Bhagavatatatparyanirnaya/C11/S20: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 39: | Line 39: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S20_V08 | | verse_id = BTN_C11_S20_V08 | ||
| id = BTN_C11_S20_V08_B1 | | id = BTN_C11_S20_V08_B1 | ||
| text = | | text = | ||
'स्वतः सर्वगुणात्मा तु विष्णुरेकः सनातनः । | 'स्वतः सर्वगुणात्मा तु विष्णुरेकः सनातनः । | ||
| Line 99: | Line 98: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S20_V17 | | verse_id = BTN_C11_S20_V17 | ||
| id = BTN_C11_S20_V17_B1 | | id = BTN_C11_S20_V17_B1 | ||
| text = | | text = | ||
मार्गणवच्छरीरान्ते पतति ॥ १७ ॥ | मार्गणवच्छरीरान्ते पतति ॥ १७ ॥ | ||
| Line 117: | Line 115: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S20_V27 | | verse_id = BTN_C11_S20_V27 | ||
| id = BTN_C11_S20_V27_B1 | | id = BTN_C11_S20_V27_B1 | ||
| text = | | text = | ||
स्वतोऽशुद्धानां कर्मणाम् । अनेन गुणदोषविधानेन नियमःकृतः । स्वतोऽशुद्धत्वेऽपि कर्मणां विध्यनुसारेणानुष्ठाने गुणत्वमेवेत्यर्थः ॥ २७ ॥ | स्वतोऽशुद्धानां कर्मणाम् । अनेन गुणदोषविधानेन नियमःकृतः । स्वतोऽशुद्धत्वेऽपि कर्मणां विध्यनुसारेणानुष्ठाने गुणत्वमेवेत्यर्थः ॥ २७ ॥ | ||
| Line 135: | Line 132: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S20_V31 | | verse_id = BTN_C11_S20_V31 | ||
| id = BTN_C11_S20_V31_B1 | | id = BTN_C11_S20_V31_B1 | ||
| text = | | text = | ||
हृदयग््रान्थिः अन्तःकरणाख्यो बन्धः ॥ ३१ ॥ | हृदयग््रान्थिः अन्तःकरणाख्यो बन्धः ॥ ३१ ॥ | ||
| Line 153: | Line 149: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S20_V32 | | verse_id = BTN_C11_S20_V32 | ||
| id = BTN_C11_S20_V32_B1 | | id = BTN_C11_S20_V32_B1 | ||
| text = | | text = | ||
मद्भक्तियुक्तस्य भक्त्यनुसारिज्ञानवैराग्ये विनाऽन्यस्माज्ज्ञानाद्वैराग्याच्च न श्रेयो भवेत् । | मद्भक्तियुक्तस्य भक्त्यनुसारिज्ञानवैराग्ये विनाऽन्यस्माज्ज्ञानाद्वैराग्याच्च न श्रेयो भवेत् । | ||
| Line 218: | Line 213: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S20_V38 | | verse_id = BTN_C11_S20_V38 | ||
| id = BTN_C11_S20_V38_author-note | | id = BTN_C11_S20_V38_author-note | ||
| text = | | text = | ||
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे विंशोऽध्यायः ॥ | ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे विंशोऽध्यायः ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S20_V38 | | verse_id = BTN_C11_S20_V38 | ||
| id = BTN_C11_S20_V38_B1 | | id = BTN_C11_S20_V38_B1 | ||
| text = | | text = | ||
रागिणोऽपि ते भक्तियोगिनो भक्तिफलत्वेन किमपि नापेक्षन्ते ॥ | रागिणोऽपि ते भक्तियोगिनो भक्तिफलत्वेन किमपि नापेक्षन्ते ॥ | ||
Revision as of 09:02, 10 April 2026
अन्यत्सर्वं तत्प््रिायत्वाद्गुणो दोषस्तथाऽप््रिायम् ॥ एवं ज्ञानवतां दृष्टिरज्ञस्तन्नावगच्छति । कालदेशविशेषेषु प्रीतिभेदमवेक्ष्य तु ॥ अविज्ञानवतस्तस्य मर्यादा वेदतः कृता । गुणदोषभिदा नास्ति भगवत्प््रिायमन्तरा ॥ गुणदोषदृशेर्दोषो ह्यन्यत्र भगवत्प््रिायात् । गुणाश्च दोषतामीयुर्दोषाश्च गुणतां क्वचित् ॥ अतो दोषो न दोषः स्यान्न गुणोऽपि गुणो भवेत् । भगवत्प्रीतिविज्ञानाद्गुणदोषभिदां यदि ॥ पश्येत्तत्तु गुणायैव विपर्यासं न कारयेत् । गुणदोषभिदा क्वापि स्वातन्त्र्येण न हि क्वचित्॥ इति ब्राह्मनये ॥ 'स्वतस्तु गुणदोषत्वदृशेर्भेदेन वस्तुनाम् । दोषोऽथ गुण एव स्याद्भगवत्प्रीतितो गुणः ॥ दोषस्तु तद्वैपरीत्यादिति दृष्ट्या भवेद्गुणः । कालदेशविशेषेण प्रीत्यज्ञानाज्जगत्स्थितेः ॥ मर्यादा गुणदोषाणां कृता वेदेषु सर्वशः ॥ इति परायणे ॥ एतदेवोच्यते । 'स्वेस्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस्तु दोषः स्यादुभयोरेष निर्णयः॥ इति च ॥ 'सनकाद्या ज्ञानयोगा भक्तियोगास्तु देवताः । मानुषाः कर्मयोगास्तु त्रिधैते योगिनः स्मृताः ॥ सर्वेषां सर्वयोगैश्च प्राप्या मुक्तिर्न संशयः । तथापि तु विशेषेण स स तेषां विधीयते ॥ भगवद्गुणानुसारेण वेदार्थो नीयते हि यैः । भक्तियोगास्तु ते प्रोक्तास्तादृशा हि सुराः सदा ॥ अङ्गानुसारि वेदार्थं ज्ञात्वा तदनुसारतः । भगवद्गुणा यैर्नीयन्ते ते प्रोक्ता ज्ञानयोगिनः ॥ कर्माणि शास्त्रतो ज्ञात्वा तत्प्राधान्यानुसारतः । विज्ञाता यैर्गुणा विष्णोर्ज्ञेयास्ते कर्मयोगिनः ॥ भक्तिर्ज्ञानं च किञ्चित्तु पश्चात्तेष्वपि जायते । तथापि ते कर्मयोगाः कर्मपूर्वत्वकारणात् ॥ भगवद्गुणानुरागित्वमधिकं भक्तियोगिनाम् । तस्मात्तेऽभ्यधिका ह्येषु देवा एव विशेषतः ॥ ईषद्वैराग्यमल्पं तु पूर्वं देवेषु जायते । पश्चाद्विरागोऽभ्यधिको देवानां नात्र संशयः ॥ ज्ञानाधिक्यं तु देवानां भक्त्याधिक्यं तथैव च । विरागोऽभ्यधिकस्तेषां सदैव सनकादिनाम् ॥ ज्ञानाधिक्यान्मनुष्येभ्यो भण्यन्ते ज्ञानयोगिनः । न तु ज्ञानाधिकास्ते वै देवेभ्यस्तु कथञ्चन ॥ देवानामपि कर्मित्वं विद्यते यद्यपि स्फुटम् । तथापि प्रत्यवायित्वान्मनुष्याः कर्मयोगिनः ॥ त्रियोगाभ्यधिको ब्रह्मा सर्वेभ्यः परमो विभुः ।
महायोगेश्वरेशेशस्तस्माद्ब्रह्मा चतुर्मुखः॥ इति त्रियोगे ॥ ५-८ ॥
'रागिणोऽपि विमुच्यन्ते देवा नास्त्यत्र संशयः । रागापनोदनार्थं च ज्ञानं साध्यं यतीश्वरैः॥ इति च ॥ 'स्मर्तव्या विषये दोषा यतिभिर्न तु दैवतैः । हरिरेव सदा पूज्य इत्यर्थं दैवतैरपि॥ इति च ॥
वैराग्यार्थमपि विषयदोषादिज्ञानं सनकादीनां भाव्यं देवानां तदपि भगवद्भजनस्यैव सारतापरिज्ञानार्थमेवेत्यर्थः ॥ ३२ ॥
'यदि दद्याद्भक्तियोगफलं मोक्षमपीश्वरः । भक्तियोगफलत्वेन न तद्गृह्णीयुरेव ते ॥ कामिनोऽपि स्वयं कामान्भुञ्जते न फलात्मना । तस्माद्विरागेऽप्यधिका देवा एव हि तादृशाःइति च ॥ ३५ ॥ 'उत्तमो भक्तियोगस्तु ज्ञानयोगस्तु मध्यमः । अधमः कर्मयोगश्च ब््राह्मैको मुख्यभक्तिभाक् ॥ ज्ञानमप्यधिकं तेषां नियतं भक्तियोगिनाम् । उदेति भगवद्भक्त्या तद्वन्न ज्ञानयोगिनः ॥ भक्त्यंशकं यतो ज्ञानं ज्ञानस्नेहात्मिका च सा । तथापि ज्ञानयोगित्वं मानुषज्ञानतोऽधिकम् ॥
भक्तियोगे ततो यत्नः कार्यो विद्वद्भिरञ्जसा॥ इति च ॥ ३८ ॥