Bhagavatatatparyanirnaya/C11/S15: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 12: | Line 12: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V03 | | verse_id = BTN_C11_S15_V03 | ||
| id = BTN_C11_S15_V03_B1 | | id = BTN_C11_S15_V03_B1 | ||
| text = | | text = | ||
मय्येव प्राधान्येन सन्ति अन्येषूपचारत इति मत्प्रधानाः । | मय्येव प्राधान्येन सन्ति अन्येषूपचारत इति मत्प्रधानाः । | ||
| Line 45: | Line 44: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V05 | | verse_id = BTN_C11_S15_V05 | ||
| id = BTN_C11_S15_V05_B1 | | id = BTN_C11_S15_V05_B1 | ||
| text = | | text = | ||
शक्तिप््रोरणमेवेशितृत्वम् । असङ्ग एव वशित्वम् । | शक्तिप््रोरणमेवेशितृत्वम् । असङ्ग एव वशित्वम् । | ||
| Line 83: | Line 81: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V08 | | verse_id = BTN_C11_S15_V08 | ||
| id = BTN_C11_S15_V08_B1 | | id = BTN_C11_S15_V08_B1 | ||
| text = | | text = | ||
अनूर्मिमत्त्वं प्राकाम्येऽन्तर्भूतम् । दूरश्रवणदर्शनं त्रिकालज्ञत्वम् । परचित्ता-द्यभिज्ञता च प्रकाश्यान्तर्भूतानि । मनोजव इत्यादिषट्कं प्राप्त्यन्तर्भूतम् । अन्यत्सर्वमीशित्वान्तर्भूतमपि परमेशत्वाभावे प्रथगित्यष्टादश । अग्न्यर्काम्बुविषादीनामित्यादिशब्दोक्ता । शस्त्रास्त्रनखदन्तताडनशापादिभिरप्रतिहतिः पृथगेव सिद्धिः सप्तदशी । अप्रतिहता आ समन्ताद्गतिर्यस्या आज्ञायाः साऽप्रतिहतागतिः । अद्वन्द्वमप्रतिहतं त्रिकालज्ञत्वम् । अग्न्यर्काम्बुविषाणां प्रतिस्तम्भाश्चतस्रः सिद्धयः । दूरश्रवणदर्शने द्वे सिद्धी । | अनूर्मिमत्त्वं प्राकाम्येऽन्तर्भूतम् । दूरश्रवणदर्शनं त्रिकालज्ञत्वम् । परचित्ता-द्यभिज्ञता च प्रकाश्यान्तर्भूतानि । मनोजव इत्यादिषट्कं प्राप्त्यन्तर्भूतम् । अन्यत्सर्वमीशित्वान्तर्भूतमपि परमेशत्वाभावे प्रथगित्यष्टादश । अग्न्यर्काम्बुविषादीनामित्यादिशब्दोक्ता । शस्त्रास्त्रनखदन्तताडनशापादिभिरप्रतिहतिः पृथगेव सिद्धिः सप्तदशी । अप्रतिहता आ समन्ताद्गतिर्यस्या आज्ञायाः साऽप्रतिहतागतिः । अद्वन्द्वमप्रतिहतं त्रिकालज्ञत्वम् । अग्न्यर्काम्बुविषाणां प्रतिस्तम्भाश्चतस्रः सिद्धयः । दूरश्रवणदर्शने द्वे सिद्धी । | ||
| Line 161: | Line 158: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V10 | | verse_id = BTN_C11_S15_V10 | ||
| id = BTN_C11_S15_V10_B1 | | id = BTN_C11_S15_V10_B1 | ||
| text = | | text = | ||
'एकस्मात्सिद्धयो विष्णोः स्थानभेदात्पृथग्विधाः । | 'एकस्मात्सिद्धयो विष्णोः स्थानभेदात्पृथग्विधाः । | ||
| Line 185: | Line 181: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V11 | | verse_id = BTN_C11_S15_V11 | ||
| id = BTN_C11_S15_V11_B1 | | id = BTN_C11_S15_V11_B1 | ||
| text = | | text = | ||
महति व्याप्ते । महत्तत्त्वस्य पृथगुक्तेः । अस्मात्स्थूलतां प्राप्नवानीत्यपेक्षायां तस्मात्प्राप्नोति । ततोऽन्यस्मादित्यपेक्षायां तस्मादिति पृथक्पृथक् ॥ ११ ॥ | महति व्याप्ते । महत्तत्त्वस्य पृथगुक्तेः । अस्मात्स्थूलतां प्राप्नवानीत्यपेक्षायां तस्मात्प्राप्नोति । ततोऽन्यस्मादित्यपेक्षायां तस्मादिति पृथक्पृथक् ॥ ११ ॥ | ||
| Line 203: | Line 198: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V12 | | verse_id = BTN_C11_S15_V12 | ||
| id = BTN_C11_S15_V12_B1 | | id = BTN_C11_S15_V12_B1 | ||
| text = | | text = | ||
परमाणुमये भूतानां सकाशादतिशयेनाणुरूपे । कालसूक्ष्माणामात्मनि ॥ १२ ॥ | परमाणुमये भूतानां सकाशादतिशयेनाणुरूपे । कालसूक्ष्माणामात्मनि ॥ १२ ॥ | ||
| Line 221: | Line 215: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V13 | | verse_id = BTN_C11_S15_V13 | ||
| id = BTN_C11_S15_V13_B1 | | id = BTN_C11_S15_V13_B1 | ||
| text = | | text = | ||
अहंतत्वे स्थिते मयि ॥ १३ ॥ | अहंतत्वे स्थिते मयि ॥ १३ ॥ | ||
| Line 239: | Line 232: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V14 | | verse_id = BTN_C11_S15_V14 | ||
| id = BTN_C11_S15_V14_B1 | | id = BTN_C11_S15_V14_B1 | ||
| text = | | text = | ||
सूत्रे स्थिते मयि । गृहे पीठ इतिवत् । अव्यक्तजन्मनः अव्यक्तस्यापि किञ्चित्स्थूलत्वकर्तुः । | सूत्रे स्थिते मयि । गृहे पीठ इतिवत् । अव्यक्तजन्मनः अव्यक्तस्यापि किञ्चित्स्थूलत्वकर्तुः । | ||
| Line 264: | Line 256: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V15 | | verse_id = BTN_C11_S15_V15 | ||
| id = BTN_C11_S15_V15_B1 | | id = BTN_C11_S15_V15_B1 | ||
| text = | | text = | ||
सर्वत्राधीश्वरत्वादौ विद्यमानेऽपि तत्र तत्रोक्ताधीश्वरत्वादिगुणविशिष्ट-त्वेन तत्र तत्रोपासनमिति विशेषः । | सर्वत्राधीश्वरत्वादौ विद्यमानेऽपि तत्र तत्रोक्ताधीश्वरत्वादिगुणविशिष्ट-त्वेन तत्र तत्रोपासनमिति विशेषः । | ||
| Line 285: | Line 276: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V18 | | verse_id = BTN_C11_S15_V18 | ||
| id = BTN_C11_S15_V18_B1 | | id = BTN_C11_S15_V18_B1 | ||
| text = | | text = | ||
'शुद्धः श्वेतः सुखी श्वेतः श्वेतवर्णः क्वचिद्भवेत्''॥ इति शब्दनिर्णये ॥ १८ ॥ | 'शुद्धः श्वेतः सुखी श्वेतः श्वेतवर्णः क्वचिद्भवेत्''॥ इति शब्दनिर्णये ॥ १८ ॥ | ||
| Line 303: | Line 293: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V19 | | verse_id = BTN_C11_S15_V19 | ||
| id = BTN_C11_S15_V19_B1 | | id = BTN_C11_S15_V19_B1 | ||
| text = | | text = | ||
आकाशस्यात्मनि । तत्राकाश उपलब्धानां आसमन्तात्स्थितानां भूतानां वाचः । हंसो जीवः । | आकाशस्यात्मनि । तत्राकाश उपलब्धानां आसमन्तात्स्थितानां भूतानां वाचः । हंसो जीवः । | ||
| Line 323: | Line 312: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V21 | | verse_id = BTN_C11_S15_V21 | ||
| id = BTN_C11_S15_V21_B1 | | id = BTN_C11_S15_V21_B1 | ||
| text = | | text = | ||
मनसि मनस्तत्त्वे । वायुना संयोज्य । मनोऽनुदेहं मनस्तत्त्वे मद्धारणा॥ २१ ॥ | मनसि मनस्तत्त्वे । वायुना संयोज्य । मनोऽनुदेहं मनस्तत्त्वे मद्धारणा॥ २१ ॥ | ||
| Line 386: | Line 374: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V29 | | verse_id = BTN_C11_S15_V29 | ||
| id = BTN_C11_S15_V29_B1 | | id = BTN_C11_S15_V29_B1 | ||
| text = | | text = | ||
'गजादिरूपमाकाङ्क्षन्गजादिस्थितमीश्वरम् । | 'गजादिरूपमाकाङ्क्षन्गजादिस्थितमीश्वरम् । | ||
| Line 438: | Line 425: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V33 | | verse_id = BTN_C11_S15_V33 | ||
| id = BTN_C11_S15_V33_B1 | | id = BTN_C11_S15_V33_B1 | ||
| text = | | text = | ||
उपासनयाऽऽपरोक्ष्यं कृतवतः, पुनरुपासनं कार्यकाले कुर्वतः कार्यसिद्धि-रित्यतो योगधारणया पुनः इत्युक्तम् ॥ | उपासनयाऽऽपरोक्ष्यं कृतवतः, पुनरुपासनं कार्यकाले कुर्वतः कार्यसिद्धि-रित्यतो योगधारणया पुनः इत्युक्तम् ॥ | ||
| Line 467: | Line 453: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V34 | | verse_id = BTN_C11_S15_V34 | ||
| id = BTN_C11_S15_V34_author-note | | id = BTN_C11_S15_V34_author-note | ||
| text = | | text = | ||
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे पञ्चदशोऽध्यायः ॥ | ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे पञ्चदशोऽध्यायः ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C11_S15_V34 | | verse_id = BTN_C11_S15_V34 | ||
| id = BTN_C11_S15_V34_B1 | | id = BTN_C11_S15_V34_B1 | ||
| text = | | text = | ||
यैर्यैः कैश्चित्कैश्चिदेव जन्मादिभिः योगगतिं व््राजेत् । | यैर्यैः कैश्चित्कैश्चिदेव जन्मादिभिः योगगतिं व््राजेत् । | ||
Revision as of 09:02, 10 April 2026
'सर्वाधिका अणीमाद्या विष्णोर्नान्यस्य कस्यचित् । स्वाभाविका विरिञ्चस्य तत्प्रसादात्पराधिकाः॥ इति स्वाभाव्ये ॥ 'गुणभूतानामन्यासामपि सिद्धीनां ता एव हेतवः । स्वतस्तास्वेवाष्टस्वन्यासामन्तर्भावात् । । निःसीमाष्टगुणाभावात्सिद्धयोऽष्टादश स्मृताः ।
देवेभ्योऽन्यत्र देवानां सिद्धयोऽष्टैव सम्मताः॥ इति प्राकाश्ये ॥३॥
'यादृशानन्दकामः स्यात्तादृशानन्दसम्भवः ।
भोगान्विनैव प्राकाम्यमणिमादेः पृथक् ततः॥ इति च ॥ ४,५ ॥
'गरिम्णः सैव हेतुः स्यान्महिमा हेतुधारणा । प्रायोऽष्टसिद्धिकथनेष्वथो न पृथगुच्यतेइति च ॥ 'प्राप्तिप्राकाश्ययोश्चापि धारणैकापि सम्भवेत् । अत ऐक्येन तामुक्त्वा गरिमाणं पृथक् क्वचित्॥ इति च ॥ 'मूलभूतास्तु सिद्धीनां देवानामष्टसिद्धयः । सर्वसिद्धिप्रधानास्तास्तज्जा अष्टादश स्मृताः । अष्टस्वन्तर्गतास्तास्तु तदपेक्षतयाऽल्पकाः॥ इति च ॥ कामरूपत्वस्याणिमादित्रयेऽप्यन्तर्भावः । अष्टसिद्धिपक्षे अग्न्यर्कस्तम्भ एकैव सिद्धिः अदाहत्वात् । अग्न्यादिप्रतिस्तम्भस्य वशित्वेऽपि । अनूर्मिमत्त्वा-द्यष्टादशपृथक्सिद्धिपक्षेऽग्न्यर्कस्तम्भयोः पृथक्त्वम् । तस्मिन्पक्षे तासां सकाशात्प्रधानाष्टौ मत्प्रधाना इति व्याख्या । 'अनूर्मिमत्त्वसिद्धिस्तु प्राकाम्यान्तर्गता मता । दूरश्रुतिर्दूरदृष्टिस्त्रिकालज्ञत्वमेव च ॥ परचित्ताद्यभिज्ञानं प्राकाश्यान्तर्गतानि च । अणिमादित्रयान्तश्च कामरूपत्वमिष्यते ॥ अग्न्यर्काम्बुविषादीनां प्रतिस्तम्भो वशित्वगः । मनोजवः कामरूपं परकायप्रवेशनम् ॥ स्वच्छन्दमृत्युता देवैः सह क्रीडेष्टसाधनम् । प्राप्तावन्तर्गतान्याहुराज्ञाऽप्रतिहतिस्तथा ॥ अग्निस्तम्भो रविस्तम्भ उदकस्तम्भ एव च । विषस्तम्भस्तथा शस्त्रशापादिस्तम्भ एव च ॥ ईशित्वान्तर्गतान्याहुरपराजय एव च । एवमष्टादशाष्टभ्यो जायन्ते सिद्धयः क्रमात् ॥ अष्टादशभ्यश्चान्यास्तु जायन्ते सिद्धयोऽमिताः । अनूर्मिमत्त्वं दुःखस्याभावमात्रमुदाहृतम् ॥ यथेष्टानन्दसम्प्राप्तिः प्राकाम्यमिति कीर्त्यते । दुःखाभावोऽपि प्राकाम्ये नेतरे सुखितेष्यते ॥ प्राकाश्यं सर्ववेदादिज्ञानमेव विदो विदुः । सहस्रयोजनान्तं तु दूरदर्शनमिष्यते ॥ दूरश्रवणमप्येवं तस्मिन्नेव युगे स्थिते । वेदादिकं विना प्रोक्ता त्रिकालज्ञानिता बुधैः ॥ शरीरस्थं विना देहे परचित्ताद्यभिज्ञता । अन्येन्द्रियैर्दर्शनादि यथासङ्कल्पवेगिता ॥ प्राप्तिरित्युच्यते सद्भिः स्वमनःसमवेगिता । मनोजव इति प्रोक्तः पश्वाद्याकारता तथा ॥ कामरूपत्वमुद्दिष्टं स्वदेहत्यागतः परे । परकायप्रवेशः स्याद्युगादर्वाक्तना स्मृता ॥ स्वच्छन्दमृत्युता देवैः क्रीडा चेन्द्रादिभिर्विना । यथासङ्कल्पसिद्धिश्चाप्यन्नपानसुतादिषु ॥ चक्षुर्दृश्येष्वणुत्वं तु अणिमा सम्प्रकीर्तिता । महिमा चापि सम्प्रोक्ता त्रिलोकान्तरपूरणात् ॥ चक्षुर्दृश्यैर्विवाह्यत्वं लघिमा चापि कीर्तिता । त्रिलोकसमभारस्तु गरिमा चापि कीर्तिता ॥ पूर्वशक्तेः कोटिगुणशक्त्युद्रेकस्तथेशिता । भुविस्थैः प्राणिभिश्चोक्तकरणं चापि कीर्त्यते ॥ आज्ञाऽप्रतिहतिब््रर्•ह्मादर्वागस्त्रविघातनम् । विना महातपस्वींश्च शापप्रतिहतिः स्मृता ॥ अपराजयो मनुष्येभ्यो वशित्वं चाप्यलोलता । दाहादिसहनं चापि प्रतिस्तम्भ इतीर्यते ॥ इति षड्विंशतिः प्रोक्ता गरिम्णा सह सप्त वा । विंशतिश्च सुरेभ्योऽन्यद्देवेष्वष्टैव सिद्धयः ॥ यतो निःसीमकास्तेषां देवानामष्टसिद्धयः । अतोऽष्टादशसिद्धीनां तदन्तर्भाव इष्यते ॥ देवेष्विन्द्रेशवायुश्रीविष्णूनामुत्तरोत्तरम् । सिद्धयः परिपूर्णास्तु विष्णोरेकस्य नान्यगाः॥ इत्यैश्वर्ये ॥ 'श्रुतेषु तु यथायोगं क्षिप्रग््राहणमेव तु । उक्तं प्राकाश्यमन्येषां देवानामश्रुतेष्वपि ॥ ऋषीणां मिश्रभावेन भासते किञ्चिदश्रुतम् । विषयेभ्योऽधिकसुखव्यक्तिः प्राकाम्यमेव तु ॥ इतरेषां सुराणां तु निःसीमानन्दभोजनम् । एवमेव तु निःसीमा देवानामष्टसिद्धयः ॥ उत्तरोत्तरमत्रापि यावद्विष्णुः सुपूर्णभुक्॥ इति हरिवंशेषु ॥
'अग्न्यादिशक्तिसंस्तम्भ अग्न्यादिस्तम्भ इष्यतेइति कौर्मे ॥ ६-८ ॥
एकस्थानगताद्वा स्युः सुस्थिरोपासना यदि॥ इति भारते ॥ भूतसूक्ष्माणामात्मनि परमाणुस्थितेऽणुरूपे । 'तन्मात्रावयवे सूक्ष्मे परमाण्वभिधानके । प्रत्येकमणुरूपं तु विष्णुं ध्यायन्नणुर्भवेत्॥ इति कापिलेये ॥ 'आकाशवत्सूक्ष्मतां यो व्यापित्वेनैव मन्यते ।
तन्मात्रव्यापिनं विष्णुं चिन्तयन्स तथा भवेत्॥ इति च ॥ १० ॥
'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम॥ इति मोक्षधर्मेषु । 'अजरादमरादमूर्तितः शाश्वततमसः॥ इति च । 'अव्यक्तस्याजन्मवतो विकारो जनिरुच्यते॥ इति हरिवंशेषु । मे सकाशाद्विन्दते । परमेष्ठिप्रसादादन्येषां भवतीति पारमेष्ठ्यम् । सर्वगुणानां ज्ञानमूलत्वादुपलक्षणत्वेन प्राकाश्यं पारमेष्ठ्यमित्युक्तम् । 'सर्वे गुणास्तु प्राणस्य परमात्मप्रसादतः । प्राणविष्ण्वोः प्रसादेन भारत्याः सम्प्रकीर्तिताः ॥
प्रसादात्तु त्रयाणां चाप्यनन्तादेः सदा गुणाः॥ इति माहात्म्ये ॥ १४ ॥
'तं यथा यथोपासते तदेव भवति॥ इति च श्रुतेः । 'उपासतः सत्य इति सत्यसङ्कल्पता भवेत् ।
ईशत्वमीश्वर इति गुणं तं तं यथा हरिम्॥ इति विशेषे ॥ १५ ॥
'त्यागात्पूर्वशरीराणां नवानां सञ्चयेन च ।
जीवं हंस इति प्राहुस्तद्धेतुत्वाद्धरिं परम्॥ इति भारते ॥ १९ ॥
ध्यायन् गजादिरूपः स्यात्परकायस्थितं हरिम् ॥ ध्यायन्विशेत्परे काये वायावन्तर्गतः पुमान् । प्राणनामा हरिः प्रोक्तस्तस्मिन्वायुः समाश्रितः ॥ वायावन्तर्गतो जीवो देहाद्देहं प्रयास्यति । षडाधारस्थितं विष्णुं ध्यायन्नायुःक्षयं विना ॥ यदि मृत्युमभीप्सेत तथा प्राप्नोत्यसंशयम् । त्रिकालप््रोरकं विष्णुं ध्यातुः कालत्रयज्ञता ॥ अग्न्यादिषु हरिं ध्यायंस्तत्प्रतिस्तंभको भवेत्॥ इति हरिसंहितायाम् ॥ आत्मानं परमात्मानं तत्र परकाये भावयेत् । तदा वायौ स्थितः प्राणः परमात्मा तत्र गच्छति । तमनु जीवोऽपि गच्छति । वायौ भूतो वायुभूतः ॥ प्राणं परे ब््राह्मणि नीत्वा । 'प्राणस्थं प्राणनामानं बहिष्ठे ब््राह्मनामके । विष्णुं विष्णावनुस्मृत्य विसृजेद्देहमञ्जसा॥ इति प्रभञ्जने ॥ 'अनेयस्य हरेर्नीतिस्तद्गतस्य हरेः स्मृतिः । न हि नेयः क्वचित्क्वापि केनचित्स्ववशत्वतः॥ इति च । मम भावना मद्भावः ।
'भावो मनश्च भक्तिश्च क्वचिदभ्यास इष्यते॥ इति शब्दनिर्णये ॥ २२-२४, २७-२९ ॥
'उपास्य वायुं प्रथमं वायौ सुष्ठ्वपरोक्षिते । अनुज्ञातस्ततस्तद्गं तत्र तत्र हरिं स्मरेत् ॥ कृत्वाऽपरोक्षं तं चापि कालेकाले स्मरेत्पुनः । अभीष्टकार्यसिद्धिः स्यात्तस्य नास्त्यत्र संशयः ॥ अकामो यदि वायुं च ध्यात्वा दृष्ट्वा हरिं तथा । न किञ्चित्कामयेत्पश्चात्स क्षिप्रं मुक्तिमेष्यति ॥ यदि योगैः फलं भुङ्क्ते पुनः काममपास्य तु । तेनैव क्रमयोगेन वायुं दृष्ट्वा हरिं तथा ॥ एष्टव्या मुक्तिपदवी नान्यथा तु कथञ्चन । पूर्वदृष्टिर्हि कामार्थे पश्चान्मोक्षार्थमिष्यते ॥
येषां तु जन्मतः सिद्धिस्तेषां दोषो न विद्यते॥ इति निवृत्ते ॥ ३१-३३ ॥
'जन्मादिभिः कैश्चिदेव प्राप्यते योगजं फलम् । योगेन सर्वैः प्राप्येत योगे यत्नं ततः कुरु॥ इति च ॥ 'कश्चिदर्थे च यच्छब्दः प्रश्नार्थे च क्वचिद्भवेत् ।
क्वचित्परामर्शवाची क्वचिदाक्षेपवाचकः॥ इति तन्त्रनिरुक्ते ॥३४॥