| text = | | text = | ||
तत्रापि प्रकृतिरेव कारणम् । ईश्वरेच्छा च । विकाराज्जातत्वाद् वैकारिक इत्युच्यते अहङ्कारस्त्रिविधोऽपि । | तत्रापि प्रकृतिरेव कारणम् । ईश्वरेच्छा च । विकाराज्जातत्वाद् वैकारिक इत्युच्यते अहङ्कारस्त्रिविधोऽपि । | ||
| Line 414: | Line 401: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V33 | | verse_id = BTN_C11_S22_V33 | ||
| id = BTN_C11_S22_V33_B1 | | id = BTN_C11_S22_V33_B1 | ||
| text = | | text = | ||
अध्यात्ममिन्द्रियाणि । तैरेव विपरीतं ज्ञानं जायते । | अध्यात्ममिन्द्रियाणि । तैरेव विपरीतं ज्ञानं जायते । | ||
| Line 445: | Line 431: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V38 | | verse_id = BTN_C11_S22_V38 | ||
| id = BTN_C11_S22_V38_B1 | | id = BTN_C11_S22_V38_B1 | ||
| text = | | text = | ||
विषयाभिनिवेशेन उत्तरदेहाभिनिवेशेन पूर्वदेहास्मरणं यत् तन्मृत्युः ॥ | विषयाभिनिवेशेन उत्तरदेहाभिनिवेशेन पूर्वदेहास्मरणं यत् तन्मृत्युः ॥ | ||
| Line 463: | Line 448: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V41 | | verse_id = BTN_C11_S22_V41 | ||
| id = BTN_C11_S22_V41_B1 | | id = BTN_C11_S22_V41_B1 | ||
| text = | | text = | ||
ईदृशं वर्तमानं आयः एष्यन् सः अतीत इति त्रैविध्यं भाति । विज्ञाय वस्तुनि विज्ञाते सति । दीर्घलोपः 'अत्रा ते''इतिवत् । | ईदृशं वर्तमानं आयः एष्यन् सः अतीत इति त्रैविध्यं भाति । विज्ञाय वस्तुनि विज्ञाते सति । दीर्घलोपः 'अत्रा ते''इतिवत् । | ||
| Line 483: | Line 467: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V44 | | verse_id = BTN_C11_S22_V44 | ||
| id = BTN_C11_S22_V44_B1 | | id = BTN_C11_S22_V44_B1 | ||
| text = | | text = | ||
सोऽयमेवेति मृषा । | सोऽयमेवेति मृषा । | ||
| Line 511: | Line 494: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V48 | | verse_id = BTN_C11_S22_V48 | ||
| id = BTN_C11_S22_V48_B1 | | id = BTN_C11_S22_V48_B1 | ||
| text = | | text = | ||
अभिज्ञाद्वयलक्षणौ अभिमानमात्रौ ॥ ४८ ॥ | अभिज्ञाद्वयलक्षणौ अभिमानमात्रौ ॥ ४८ ॥ | ||
| Line 529: | Line 511: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V49 | | verse_id = BTN_C11_S22_V49 | ||
| id = BTN_C11_S22_V49_B1 | | id = BTN_C11_S22_V49_B1 | ||
| text = | | text = | ||
तरोर्बीजविकारदृष्टान्तेन विद्वान् देहाभिमानं त्यक्त्वा संयमं याति । परमात्मनश्च भेदं जानाति प्रकृत्यादेः । | तरोर्बीजविकारदृष्टान्तेन विद्वान् देहाभिमानं त्यक्त्वा संयमं याति । परमात्मनश्च भेदं जानाति प्रकृत्यादेः । | ||
| Line 549: | Line 530: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V52 | | verse_id = BTN_C11_S22_V52 | ||
| id = BTN_C11_S22_V52_B1 | | id = BTN_C11_S22_V52_B1 | ||
| text = | | text = | ||
'दुःखशोकादयः सर्वे ज्ञेया बुद्धिगुणा इति । | 'दुःखशोकादयः सर्वे ज्ञेया बुद्धिगुणा इति । | ||
| Line 571: | Line 551: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V54 | | verse_id = BTN_C11_S22_V54 | ||
| id = BTN_C11_S22_V54_author-note | | id = BTN_C11_S22_V54_author-note | ||
| text = | | text = | ||
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे द्वाविंशोऽध्यायः ॥ | ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे द्वाविंशोऽध्यायः ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S22_V54 | | verse_id = BTN_C11_S22_V54 | ||
| id = BTN_C11_S22_V54_B1 | | id = BTN_C11_S22_V54_B1 | ||
| text = | | text = | ||
मृषा वृथा । | मृषा वृथा । | ||
Revision as of 09:02, 10 April 2026
'विष्णोः सामर्थ्यमालम्ब्य तत्त्वसङ्ख्यां मुनीश्वराः । चक्रुर्हि तदविज्ञाय विवदन्त्यल्पबुद्धयः ॥ तत्रापि कारणं विष्णोः शक्तिर्यस्या विकारतः । अव्यक्तादेर्विकल्पोऽयं मनसः सम्प्रजायते ॥ विरुद्धकल्पनं तच्च वासुदेवैकनिष्ठया । निरहङ्कारया नश्येद्विवादैकाश्रयं हि तत्॥ इति तन्त्रभागवते ॥
यासां सकाशादव्यक्तादिव्यतिकराद्विकल्पो विरुद्धकल्पः । स हि विवादाश्रयः । तत्त्वसङ्ख्या विवक्षाभेदेन बहुधा भवति ॥ ४-७ ॥
'स्वरूपभूतज्ञानं तु सदा जीवस्य विष्णुना ।
नियतं प्राकृतं ज्ञानं भक्त्या तेनैव दीयते॥ इति च ॥ ११ ॥
अन्तःस्थः पुरुषो नाम ज्ञानदः सर्वदेहिनाम् । बहिःस्थ ईश्वरो नाम ज्ञानादिफलदो हरिः॥ इति मात्स्ये ॥ 'पुरुषाख्यो हृद्गतस्तु विष्णुर्जीवविबोधकः । फलदात्रा तु बाह्येन य ईशेन भिदां वदेत् ॥ तथैवान्यस्वरूपेषु विष्णोर्यो भेददर्शकः ।
यश्च जीवेश्वराभेदं पश्येत् तेऽनर्थभागिनः॥ इति ब्राह्मे ॥ १२ ॥
उत्सर्गस्य द्विविधत्वात् पञ्चकद्वयम् ॥ त्रीनिति त्रिगुणानिति वक्तुं गुणप्रवृत्तिमाह– सर्गादावित्यादिना ॥ कार्यकारणभावादन्योन्यानुप्रवेशो युक्त इति वक्तुं सृष्ट्युक्तिः । 'सृज्यस्रष्टृस्वरूपत्वादन्योन्यानुप्रवेशिनः । तिष्ठन्ति तात्विका देवा विशेषप्राप्तिकारणात्। इति नैसर्गे ॥ 'अन्वेकमप्येषुइत्युक्तत्वात् पुरुषो हिरण्यगर्भः । 'यदा पुरुषशब्देन विरिञ्चस्यैव वाच्यता । परस्य पृथगुक्त्यैव व्यक्तस्तत्र तु शङ्करः ॥
तदाऽहङ्कारशब्देन स्कन्दस्यैव वचो भवेत्॥ इति विवेके ॥१४-१८॥
'विषयेन्द्रियप्रकृतिदेवताः परमात्मना । पञ्चविंशतितत्त्वानि सङ्ख्यातानि विदो विदुः॥ इति च । 'ज्ञानशब्दोदितो ब्रह्मा तदाधारो हरिः स्मृतः। इति च ॥ ततो ज्ञानं विना परमात्मानमङ्गीकृत्यैव देहेन्द्रियाण्यसुश्च नव तत्त्वानि । 'सर्वदेहाभिमानी तु देहिनां तु दिवाकरः ।
इन्द्रियात्मेन्द्र एवैकः प्राणो नाम प्रजापतिः॥ इति च ॥ १९ ॥
'आत्मनः सन्निधिस्थत्वान्मनसस्तु तदुक्तितः । उक्तो भवेत्परात्माऽपि तत्त्वषोडशकं यदा॥ इति च । आत्मशब्देन च ब्रह्मा परमात्मा चोभावुच्येते । 'भूतेन्द्रियाणि च मनो ब्रह्मा विष्णुस्तथैव च । एवं त्रयोदशैवाऽहुस्तत्त्वानि मुनयो वराः॥ इति च । 'आत्मेति परमात्मा च विरिञ्चश्चापि कथ्यते ।
वायुर्मुनश्च देहश्च स्वयमित्यपि कुत्रचित्॥ इति प्रत्यये ॥ २३,२४ ॥
'अन्तरं च भिदा चेति वैलक्षण्यं प्रकीर्तितम्। इति च । तद्वैलक्षण्यं कुतो न दृश्यत इति प्रश्नाभिप्रायः ॥ अन्योन्याधारत्वमेव दृश्यते । न तु परमेश्वरस्यानन्याधारत्वेन प्रकृत्याधारत्वं मन्दमतीनामित्यर्थः ॥ 'आधारः प्रकृतेर्विष्णुर्नाऽधारस्तु हरेः क्वचित् ।
तथाऽप्यव्यक्तगो यद्वद्दृश्यते मन्दचेतसाम्॥ इति पाद्मे ॥ २५-२७ ॥
'वैकारिको महांश्चैव तथाऽहङ्कार एव च ।
तथैव सात्विकश्चांशो वैकारिक इति त्रिधा॥ इति शब्दनिर्णये ॥ २९ ॥
'अहङ्कारे विद्यमाने भ्रमो भवति नान्यदा । सम्यज्ज्ञानं हरेः शक्त्या तन्मुक्तस्य विशेषतः ॥ देवतानुग्रहो नित्यो मुक्तस्यापि ह्यपेक्ष्यते । नित्यं तत्प्रतिबिम्बत्वाज्जीवानामेव कृत्स्नशः ॥ बाह्यज्ञानं च मुक्तस्य न जडाहङ्कृतेः क्वचिद् । किन्तु स्वरूपशक्त्यैव देवेभ्यश्चाभिजायते॥ इति ब्रह्मतर्के ॥ 'पश्यन्नपि जगत् सर्वं चिद्बलेनैव पश्यति । कुतो मुक्तस्य तु जडं चिद्रूपस्य व्यपेक्ष्यते॥ इति च । एषामुपरमे मुक्तौ । चक्षुरिति पुनर्वचनमवधारणार्थम् । योऽसौ भ्रमहेतुर्विकारः स गुणक्षोभकृतः । आत्मा तु परिज्ञानस्वरूपो न गुणक्षोभकृतः ॥ भिदा विपर्ययेण विद्यमानं नास्ति अविद्यमानमस्तीति विवादः । 'असदस्ति च सन्नास्तीत्येवं भेदाद्विवादनम् ।
सदैव हरिपादाब्जविमुखानां प्रवर्तते॥ इति च ॥ ३०-३३ ॥
'क्षैप्रे दीर्घलोपःइति सूत्रात् ।
अयमेवाऽत्मानात्मनोर्विशेषहेतुः । यथा प्रायोऽ-सज्जनोऽसज्जनमेव जनयतीति पितृज्ञानात् पुत्रदौरात्म्यं ज्ञायते । एवमनित्य-त्वादनात्मत्वं देहादेरित्यर्थः ॥ ४१ ॥
'स चायमिति तु ज्ञानं न मृषाऽयं स एव तु । इति ज्ञानं मृषैव स्यात् भेदाभेदौ यतस्तनोः ॥ अभेद एव जीवस्य नित्यं प्रत्येकशः पृथक् । दीपदेहनदीवारिफलादीनां पृथक् स्वतः ॥ भेदाभेदौ परिज्ञेयौ कार्यकारणयोरपि । गुणस्य गुणिनश्चैव जातिव्यक्त्योस्तथैव च ॥ तथाऽवयव्यवयवयोः क्रियायास्तद्वतस्तथा । एवं जडेषु नियमश्चिद्रूपेष्वभिदैव तु॥ इति च ॥ 'ये धर्मा नियमेनैव धर्मिणो न वियोगिनः ।
जडस्था अप्यभिन्नास्ते भिन्नाभिन्ना वियोगिनः॥ इति च ॥४४॥
'बीजाद्यवस्थासंयुक्ताद्वृक्षाद्द्रष्टा यथा पृथक् ।
एवं विकारिणो विष्णुर्जीवश्च पृथगेव तु॥ इति च ॥ ४९ ॥
सुखज्ञाने तु जीवस्य भक्तिः स्नेहस्तथैव च ॥ विपर्ययेणासुराणां जीवबुद्धिगुणा मताः॥ इति च ॥ 'आत्मनोऽपि गुणा बुद्धिकृता बुद्धिगुणा इति ।
उच्यन्ते सुखदुःखाद्याः परमात्मकृता यथा॥ इति त्रैकाल्ये ॥५२॥
'अल्पप्रयोजनं यत्तन्मृषेत्येव तदुच्यते। इति शब्दनिर्णये ।
आत्मनः स्वत एव दुःखाद्याः सुखादिवदिति मिथ्याबुद्धिरिति वा ॥