Jump to content

Bhagavatatatparyanirnaya/C10/S38: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 12: Line 12:
}}
}}


{{Commentary
{{Bhashyam
| verse_id = BTN_C10_S38_V03
| verse_id = BTN_C10_S38_V03
| id      = BTN_C10_S38_V03_B1
| id      = BTN_C10_S38_V03_B1
| name    = Bhashyam
| text    =
| text    =
तवाङ्गेभ्यो भूताः ॥ ३ ॥
तवाङ्गेभ्यो भूताः ॥ ३ ॥
Line 29: Line 28:
}}
}}


{{Commentary
{{Bhashyam
| verse_id = BTN_C10_S38_V04
| verse_id = BTN_C10_S38_V04
| id      = BTN_C10_S38_V04_B1
| id      = BTN_C10_S38_V04_B1
| name    = Bhashyam
| text    =
| text    =
अन्यात्मतया गृहीताः । मत्तोऽन्ये जीवात्मानः एत इति भगवता गृहीताः ।
अन्यात्मतया गृहीताः । मत्तोऽन्ये जीवात्मानः एत इति भगवता गृहीताः ।
Line 51: Line 49:
}}
}}


{{Commentary
{{Bhashyam
| verse_id = BTN_C10_S38_V05
| verse_id = BTN_C10_S38_V05
| id      = BTN_C10_S38_V05_B1
| id      = BTN_C10_S38_V05_B1
| name    = Bhashyam
| text    =
| text    =
'स्थितो ब्रह्मादिदेवेषु खादिभूतेषु चेश्वरः ।
'स्थितो ब्रह्मादिदेवेषु खादिभूतेषु चेश्वरः ।
Line 71: Line 68:
}}
}}


{{Commentary
{{Bhashyam
| verse_id = BTN_C10_S38_V06
| verse_id = BTN_C10_S38_V06
| id      = BTN_C10_S38_V06_B1
| id      = BTN_C10_S38_V06_B1
| name    = Bhashyam
| text    =
| text    =
'सर्वदेवेष्वपि हरिः सर्वदेवनियामकः ।
'सर्वदेवेष्वपि हरिः सर्वदेवनियामकः ।
Line 89: Line 85:
}}
}}


{{Commentary
{{Bhashyam
| verse_id = BTN_C10_S38_V13
| verse_id = BTN_C10_S38_V13
| id      = BTN_C10_S38_V13_B1
| id      = BTN_C10_S38_V13_B1
| name    = Bhashyam
| text    =
| text    =
अविद्यया भगवदिच्छया ॥ १३ ॥
अविद्यया भगवदिच्छया ॥ १३ ॥
Line 122: Line 117:
}}
}}


{{Commentary
{{Bhashyam
| verse_id = BTN_C10_S38_V16
| verse_id = BTN_C10_S38_V16
| id      = BTN_C10_S38_V16_B1
| id      = BTN_C10_S38_V16_B1
| name    = Bhashyam
| text    =
| text    =
त्वयैव प्रकल्पिताः ।
त्वयैव प्रकल्पिताः ।
Line 142: Line 136:
}}
}}


{{Commentary
{{Bhashyam
| verse_id = BTN_C10_S38_V17
| verse_id = BTN_C10_S38_V17
| id      = BTN_C10_S38_V17_B1
| id      = BTN_C10_S38_V17_B1
| name    = Bhashyam
| text    =
| text    =
'भृतामेव विभर्तीशो ह्यवतारतनुं सदा ।
'भृतामेव विभर्तीशो ह्यवतारतनुं सदा ।
Line 162: Line 155:
}}
}}


{{Commentary
{{Bhashyam
| verse_id = BTN_C10_S38_V22
| verse_id = BTN_C10_S38_V22
| id      = BTN_C10_S38_V22_author-note
| id      = BTN_C10_S38_V22_author-note
| name    = Bhashyam
| text    =
| text    =
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे अष्टत्रिंशोऽध्यायः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे अष्टत्रिंशोऽध्यायः ॥
}}
}}


{{Commentary
{{Bhashyam
| verse_id = BTN_C10_S38_V22
| verse_id = BTN_C10_S38_V22
| id      = BTN_C10_S38_V22_B1
| id      = BTN_C10_S38_V22_B1
| name    = Bhashyam
| text    =
| text    =
'प्रद्युम्ने चानिरुद्धे च बलदेवे च केशवः ।
'प्रद्युम्ने चानिरुद्धे च बलदेवे च केशवः ।

Revision as of 09:02, 10 April 2026

भूस्तोयमग्निः पवनः खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ ३ ॥


तवाङ्गेभ्यो भूताः ॥ ३ ॥
नैते स्वरूपं विदुरात्मनस्ते अजादयोऽन्यात्मतया गृहीताः । अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ४ ॥


अन्यात्मतया गृहीताः । मत्तोऽन्ये जीवात्मानः एत इति भगवता गृहीताः ।

'अहं परो हि मद्भिन्ना जीवात्मानोऽल्पबुद्धयः । मद्वशाः सर्व एवेति ब्रह्मादीन्मन्यते हरिः॥ इति स्कान्दे ॥ 'यथा हरिः स्वमात्मानं वेद तद्वद्रमापि न ।

ब्रह्मा च कुत एवान्ये विदन्त्येव तथापि तु॥ इति माहात्म्ये ॥४॥
त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ५ ॥


'स्थितो ब्रह्मादिदेवेषु खादिभूतेषु चेश्वरः ।

आत्मशब्दोदितनरेष्वपि यस्माज्जनार्दनः ॥

साध्यात्मः साधिभूतश्च साधिदैवेति चोच्यते॥ इति अध्यात्मे ॥५॥
त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः ।यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ६ ॥


'सर्वदेवेष्वपि हरिः सर्वदेवनियामकः । नामवान् सर्वदेवानां सर्वपूजां तथाऽत्त्यसौ॥ इति च ॥ ६ ॥
तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्ययाऽसकृत् प्रवर्तते देवनृतिर्यगात्मसु ॥ १३ ॥


अविद्यया भगवदिच्छया ॥ १३ ॥
अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १४ ॥


रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि तेऽद्रयः । निमेषणं रात्र्यहनी प्रजापति- र्मेढ्रं तु वृष्टिस्तव वीर्यमिष्यते ॥ १५ ॥


त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसोऽ- प्युदुम्बरे वा मशका मनोमये ॥ १६ ॥


त्वयैव प्रकल्पिताः ।

'विष्णोरङ्गसमुद्भूता विष्णोरङ्गानि देवताः ।

उच्यन्ते सर्ववेदेषु स्वरूपात् भेदिनोऽपि तु॥ इति च ॥१४-१६॥
यानि यानीह रूपाणि क्रीडनार्थं विभर्षि हि ।तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १७ ॥


'भृतामेव विभर्तीशो ह्यवतारतनुं सदा ।

विभर्तीत्युच्यतेऽथापि मोहाय व्यक्त्यपेक्षया

इति तत्त्वनिर्णये ॥ १७ ॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २२ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे अष्टत्रिंशोऽध्यायः ॥
'प्रद्युम्ने चानिरुद्धे च बलदेवे च केशवः ।

सन्निधानं विशेषेण करोति जगतां पतिः । तत्र कृष्णः स्वयं विष्णुः परमानन्दलक्षणः । पाराशर्यश्च भगवान्स्वयमेव जनार्दनः॥ इति च ॥ 'तत्तद्गतस्यैव हरेस्तत्तन्नामानि चाञ्जसा ।

औपचारिकनामानि तदन्येषामिति स्थितिः॥ इति शब्दनिर्णये ॥ २२ ॥